॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
नवब्रह्मसुताः प्रोक्तास्तेपुस्ते परमं तपः ।
दिव्यवर्षसहस्रं च गणेशं हृद्यचिन्तयन् ॥ १ ॥
एकाक्षरविधानेन पूजयन्तश्च नित्यशः ।
वायुमात्राशिनः सर्वे तोषयामासुरादरात् ॥ २ ॥
ततस्तेषां प्रसन्नोऽभूद्गणेशो भक्तवत्सलः ।
आययौ तान् वरं दातुं मूषकोपरि संस्थितः ॥ ३ ॥
अनन्तसूर्यसङ्काशं दृष्ट्वा तं हर्षसंयुताः ।
सौम्यरूपं प्रणेमुस्ते निबद्धकरसम्पुटाः ॥ ४ ॥
तुष्टुवुः परमात्मानं गणेशं दक्षमुख्यकाः ।
तद्दर्शनजबोधेन भक्तिनम्रात्मकन्धराः ॥ ५ ॥
प्रजापतय ऊचुः ।
नमस्ते विघ्ननाथाय नमस्ते सर्वसाक्षिणे ।
सर्वात्मने स्वसंवेद्यरूपिणे ते नमो नमः ॥ ६ ॥
योगाय जगतां पात्रे ब्रह्मदात्रे नमो नमः ।
योगिनां गम्यरूपाय शान्तियोगप्रदाय ते ॥ ७ ॥
स्रष्ट्रे पात्रे च संहर्त्रे नानारूपधराय ते ।
अव्यक्ताय व्यक्तकाय व्यक्ताव्यक्ताय ते नमः ॥ ८ ॥
ब्रह्मणे विष्णवे चैव शङ्कराय च भानवे ।
शक्तये चन्द्ररूपाय यमाय च नमो नमः ॥ ९ ॥
अग्नये नैर्ऋतायैव वारुणाय च वायवे ।
कुबेराय च रुद्राय शेषाय च नमो नमः ॥ १० ॥
ग्रहनक्षत्ररूपाय सिद्धसाध्यमयाय च ।
पशवे नररूपाय वृक्षाकाराय ते नमः ॥ ११ ॥
पर्वताय समुद्राय नदीनदसुरूपिणे ।
दैत्याय दैत्यनाथाय राक्षसाय नमो नमः ॥ १२ ॥
अन्नाय फलरूपाय रसरूपाय ते नमः ।
पञ्चभूतमयायैव सर्वाकाराय ते नमः ॥ १३ ॥
चिद्रूपाय च बोधाय विदेहाय नमो नमः ।
असत्याय च सत्याय समरूपाय साधये ॥ १४ ॥
स्वानन्दाय ह्ययोगाय योगाय गणधारिणे ।
गणेशाय नमस्तुभ्यं सर्वशान्तिप्रदाय च ॥ १५ ॥
चिन्तामणिं त्वां कः स्तोतुं समर्थः स्यात्प्रकाशकम् ।
चित्तस्य चित्तवृत्तीनामतस्त्वां प्रणमामहे ॥ १६ ॥
मुद्गल उवाच ।
एवं स्तुत्वा गणेशं तं प्रणतास्ते प्रजापते ।
तानुवाच गणाधीशो वृणुध्वं विविधान् वरान् ॥ १७ ॥
भवद्भिर्यत् कृतं स्तोत्रं मम मान्यं भविष्यति ।
यः पठिष्यति भावेन श्रोष्यते सर्वसिद्धिदम् ॥ १८ ॥
पुत्रपौत्रकलत्रादिप्रदं तेभ्यो भविष्यति ।
वन्ध्यदोषहरं धान्यधनदं पशुदं परम् ॥ १९ ॥
भुक्तिमुक्तिप्रदं स्तोत्रं ब्रह्मभूयकरम्भवेत् ।
[[१२]]
मनईप्सितदं पुण्यं नराणां नात्र संशयः ॥ २० ॥
गणेशवचनं श्रुत्वा त एवं हर्षसंयुताः ।
तं प्रणम्य महाभक्त्या ऊचुः प्राञ्जलयोऽभवन् ॥ २१ ॥
त ऊचुः ।
