॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
दक्षकन्याप्रसूतेभ्यः पितरः परमादृताः ।
गणेशाराधनं तेभ्यो ददुः प्रत्येकमादरात् ॥ १ ॥
नानामन्त्रान्यथान्यायं साधयित्वा च ते वने ।
गत्वाऽजपंश्च हेरम्बं ध्यात्वा तपसि संस्थितः ॥ २ ॥
ततो वर्षसहस्रेण परितुष्टा गजाननः ।
वरं दातुं ययौ तत्र भक्तिभावेन तोषितः ॥ ३ ॥
तं दृष्ट्वा तुष्टुवुः सर्वे बद्धाञ्जलिपुटाः प्रभुम् ।
भक्तिभावसमायुक्ता गणेशं सर्वसिद्धिदम् ॥ ४ ॥
ऋषिपुत्रा ऊचुः ।
नमस्ते वक्रतुण्डाय भक्तरक्षकरूपिणे ।
ब्रह्माकाराय देवाय ब्रह्मभूताय ते नमः ॥ ५ ॥
मनोवागतिरूपाय मनोवारगम्यमूर्तये ।
योगाकाराय योगाय योगिने ते नमो नमः ॥ ६ ॥
निराकाराय विघ्नेश भक्तविघ्ननिवारक ।
शान्तिरूपाय सर्वत्र शान्तिदाय नमो नमः ॥ ७ ॥
सृष्टिरक्षणसंहारकारिणे ते नमो नमः ।
सर्वपूज्याय सर्वाय नमः सर्वादिमूर्तये ॥ ८ ॥
मायाविकारहीनाय मायिने मोहदायिने ।
मायाधाराय मायायाश्चालकाय नमो नमः ॥ ९ ॥
अनन्तविभयायैवानन्तोदारपराक्रम ।
अनन्ताननहस्ताय सर्वसाक्षिन्नमोऽस्तु ते ॥ १० ॥
वेदान्तागम्यरूपस्त्वं दृष्टो वै भाग्यगौरवात् ।
स्तुतिं कर्तुं समर्था न वयं तव गजानन ॥ ११ ॥
धन्यो नो जनको देव वयं धन्यतमा विभो ।
विद्या व्रतं तपो मन्त्रोऽस्माकं गणपदर्शनात् ॥ १२ ॥
वरदश्चेदेकदन्त भक्तिं देहि दृढां त्वयि ।
यया मायामयो मोहो नश्येद्वै वरद प्रभो ॥ १३ ॥
स्वस्वकार्येषु सामर्थ्यं देहि देव गजानन ।
यद्यदिच्छामहे तत्तत् सफलं भवतु प्रभो ॥ १४ ॥
एवमुक्त्वा पूजयन्त उपचारैरनेकशः ।
प्रणेमुर्भक्तियुक्तास्तं सरोमाञ्चा बभूविरे ॥ १५ ॥
[[१७]]
ततस्तानब्रवीद्देवो भवतां यच्चिकीर्षितम् ।
तदेव सफलं सर्वं भविष्यति न संशयः ॥ १६ ॥
भक्तिर्मदीयपादेषु भविष्यति सुखप्रदा ।
सामर्थ्यं स्वस्वकार्येषु दृढा ख्यातिर्भविष्यति ॥ १७ ॥
भवत्कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् ।
यः शृणोति नरो भक्त्या पठेद्वै तस्य सिद्धिदम् ॥ १८ ॥
एकविंशतिवारं च पठेत्तावद्दिनानि यः ।
स सद्यः फलमाप्नोति चित्तेप्सितमसंशयम् ॥ १९ ॥
एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत ।
ते च स्वस्वगृहे सर्वे ययुर्हर्षसमन्विताः ॥ २० ॥
स्त्रियश्च पुरुषाः सर्वे दक्षकन्या समुद्भवाः ।
सुखिनः स्वस्वकार्येषु बभूवुर्ज्ञानसंयुताः ॥ २१ ॥
शौनक उवाच ।
अत्रिपुत्रा महाभागा ब्रह्मविष्णुशिवात्मकाः ।
तच्चरित्रं विस्तरतः श्रोतुमिच्छामि तद्वद ॥ २२ ॥
सूत उवाच ।
ब्रह्मणोऽंशसमुद्भूतश्चन्द्रस्तपसि संस्थितः ।
गणेशात्स वरं लब्ध्वाऽमृतरूपो बभूव ह ॥ २३ ॥
कलाभिः सर्वदेवानां पोषकः स तथा नृणाम् ।
किरणैरन्नभावस्य वृद्धिकृत् सर्वदाऽभवत् ॥ २४ ॥
दत्तो विष्णुकलांशेन सम्भूतो योगधारकः ।
क्रमेण योगमार्गेण नानाब्रह्मसु संस्थितः ॥ २५ ॥
जडोन्मत्तपिशाचादिबालानन्दादिका मुने ।
अवस्थाः साधयामास नानाभूमिप्रकाशिकाः ॥ २६ ॥
तं दृष्ट्वा योगिनं सर्वे सेवायामभवन् पराः ।
द्विजाद्याः सर्ववर्णाश्चाश्रमस्था भक्तिभावतः ॥ २७ ॥
क्षणं विश्राममत्यन्तं न लेभे मुनिसत्तमः ।
दत्तो विह्वलतां यातः किङ्करोमीत्यचिन्तयत् ॥ २८ ॥
ततस्तेन जले विप्र ममज्जे योगधारणात् ।
