॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
एवं दत्तसयोगेन योगभूमिं समाचरन् ।
नानाचेष्टायुतो दक्ष अवधूतः प्रकाशते ॥ १ ॥
गोवद्भक्षणसंयुक्तः पशुवत्पक्षिवत्कदा ।
मूत्रादिदेहचेष्टां स चकार मुनिसत्तमः ॥ २ ॥
सहजावस्थया युक्तो बभूवान्तेऽत्रिसम्भवः ।
तत्रान्तर्यामितां ज्ञात्वा खेदयुक्तो बभूव ह ॥ ३ ॥
व्यक्ताव्यक्तसमेत्यादिनानाब्रह्मसुसंस्थितः ।
योगेन न स शान्तोऽभूद्ययौ स्वपितरं ततः ॥ ४ ॥
प्रणम्य भगवानत्रिं दत्तो योगिसमावृतम् ।
साक्षाद्ब्रह्ममयं पूर्णं प्राञ्जलिः पुरतोऽभवत् ॥ ५ ॥
[[१९]]
अत्रिणा मानितः सोऽपि निषसादासने स्वयम् ।
उवाच ब्रह्मपुत्रं तमत्रिं विनयसंयुतः ॥ ६ ॥
दत्त उवाच ।
स्वामिन्नानाविधं ब्रह्म मया योगेन साधितम् ।
तत्रोपाधिः समादृष्ट उपाधिरहितोऽभवम् ॥ ७ ॥
उपाधिं निरुपाधिं च त्यक्त्वा साम्येऽहमास्थितः ।
तत्त्यक्त्वा तूर्यभूतोऽहं सहजे संस्थितोऽभवम् ॥ ८ ॥
तत्र दृष्ट्वा महायोगिन् स्वाधीनत्वं सदा प्रभो ।
तेन शान्तिविहीनोऽहं किं करोमि वदस्व भोः ॥ ९ ॥
सहजान्न परं ब्रह्म लभ्यते योगसेवया ।
अतो मां शान्तियोगं त्वं कथयस्व महामुने ॥ १० ॥
दत्तस्य वचनं श्रुत्वा ब्रह्मपुत्रो महातपाः ।
अत्रिस्तूवाच तं पुत्रं शान्तिमिच्छन्तमादरात् ॥ ११ ॥
शृणु पुत्र प्रवक्ष्यामि शान्तियोगं सनातनम् ।
ब्रह्मणा कथितं मे तं येन शान्तोऽहमञ्जसा ॥ १२ ॥
अस्माकं कुलदेव त्वं प्राप्तो गणपतिः प्रभुः ।
स वै शिवादिदेवानां कुलदेवः प्रकीर्तितः ॥ १३ ॥
शान्तियोगस्वरूपं त्वं तं जानीहि महामते ।
भजस्व सुप्रयत्नेन तदा शान्तिमवाप्स्यसि ॥ १४ ॥
गणेशात्सर्वमुत्पन्नं तेन संस्थापितं सुत ।
तस्याराधनमात्रेण कृतकृत्याः शिवादयः ॥ १५ ॥
नामरूपात्मकं सर्वं जगद्ब्रह्म प्रकथ्यते ।
तदेव शक्तिरूपाख्यं ब्रह्मासद्रूपकं परम् ॥ १६ ॥
तत्रामृतमयं सौरमात्माकारेण संस्थितम् ।
सद्रूपं तद्विजानीहि ब्रह्म वेदे प्रकीर्तितम् ॥ १७ ॥
तयोरभेदतो ब्रह्म समं सर्वत्र संस्थितम् ।
सदसन्मयमेवं च विष्णुं जानीहि वेदतः ॥ १८ ॥
?तेभ्यो विलक्षणं तुर्यं नेति रूपं प्रकीर्तितम् ।
निर्मोहशिवसञ्ज्ञं च स्वाधीनं ब्रह्म तद् बुधैः ॥ १९ ॥
चतुर्णां ब्रह्मणां योगे स्वानन्दः कथ्यते बुधैः ।
स तु मायामयः साक्षाद्गणेशो वेदवादिभिः ॥ २० ॥
अन्तर्बाह्या क्रिया सर्वा ब्रह्माकारा प्रदृश्यते ।
कर्मयोगः स विज्ञेयः संयोगः कर्मणां सुत ॥ २१ ॥