यदि प्रसन्नतां यातस्तदा देहि गजानन ।
त्वदीयामचलां भक्तिं यया मोहो विनश्यति ॥ २२ ॥
सामर्थ्यमतुलं सृष्टेर्देहि नो विघ्ननायक ।
यद्यदिच्छामहे ढुण्ढे तत्तत् सिध्यतु सर्वदा ॥ २३ ॥
ओमित्युक्त्वा गणाधीशोन्तर्धानं प्रचकार वै ।
तेऽपि तं मनसा ध्यात्वा ययुः स्वस्वपदं ततः ॥ २४ ॥
ततो ब्रह्मा पुनर्दक्षमगादीत् पुत्रमुत्तमम् ।
शक्तेस्तपस्त्वया कार्यं सा ते पुत्री भविष्यति ॥ २५ ॥
ततो दक्षेण तपसाराधिता शक्तिरादरात् ।
शतवर्षे प्रसन्ना सा ययौ तस्यान्तिकं स्वयम् ॥ २६ ॥
ततस्तां प्रणनामाथ तुष्टाव प्रकृताञ्जलिः ।
दक्ष उवाच ।
नमस्ते शक्तिरूपायै मायामोहस्वरूपिणि ॥ २७ ॥
जगद्धात्र्यै नमस्तुभ्यं जगन्मातर्नमो नमः ।
सर्वेषां प्राणदात्र्यै ते सर्वरूपिणि ते नमः ॥ २८ ॥
अनाद्यै चादिभूतायै पार्वत्यै ते नमो नमः ।
गायत्रिका श्रीसावित्रीरूपायै ते नमो नमः ॥ २९ ॥
प्रकृत्यै पुरुषाख्यायै नामरूपप्रकाशिनि ।
निर्गुणायै गुणानां वै धारिकायै नमो नमः ॥ ३० ॥
प्रसीद भव मे पुत्री दाक्षायणि नमो नमः ।
ततस्तं पार्वती प्राह भक्तं दक्षप्रजापतिम् ॥ ३१ ॥
शक्तिरुवाच ।
भविष्यामि सुता तेऽहं नानारूपधरा सुत ।
जगच्च पूरयिष्यामि जनयित्वा सुताः सुतान् ॥ ३२ ॥
त्वया कृतं मदीयं यत्स्तोत्रं ख्यातिं गमिष्यति ।
सर्वकामप्रदं पूर्णं पठते शृण्वते भवेत् ॥ ३३ ॥
अन्तर्धानं ययौ देवी पश्यतस्ते प्रजापते ।
त्वया गणेशनाम्नश्च स्मरणं त्यक्तमद्य वै ॥ ३४ ॥
मन्त्रस्तस्य परित्यक्तः स्वेन दुर्बुद्धिधारिणा ।
त्वया तिरस्कृता पुत्री सती भस्मत्वमागता ॥ ३५ ॥
त्वमपि शोकसंयुक्तः कृतो विघ्नेश्वरेण वै ।
पूर्वसंस्कारयोगेन स्मृतिस्तव समागता ॥ ३६ ॥
अधुना भावयुक्तस्तं शृणु मे तत्कथामृतम् ।
राज्यलक्ष्मीश्च सम्प्राप्ता यं च तस्य प्रमाददा ॥ ३७ ॥
तया युक्तः पुमान् सद्यो मदान्धो जायते किल ।
अतः सन्तश्च नेच्छन्ति लक्ष्मीं ज्ञानविनाशिनीम् ॥ ३८ ॥
मनुः स्वायम्भुवः ख्यातः सपत्नीको ययौ वनम् ।
अष्टाक्षरविधानेन तोषयामास विघ्नपम् ॥ ३९ ॥
तताप स तपो घोरं दिव्यवर्षसहस्रकम् ।
प्रसन्नोऽभूत्तदा तस्मै वरं दातुं समाययौ ॥ ४० ॥
तं दृष्ट्वा प्रणनामादौ मनुः स्वायम्भुवः प्रभो ।
पूजयन् परया भक्या ततस्तुष्टाव विघ्नपम् ॥ ४१ ॥
स्वायम्भुव उवाच ।
नमस्ते गजवक्त्राय हेरम्बाय नमो नमः ।
ओङ्काराकृतिरूपाय सगुणाय नमो नमः ॥ ४२ ॥