प्रतीक्षयन्तस्तत्तीरे स्थिताः सर्वेऽभवन् जनाः ॥ २९ ॥
ततो दत्तेन सिध्या च मोक्षलक्ष्मीः प्रकाशिता ।
गृहीत्वा वामभागे तां निःसृतो जलामध्यतः ॥ ३० ॥
दक्षिणे मद्यकुम्भं स हस्ते धृत्वा पपौ स्वयम् ।
स्त्रिया सह विलासेन भोगयुक्तो बभूव ह ॥ ३१ ॥
त्यक्तस्तैरत्रिजो योगी भ्रष्टोऽयमिति भावतः ।
सुखेन योगमास्थाय संस्थितोऽत्रिसमुद्भवः ॥ ३२ ॥
गते कियति काले च देवासुरसमुद्भवम् ।
युद्धं दारुणरूपं वै जातं तत्र समीपतः ॥ ३३ ॥
दैत्यैर्देवास्ततो भग्नाः पलायन्त दिशो दश ।
तत्राऽऽययुः सुसम्भीता रक्ष रक्षेति चाब्रुवन् ॥ ३४ ॥
ततो सुरा ययुः सर्वे नग्नशस्त्रधरा बलात् ।
तान् दृष्ट्वाऽमरसङ्घास्ते पलायनपरा बत ॥ ३५ ॥
दैत्या दृष्ट्वा महालक्ष्मीं मोक्षरूपां सुरूपिणीम् ।
तां गृहीत्वा ययुः सर्वे धृत्वा मोहेन मस्तके ॥ ३६ ॥
मोक्षलक्ष्मीश्च तैस्तत्र यदि पादेषु सन्धृता ।
तदा तेषां जयप्राप्तिर्जातासीन्नात्र संशयः ॥ ३७ ॥
अतो निस्तेजसा स्पृष्टा दैत्या देवैः प्रपीडिताः ।
पलायन्त भयात् सर्वे पातालं विविशुः पुनः ॥ ३८ ॥
मोक्षलक्ष्मीस्ततस्तेषां पश्यतां मुनिसत्तम ।
अन्तर्धानं ययौ देवी ब्रह्मणि ब्रह्मभाविता ॥ ३९ ॥
शौनक उवाच ।
सूत कूटं त्वया प्रोक्तं न बुद्धं तन्मयाधुना ।
मोक्षलक्ष्मीः शिरः स्पृष्टा दैत्यानां दुःखदा कथम् ॥ ४० ॥
[[१८]]
सूत उवाच ।
सम्यक्पृष्टं त्वया ब्रह्मन् कथयामि यथा श्रुतम् ।
व्यासात् सर्वज्ञमुख्याच्च शृणु शौनक यत्नतः ॥ ४१ ॥
रजस्तमोयुता दैत्या भोगलक्ष्मीपरायणाः ।
परद्रव्यहराः सर्वे परस्त्रीगामिनस्तथा ॥ ४२ ॥
परापकारकर्तारो जन्तुभ्यो दुःखदाः स्मृताः ।
सदा मद्यादिभिर्युक्ताः पापाचारा विशेषतः ॥ ४३ ॥
साधूनां मुनिमुख्यानां देवानां योगिनां तथा ।
वेदशास्त्रपुराणानां निन्दका भयदायकाः ॥ ४४ ॥
इत्यादिबहुभिर्दोषैः संयुक्तास्ते महासुराः ।
सदा भोगप्रिया ज्ञेया मुक्तौ नार्हा अतः कदा ॥ ४५ ॥
देहं सर्वक्रियाणां ते कर्तारं प्राप्य दैत्यपाः ।
सर्वथा मुक्तिमुत्सृज्य भोगेच्छायां मनो दधुः ॥ ४६ ॥
अतस्तैश्चरणाघातैर्हता मुक्तिर्विशेषतः ।
भोगलक्ष्मीः शिरोभिस्तैर्वन्दिता तत्र यत्नतः ॥ ४७ ॥
देवर्षयः सदा यत्नैर्मुक्तिमिच्छन्ति सर्वदा ।
अतस्ते मस्तके देवीं धारयामासुरञ्जसा ॥ ४८ ॥
असुरैर्योगिसङ्गेन धृता मुक्तिर्यदा मुने ।
शिरस्यपि शुभा सा न कारणं कथयामि ते ॥ ४९ ॥
दुराचारादिसंयुक्ता भोगबुद्धिपरायणाः ।
तेभ्यः कुतः सा शुभदा कुपिता तान्निहन्ति वै ॥ ५० ॥
गृहीता विषयासक्तैर्नेच्छिता पश्य शौनक ।
चरणाघातकैर्देवी ताडिता च तदा भवेत् ॥ ५१ ॥
अतो भोगेप्सुभिर्विप्र वन्द्या भोगप्रदायिनी ।
यदि मुक्तिर्दुराचारैर्धृता तान्नाशयिष्यति ॥ ५२ ॥
इति ते कथितं सर्वं कारणं मुनिसत्तम ।
तथा मोक्षेप्सुभिर्भोगलक्ष्मीश्चरणताडिता ॥ ५३ ॥
यत्र भोगः प्रियो नित्यं तत्र मुक्तिर्न विद्यते ।
यत्र मुक्तिः प्रिया नित्यं तत्र भोगः कुतो भवेत् ॥ ५४ ॥
वासानायुक्तरूपा च भोगलक्ष्मीर्न संशयः ।
निर्वासनमयी मोक्षलक्ष्मीर्जानीहि शौनक ॥ ५५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते भोगमोक्षवर्णनं नाम सप्तमोऽध्यायः ॥