०६ दक्षकन्यावंशवर्णनम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

ततः स्वायम्भुवो यातो ब्रह्माणं प्रणनाम सः ।
शतरूपा तथा तं वै जग्मतुस्तौ तदाज्ञया ॥ १ ॥

राज्यं चकार धर्मेण मनुः शस्त्रधरः प्रभुः ।
धर्मयुक्तो महातेजा गाणपत्यप्रियोऽभवत् ॥ २ ॥

द्वौ पुत्रौ शतरूपायाः कन्यास्तिस्रः प्रजापते ।
मैथुनेनैव मार्गेण समुत्पाद्य बभौ मनुः ॥ ३ ॥

प्रियव्रतोत्तानपादौ पुत्रौ तस्य च धीमतः ।
आकूतिर्देवहूतिश्च प्रसूतिश्च सुलोचनाः ॥ ४ ॥

कन्यास्तिस्रः समाख्याता मनोस्तस्य महात्मनः ।
प्रसूतिं स ददौ तुभ्यमाकूतिं रुचये तथा ॥ ५ ॥

देवहूतिं मनुस्तत्र कर्दमाय ददौ स्वयम् ।
एवमादि महाराजश्चकार विधिनोदितः ॥ ६ ॥

कर्दमस्तपसा विष्णुं तोषयामास यत्नतः ।
शतवर्षैः प्रसन्नोऽभूद्ययौ दातुं वरं द्विजम् ॥ ७ ॥

तं ययाचे स पुत्रस्त्वं भव मे जगदीश्वर ।
वरं दत्त्वा स्वयं विष्णुर्ययौ वैकुण्ठमञ्जसा ॥ ८ ॥

ततः स देवहूत्यां वै विष्णुः कपिलरूपधृक् ।
तस्य पुत्रत्वमापन्नो वरदानप्रभावतः ॥ ९ ॥

आकूत्यां मिथुनं जज्ञे रुचेर्वै मानसं परम् ।
यज्ञश्च दक्षिणा देवी याभ्यां संवर्धितं जगत् ॥ १० ॥

यज्ञो विष्णुर्महाभागो दक्षिणायां सुतान् शुभान् ।
द्वादशाजनयच्चैव यामा देवाश्च ते स्मृताः ॥ ११ ॥

ततो यज्ञस्तपोयुक्तः सस्त्रीकश्चाभवत् प्रभुः ।
गणपं योगमार्गेण तोषयामास सर्वदा ॥ १२ ॥

कृत्वा मणिमयीं मूर्तिं गणेशस्य चतुर्भुजाम् ।
नित्यं मुनिगणैर्युक्तोऽपूजयत् भक्तिभावितः ॥ १३ ॥

ततो गणपतिः प्रीतो ददौ योगं महाद्भुतम् ।
तेन योगीन्द्रमुख्योऽसौ गाणपत्यो बभूव ह ॥ १४ ॥

हेरम्बेति सदा मन्त्रं यज्ञो हर्षाज्जजाप ह ।
शिष्येभ्यः प्रददौ योगं गाणपत्यं मुदान्वितः ॥ १५ ॥

प्रसूत्यां जनयामास कन्या दक्षः प्रजापतिः ।
चतुर्विंशति सङ्ख्याता शक्त्यंशाः सर्वमातरः ॥ १६ ॥

श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ।
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदश ॥ १७ ॥

ददौ धर्माय पत्न्यर्थं दक्षो हृष्टमना मुने ।
ब्रह्मणा नोदितश्चैव तासां सूतिं वदामि ते ॥ १८ ॥

श्रद्धापुत्रः स्मृतः कामोऽर्थश्च लक्ष्मीसुतोऽभवत् ।
धृत्यास्तु नियमः पुत्रस्तुष्ट्याः सन्तोषसञ्ज्ञितः ॥ १९ ॥

पुष्ट्यां लाभः सुतो जज्ञे मेधापुत्रः शमः स्मृतः ।
क्रियायाश्च स्मृतौ पुत्रौ दण्डः समय एव च ॥ २० ॥