ज्ञानात्मचक्षुषा ज्ञानं यद्यद्भवति योगिनाम् ।
तेषामभेदको योगो ज्ञानयोगः प्रकीर्तितः ॥ २२ ॥
ज्ञानानां कर्मणां चैवाभेदयोगः समात्मकः ।
आनन्दात्मकरूपो यं द्वैधनाशे स आप्यते ॥ २३ ॥
स्वेच्छया कर्मयोगश्च धृतो येन महात्मना ।
स्वेच्छया ज्ञानयोगश्च स्वेच्छयानन्दयोगकः ॥ २४ ॥
स्वेच्छया स त्रिभिर्हीनः सहजाख्यः प्रकथ्यते ।
सदा स्वाधीनरूपश्च स्वेच्छया क्रीडति स्वयम् ॥ २५ ॥
ब्रह्मभूतात्मको योगः स्वानन्दाख्यः प्रकीर्तितः ।
तत्र स्वाधीनता त्रेधा पराधीनकता कुतः ॥ २६ ॥
ब्रह्मणि ब्रह्मभूतस्य स्वतः परत एव च ।
उत्थानं नास्ति संयोगात् स्वस्वरूपिणि योगतः ॥ २७ ॥
स्वानन्दे सुतसंयोगो जगतां ब्रह्मणां भवेत् ।
सर्वाभेदेन योगोऽयं तस्मान्मायासमन्वितः ॥ २८ ॥
अयोगात्मकयोगश्च सदा संयोगवर्जितः ।
जगतां ब्रह्मणां तत्र प्रवेशोऽतो न विद्यते ॥ २९ ॥
सदा निर्मायिको योगः स्वसंवेद्यविवर्जितः ।
स्वकीया भेदहीनत्वान्निर्वृत्तिर्योगिभिर्धृता ॥ ३० ॥
ब्रह्म ब्रह्मणि संस्थं यन्नागतं न गतं पुनः ।
[[२०]]
स्वानन्दनाशतो लभ्यं ब्रह्मभूयमयोगकम् ॥ ३१ ॥
ब्रह्मस्वानन्दवासी स गणेशः कथ्यते बुधैः ।
न स्वानन्दात्मकः प्रोक्तो वेदे वै वेदवादिभिः ॥ ३२ ॥
क्रीडात्मकगणेशानः स्वानन्दः परिकीर्तितः ।
संयोगात्मकरूपेण स्वस्वरूपिणि तिष्ठति ॥ ३३ ॥
क्रीडाहीनो गणेशानो योगरूपः प्रकीर्तितः ।
निरानन्दात्मकत्वेन सदा ब्रह्मणि संस्थितः ॥ ३४ ॥
संयोगायोगयोश्चैव तयोर्नाशे गणेश्वरः ।
शान्तियोगात्मकः प्रोक्तो योगिभिर्योगसेवया ॥ ३५ ॥
पूर्णयोगात्मकस्तत्र गणेशः परिकीर्तितः ।
मायायुक्तविहीनत्वं भ्रान्तिमात्रं प्रकीर्तितम् ॥ ३६ ॥
पञ्चचित्तस्वरूपां त्वं बुद्धिं जानीहि पुत्रक ।
तत्र मोहकरी सिद्धिर्भ्रान्तिदा मोहरूपिणी ॥ ३७ ॥
धर्मार्थकाममोक्षाणां सिद्धिर्भिन्ना प्रदृश्यते ।
ब्रह्मभूतमयी सिद्धिः कथिता योगिभिस्तथा ॥ ३८ ॥
पञ्चधा चित्तवृत्तिर्या तत्र यद्बिम्बितं सुत ।
तदेव गणराजस्य रूपं बिम्बात्मकं परम् ॥ ३९ ॥
धर्मार्थकाममोक्षेषु ब्रह्मभूतेषु यत्स्मृतम् ।
ऐश्वर्यं मोहदं जन्तुर्यत्र भ्रमति लालसी ॥ ४० ॥
पञ्चैश्वर्येषु यद्बिम्बं तदेव गणपस्य च ।
जीवं जानीहि पुत्र त्वं शान्तियोगस्य सेवया ॥ ४१ ॥
पञ्चचित्तप्रणाशे व पञ्चैश्वर्ये लयं गते ।
अधुना गणराजस्त्वं भविताऽसि न संशयः ॥ ४२ ॥
त्यजावधूतमार्गं त्वं भव मुख्योऽवधूतकः ।
अवधूय महच्चित्तं महदैश्वर्यमादरात् ॥ ४३ ॥