नैर्गुण्ये गजरूपाय सदा ब्रह्मसुखात्मने ।
गणेशाय सदा भक्तपोषकाय नमो नमः ॥ ४३ ॥
नरकुञ्जररूपाय योगाभेदाय ते नमः ।
चतुर्बाहुधरायैव पुरुषार्थप्रसिद्धये ॥ ४४ ॥
[[१३]]
नानाभोगधरायैवानन्तलीलास्वरूपिणे ।
विघ्नराजाय देवाय भक्तविघ्नविदारिणे ॥ ४५ ॥
सत्यासत्यमयायैवाव्यक्तभेदात्मने नमः ।
स्वानन्दपतये तुभ्यं सदा स्वानन्ददायिने ॥ ४६ ॥
नमस्ते मूषकारूढसर्वान्तरसुभोगिने ।
नानामृतसमुद्रे च क्रीडाकर नमोऽस्तु ते ॥ ४७ ॥
सिद्धिबुद्धिपते तुभ्यं द्वेधामायाप्रसारिणे ।
भक्तेभ्यो योगदात्रे च योगाकाराय ते नमः ॥ ४८ ॥
वेदोपनिषदां लभ्यमहावाक्यमयाय ते ।
ब्रह्मभूताय वै तुभ्यं नमस्ते ब्रह्मराशये ॥ ४९ ॥
किं स्तौमि त्वां गणाधीश यत्र वेदाश्च विस्मिताः ।
योगिनः शेषमुख्या वै शङ्कराद्या महेश्वराः ॥ ५० ॥
तथापि तव जातेन दर्शनेन गजानन ।
स्फूर्तिः प्राप्ता तया नाथ संस्तुतोऽसि मया प्रभो ॥ ५१ ॥
अहो भाग्यमहो भाग्यं येन दृष्टो गजाननः ।
वेदान्तागोचरो गम्यो धन्योऽहं जगतीतले ॥ ५२ ॥
धन्यो मे जनको देव तपो ज्ञानं कुलं प्रभो ।
विद्या व्रतादिकं सर्वं धन्यं ते पाददर्शनात् ॥ ५३ ॥
इति स्तुत्वा गणाधीशं भक्त्या परमया युतः ।
सरोमाञ्चोऽभवत्तत्र प्रणनाम पुनः पुनः ॥ ५४ ॥
तमुत्थाप्य गणाधीशोऽगादीत्तं भक्तमुत्तमम् ।
वरं वृणु महाभाग यस्ते मनसि वर्तते ॥ ५५ ॥
कृतं त्वया मदीयं यत् स्तवनं तोषकारकम् ।
पठते शृण्वते चापि सर्वदं प्रभविष्यति ॥ ५६ ॥
पुत्रपौत्रादिविभवप्रदं शोकविनाशनम् ।
धनधान्यसमृद्ध्यादिप्रदं भावि न संशयः ॥ ५७ ॥
धर्मार्थकाममोक्षाणां साधनं ब्रह्मदायकम् ।
दृढभक्तिकरं मे च भविष्यति न संशयः ॥ ५८ ॥
इति ब्रुवन्तं विघ्नेशमुवाच मनुसत्तमः ।
स्वायम्भुवः प्रसन्नात्मा कृताञ्जलिरुदारधीः ॥ ५९ ॥
मनुरुवाच ।
यदि प्रसन्नतां यातस्तदा देहि गजानन ।
भक्ति दृढां त्वदीयां मे यया मोहो न विद्यते ॥ ६० ॥
सृष्टेः करणसामर्थ्यं धर्मपालनमुत्तमम् ।
प्रजारक्षकतां देहि देव देवेश मे चिरम् ॥ ६१ ॥
यद्यदिच्छामि विघ्नेश तत्तत् सिध्यतु सर्वदा ।
तव भक्तेषु वासो मे सदा भवतु मानद ॥ ६२ ॥
तथेति तमुवाचादावन्तर्धानं चकार ह ।
गणेशानो निजे लोकेऽगमद्वै भक्तवत्सलः ॥ ६३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते स्वायम्भुववरप्रदानं नाम पञ्चमोऽध्यायः ॥