बुद्धया बोधोऽभवत्पुत्रश्चाप्रमादः प्रकीर्तितः ।
लज्जाया विनयश्चैव वपुषो व्यवसायकः ॥ २१ ॥

शान्तिपुत्रस्तथा क्षेमः सिद्धेः सिद्धः सुतोऽभवत् ।
यशःकीर्तिसुतः प्रोक्त इत्येते धर्मसूनवः ॥ २२ ॥

कामस्याऽभूत् सुतो हर्ष आनन्दश्चापरः स्मृतः ।
इत्येष सुखरूपस्तु सर्गो धर्मस्य कीर्तितः ॥ २३ ॥

प्रसङ्गात्तं वदिष्यामि सर्गोऽधर्मस्य दुःखदः ।
ब्रह्मणः पृष्ठतस्तद्वन्मिथुनं सम्बभूव ह ॥ २४ ॥

अधर्मश्च तथा हिंसा तयोः पुत्रोऽनृतः स्मृतः ।
निकृतिश्च सुता प्रोक्ता तयोर्जज्ञे भयं तथा ॥ २५ ॥

नरकश्च तथा माया वेदना च सुते स्मृते ।
भयाज्जज्ञे च मायायां मृत्युः सर्वापहारकः ॥ २६ ॥

[[६]]

नरकाद्वेनायां च दुःखं संसारकारकम् ।
मृत्योर्व्याधिर्जरा शोकस्तृष्णा क्रोधश्च जज्ञिरे ॥ २७ ॥

दुःखोदर्काः स्मृताः सर्वे ह्यधर्मप्रभवा मुने ।
नैतेषां प्रसवश्चास्ति सर्वे ते तूर्ध्वरतेसः ॥ २८ ॥

एकादश सुताः शिष्टास्तासां वंशं निबोधय ।
सतीं ददौ स रुद्राय ख्यातिं च भृगवे तथा ॥ २९ ॥

मरीचये च सम्भूतिं स्मृतिमङ्गिरसे ददौ ।
पुलस्त्याय तथा प्रीतिं क्षमां च पुलहाय वै ॥ ३० ॥

सन्ततिं क्रतवे चासावनसूयां तथाऽत्रये ।
ददावूर्जां वसिष्ठाय मुने स्वाहां च वह्नये ॥ ३१ ॥

पितृभ्यश्च स्वधां देवीं ददौ दक्षः प्रहर्षितः ।
नियोगाद्ब्रह्मणः साक्षात्तासां वंशं वदामि ते ॥ ३२ ॥

सत्यां च शङ्कराज्जज्ञे कार्तिकेयो महाबलः ।
देवसेनापतित्वेऽसावभिषिक्तश्च वेधसा ॥ ३३ ॥

ख्यात्यां भृगोः समुत्पन्ना लक्ष्मीनारायणप्रिया ।
देवौ धातृविधातारौ मेरोर्जामातरौ स्मृतौ ॥ ३४ ॥

अयतिर्नियतिश्चैव कन्ये मेरोश्च ते मुने ।
तयोर्धातृविधातृभ्यां जातौ श्रेष्ठौ सुताबुभौ ॥ ३५ ॥

मृकण्डोऽन्यस्तथा प्राणो मार्कण्डेयो मृकण्डजः ।
तथा वेदशिराः प्रोक्तः प्राणस्य द्युतिमान् सुतः ॥ ३६ ॥

मरीचिरपि सम्भूत्यां पूर्णमासमसूयत ।
कन्याचतुष्टयं चैव सर्वलक्षणमण्डितम् ॥ ३७ ॥

कृषिर्वृष्टिस्तथा कृष्टिश्चतुर्थ्यपचितिर्मुने ।
विरजाः पर्वतश्चैव पूर्णमासस्य तौ सुतौ ॥ ३८ ॥

क्षमा च सुषुवे पुत्रान् पुलहाच्च प्रजापतेः ।
कर्मश्रेष्ठं वरीयांसं सहिष्णुं मुनिपुङ्गवम् ॥ ३९ ॥