अतः शान्तिं भजस्व त्वं दत्तयोगेन सत्वरम् ।
ददामि ते महामन्त्रं गणेशस्य विधानतः ॥ ४४ ॥
तत एकाक्षरं मन्त्रं ददौ पुत्राय भावतः ।
अत्रिर्योगविदां श्रेष्ठस्तं प्रणम्य ययावजः ॥ ४५ ॥
साक्षाद्विष्णुस्वरूपश्च दत्तो योगविदां वरः ।
गङ्गाया दक्षिणे तीरे पूजयामास विघ्नपम् ॥ ४६ ॥
त्यक्त्वा भूमिस्वरूपं स शान्तिमास्थाय योगवित् ।
अभजत्तं सुभावेन गणपं हृदि चिन्तयन् ॥ ४७ ॥
महायोगी स्वयं दत्तो वर्षेणैकेन शौनक ।
शान्तिं प्राप्तो विशेषेण गाणपत्यो बभूव ह ॥ ४८ ॥
तं द्रष्टुं गणपस्तत्र ययौ भक्तं निजेच्छया ।
भक्तवात्सल्यतो देव आश्रमे सुखशान्तिदे ॥ ४९ ॥
तं दृष्ट्वा सहसोत्थाय प्रणनाम कृताञ्जलिः ।
तुष्टाव सुस्थिरो भूत्वा विघ्नेशं कुलदैवतम् ॥ ५० ॥
श्रीदत्त उवाच ।
नमो गणपते तुभ्यं नमो योगस्वरूपिणे ।
योगिभ्यो योगदात्रे च शान्तियोगात्मने नमः ॥ ५१ ॥
सिद्धिबुद्धिपते तुभ्यं पञ्चचित्तप्रधारक ।
नानाविहारशीलाय गणेशाय नमो नमः ॥ ५२ ॥
सिद्धिदात्रे नमस्तुभ्यं नानैश्वर्यप्रदायिने ।
मोहहन्त्रे मोहकर्त्रे हेरम्बाय नमो नमः ॥ ५३ ॥
स्वानन्दवासिने तुभ्यं संयोगाभेदधारिणे ।
नानामायाविहाराय विघ्नेशाय नमो नमः ॥ ५४ ॥
साङ्ख्याय ब्रह्मनिष्ठाय बोधहीनाय धीमते ।
परादुत्थानरूपाय विदेहाय नमो नमः ॥ ५५ ॥
बोधाय सर्वरूपाय देहदेहिमयाय च ।
स्वत उत्थानरूपाय प्रकृतिप्रलयाय ते ॥ ५६ ॥
साहङ्काराय देवाय जगदीशाय ते नमः ।
[[२१]]
महते बिन्दुरूपाय जगद्रूपाय ते नमः ॥ ५७ ॥
नादात्मकगुणेशाय नानावेषप्रधारिणे ।
ब्रह्मणे सृष्टिकर्त्रे ते पितामह नमोऽस्तु ते ॥ ५८ ॥
हरये पालकायैव नानादेहधराय ते ।
संहर्त्रे शङ्करायैव कर्माकाराय भानवे ॥ ५९ ॥
शक्तये च क्रियामूर्ते देवमानवरूपिणे ।
नागासुरमयायैव ढुण्ढिराजाय ते नमः ॥ ६० ॥
स्थावराय नमस्तुभ्यं जङ्गमाय नमो नमः ।
जगद्रूपाय देवाय ब्रह्मणे ते नमो नमः ॥ ६१ ॥
किं स्तौमि त्वां गणाधीश योगाकारेण संस्थितम् ।
वेदादयः समर्था न त्वामतः प्रणमाम्यहम् ॥ ६२ ॥
धन्यो देहो मदीयोद्य पितरौ कुलमेव च ।
विद्यायोगस्तपश्चैव त्वदङ्घ्रियुगदर्शनात् ॥ ६३ ॥
इत्युक्त्वा भक्तिभावेन सम्प्लुतोऽसौ महामुनिः ।
ननर्त हृष्टरोमासावानन्दाश्रु सृजन्मुहुः ॥ ६४ ॥
ततस्तं स्वकरे धृत्वा गणनाथः स सस्वजे ।
उवाच योगिनं पूर्णं वचनं परमाद्भुतम् ॥ ६५ ॥
श्रीगणेश उवाच ।
धन्योऽसि दत्त योगीन्द्रो जातोऽसि मदनुग्रहात् ।
त्वं पूर्णां लभसे शान्तिमचलां मयि सर्वदा ॥ ६६ ॥
न भेदस्ते कदाचित्ते भविष्यति महामुने ।
त्वत्प्रीतिसम्प्रवृद्ध्यर्थमत्र स्थास्यामि निश्चलः ॥ ६७ ॥
गाणेशज्ञानमाहात्म्यं त्वयात्रेश्च मुखाच्छ्रुतम् ।
साक्षात्कारकरं तस्माद् विज्ञानक्षेत्रकं त्विदम् ॥ ६८ ॥
विज्ञानगणपो दत्तनाम्नाख्यातो भवाम्यहम् ।
दर्शनाच्छान्तिसन्दाता भविष्याम्यत्र मानद ॥ ६९ ॥
अत्र वासं प्रकुर्वन्ति मदर्थं भक्तिसंयुताः ।
शान्तियोगं सदा तेभ्यो दास्यामि तव सन्निधौ ॥ ७० ॥
पुराऽत्र तु शिवेनैव ज्ञानं साक्षात्कृतं परम् ।
विज्ञानेश्वरनामेति स मया शङ्करः कृतः ॥ ७१ ॥
तस्यात्र सन्निधौ स्थित्वा त्वया ज्ञानं प्रसाधितम् ।
अतः शङ्करमित्रत्वं प्राप्तोऽसि मदनुग्रहात् ॥ ७२ ॥
त्वया कृतमिदं स्तोत्रं योगशान्तिप्रदं भवेत् ।
पठतां शृण्वतां नॄणां ब्रह्मभूयकरं तथा ॥ ७३ ॥
धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ।
सर्वसिद्धिप्रदं चैव सर्वेभ्यो ज्ञानदायकम् ॥ ७४ ॥
इत्युक्त्वान्तर्दधे तत्र गणेशो भक्तवत्सलः ।
दत्तः खिन्नश्च तं ध्यात्वा तस्थौ तत्र प्रजापते ॥ ७५ ॥
ततस्तत्कृपया तेन स्वात्मा तत्र समर्पितः ।
योगाभेदमयत्वेन जात आत्मनिवेदकः ॥ ७६ ॥
दत्तो भक्तो गणेशश्च स्वामी तस्येति नाशितम् ।
स्वामिन्यसौ सेवकोपि तदाकारेण संस्थितः ॥ ७७ ॥
इयं भक्तिर्गणेशस्यात्मनिवेदनरूपिणी ।
दत्तेन साधिता मुख्या शान्तियोगप्रयत्नतः ॥ ७८ ॥
एतस्मिन्नन्तरे तत्र प्रकटोऽभूत् स्वयं शिवः ।
विज्ञानेश्वरनामाऽसौ दत्तं तं परिषस्वजे ॥ ७९ ॥
अहो दत्त महाभाग मम मित्रत्वमागतः ।
अत्रैवैनं गणेशानमध्यायं योगसेवया ॥ ८० ॥
ततो दत्तं पुरस्कृत्य शङ्करो ब्राह्मणैः सह ।
गणेशं स्थापयामास गङ्गाया दक्षिणे तटे ॥ ८१ ॥
विज्ञानगणराजेति नाम चक्रे महर्षिभिः ।
[[२२]]
क्षेत्रं तदादेर्विख्यातं बभूव गणपस्य तत् ॥ ८२ ॥
विज्ञाननामकं पुण्यं शान्तियोगफलप्रदम् ।
सर्वसिद्धिकरं क्षेत्रं यात्राकारि जनस्य च ॥ ८३ ॥
ज्येष्ठशुक्लचतुर्थ्यां तैः स्थापितो गणनायकः ।
अतस्तत्र महोत्साहस्तद्दिने कुर्वते नराः ॥ ८४ ॥
योगिभिर्देवगन्धर्वैः सिद्धैर्नागैश्च मानुषैः ।
नानाजनैस्तथा दक्षसेवितं क्षेत्रमुत्तमम् ॥ ८५ ॥
एतद्दत्तस्य माहात्म्यं यः शृणोति नरोत्तमः ।
पठेद्वा भविता तस्य सर्वसिद्धिर्न संशयः ॥ ८६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते दत्तचरितं नामाऽष्टमोऽध्यायः ॥