तथा वनकवीनासं तपस्तेजस्विनं सुतम् ।
अत्रेर्वंशं प्रवक्ष्यामि शृणु शौनक चादरात् ॥ ४० ॥

अत्रिः सञ्जनयामासानसूयायां सुताञ्छुभान् ।
सोमं दुर्वाससं चैव दत्तं योगधरं तथा ॥ ४१ ॥

त्रयो देवा इमे प्रोक्ता अत्रेः पुत्रा महात्मनः ।
ब्रह्मा भवश्च विष्णुश्च कलांशेन प्रजाधराः ॥ ४२ ॥

स्मृत्यामङ्गिरसो जज्ञे सिनीवाली सुलोचना ।
कुहूराका तथा पुत्र्यनुमतिश्च पतिव्रता ॥ ४३ ॥

प्रीत्यां पुलस्त्ययोगीशादयोनिरभवत्सुतः ।
पूर्वजन्मनि विप्रेशोऽगस्त्योऽयं परिकीर्तितः ॥ ४४ ॥

देवबाहुस्तथा कन्या सर्वाङ्गैः शोभिनी स्मृता ।
सन्तत्यां षष्टिसाहस्रीं पुत्राणामसृजत् क्रतुः ॥ ४५ ॥

त ऊर्ध्वरेतसः सर्वे वालखिल्या इति स्मृताः ।
सप्त पुत्रान् स ऊर्जायां वसिष्ठोऽजनयत्प्रभुः ॥ ४६ ॥

कन्यां कमलपत्राक्षीं चित्रकेतुः सुरोचकः ।
विरजा मित्रसञ्ज्ञश्च उल्बणो वसुभृत्परः ॥ ४७ ॥

घुमान् शक्त्यादयश्चान्ये सप्तपुत्रा महौजसः ।
योऽसौ रुद्रात्मको वह्निः स्वाहायां त्रीन् सुतांस्तथा ॥ ४८ ॥

जनयामास तेजस्वी तेऽग्नयः परिकीर्तिताः ।
पावकः पवमानश्च शुचिस्तेऽजनयन् सुतान् ॥ ४९ ॥

प्रत्येकं वै पञ्चदशैकोनपञ्चाशदग्नयः ।
सर्वे तेजस्विनः प्रोक्ताः सर्वे यज्ञेषु भागिनः ॥ ५० ॥

निर्मथ्यः पवमानस्तु ससुतः परिकीर्तितः ।
वैद्युतः पावकः प्रोक्तः ससुतः शास्त्रसम्मतः ॥ ५१ ॥

सूर्ये तपति योऽग्निश्च स पुत्रस्तु शुचिः स्मृतः ।

[[१३]]

सर्वत्रगः स रुद्रात्मा ब्रह्मपुत्रोऽग्निरुच्यते ॥ ५२ ॥

अमूर्तयोऽग्निष्वात्ता हि साङ्गा बर्हिषदः स्मृताः ।
पितरश्च स्वधा तेभ्योऽसूत द्वे तनये तथा ॥ ५३ ॥

मेना च धरणी नाम्नी ते उभे ब्रह्मवित्तमे ।
असूत मेना मैनाकं क्रौञ्चं हिमवतो मुने ॥ ५४ ॥

गङ्गां लोकपवित्रां च पार्वतीं परमेश्वरीम् ।
ते उभे शङ्करं देवं लेभाते पतिमुत्तमम् ॥ ५५ ॥

तपसा गिरिराजेन मेनयाराधिता सती ।
वरदानप्रभावेण पार्वती तनयाऽभवत् ॥ ५६ ॥

धरणी मेरुशैलस्य पत्नी कन्ये प्रजापते ।
सुषुवे चायतिं चैव नियतिं कथिते पुरा ॥ ५७ ॥

एषा दक्षस्य कन्यासु सन्ततिः कथिता मया ।
पठते शृण्वत चैव सर्वकामफलप्रदा ॥ ५८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते दक्षकन्यावंशवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