०४ मधुकैटभवधः

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

ततो ब्रह्मा ससर्जाऽसौ मुखतो ब्राह्मणान् स्वयम् ।
बाहुभ्यः क्षत्रियान् सर्वानूरुभ्यो वैश्यकांस्तथा ॥ १ ॥

पद्भ्यः शूद्रान् महादेवः ससर्ज गुणप्रेरितः ।
सन्न्यासं शिरसस्तद्वद्वानप्रस्थाश्रमं हृदः ॥ २ ॥

नाभ्याश्च ब्रह्मचर्यं स जङ्घाभ्यां गृहितां तथा ।
वर्णाश्रमान् स वै दृष्ट्वा हर्षितोऽभूत् पितामहः ॥ ३ ॥

ततो धर्मं स्वयं ब्रह्मा ससर्जोरःप्रदेशतः ।
पृष्ठतोऽधर्मरूपं च सुरदैत्यप्रवर्तकौ ॥ ४ ॥

ततो देवांश्च गन्धर्वानप्सरोयक्षकादिकान् ।
असुरान् यातुधानांश्च ससर्ज निजदेहतः ॥ ५ ॥

सर्पान् पक्षिगणांश्चैव पशुमानवकादिकान् ।
क्रियायुक्तान् ससार्जाऽसौ स्वदेहं प्रददौ ततः ॥ ६ ॥

ते सर्वे ब्रह्मणो देहात्समुत्पन्ना महौजसः ।
व्यवहारयुता दक्ष ववृधुर्न तथापि ते ॥ ७ ॥

तेषां स्वर्गप्रमाणं च शृणु मुख्यं प्रजापते ।
सङ्क्षेपेण प्रवक्ष्यामि प्राकृतं वै कृतं परम् ॥ ८ ॥

प्रथमो महतः सर्गो ब्रह्मणः स तु कथ्यते ।
तन्मात्राणां द्वितीयस्तु भूतसर्गः प्रकीर्तितः ॥ ९ ॥

वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ।
इत्येते प्राकृताः सर्गाः सम्भूता बुद्धिपूर्वकाः ॥ १० ॥

मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ।
तिर्यक्स्रोतस्तु यः प्रोक्तस्तिर्यक्योनिः स पञ्चमः ॥ ११ ॥

तथोर्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ।
ततोऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानवः ॥ १२ ॥

अष्टमो भौतिकः सर्गो भूतादीनां प्रकीर्तितः ।
नवमश्चैव कौमारो ज्ञातव्यो विबुधैस्तथा ॥ १३ ॥

विकृताः षट् समाख्याता प्राकृताश्च त्रयो मताः ।
नवसर्गाः प्रविज्ञेयाः प्राकृता वैकृता इमे ॥ १४ ॥

[[९]]

प्राकृता ये त्रयः सर्गा बुद्धिपूर्वाः प्रकीर्तिताः ।
बुद्धिपूर्वं प्रवर्तन्ते तत्त्वाद्यैः सर्वजन्तवः ॥ १५ ॥

एवं सृष्ट्वा स्वयं ब्रह्मा प्रजा नानाविधाः प्रभो ।
ववृधुर्न प्रजास्तस्य तेन सन्दुःखितोऽभवत् ॥ १६ ॥

ततस्तस्य शरीराद्वै दाम्पत्यं निःसृतं परम् ।
वामाङ्गात्मकृती रम्या शतरूपा च सा स्मृता ॥ १७ ॥

दक्षिणाङ्गात्तु सम्भूतः पुरुषः स मनुः स्मृतः ।
स्वायम्भुवो महाभाग आद्यः क्षत्रियधर्मवित् ॥ १८ ॥

बद्धाञ्जलिपुटौ चोभौ वचो बह्माणमूचतुः ।
आज्ञां कुरु महाभाग किं कुर्याव प्रजापते ॥ १९ ॥

ततो ब्रह्मा स्वयं जातौ तौ जगाद प्रहर्षितः ।
अतुलां सृजतं सृष्टिं मैथुनीं तपसो बलात् ॥ २० ॥

ततस्तौ तं प्रणम्यादौ जग्मतुर्वनमुत्तमम् ।
प्रतेपाते तपो घोरं विचिन्त्य गणपं हृदि ॥ २१ ॥

ततो विधातृच्छायायाः कर्दमो मुनिसत्तमः ।
सनुत्पन्नश्च तं दृष्ट्वा ब्रह्मोवाच सृज प्रजाः ॥ २२ ॥

स मुनिर्वनमागत्य तताप परमं तपः ।
विष्णुं ध्यात्वा प्रजाकामः शुक्लरूपं यथाविधि ॥ २३ ॥

एतस्मिन्नन्तरे जातौ विष्णुकर्णमलोद्भवौ ।
मधुकैटभनामानौ दैत्यौ परमदारुणौ ॥ २४ ॥

ताभ्यां स्वभुजवीर्येण जितं त्रिभुवनं तदा ।
देवाः सर्वे भयोद्विग्नाः पलायन्त दिशासु च ॥ २५ ॥

ब्रह्माणं भक्षितुं यातौ तेन निद्रा स्तुता तदा ।
निद्रया विष्णुरव्यक्तो मुक्तः सन्नुत्थितो बभौ ॥ २६ ॥

तेन युद्धं महाघोरं कृतं ताभ्यां भयानकम् ।
मल्लयुद्धेन तौ जेतुं न शशाक जनार्दनः ॥ २७ ॥

पञ्चवर्षसहस्राणि युयुधे हरिरव्ययः ।
ततो हरिं ममृदतुर्महादैत्यौ बलान्वितौ ॥ २८ ॥

ततो विष्णुः स्वमात्मानमतंर्धाय पलायत ।
शरणं शङ्करं चैव ययौ भावसमन्वितः ॥ २९ ॥

प्रणिपत्य महेशानं जगाद भयसङ्कुलः ।
वृत्तान्तं युद्धसम्भूतं जयोपायं वदस्व मे ॥ ३० ॥

तेन सङ्कथितं तस्मै गणेशो विस्मृतस्त्वया ।
तमाराधय यत्नेन ततः सिद्धिमवाप्स्यसि ॥ ३१ ॥

षडक्षरं महामन्त्रं गणेशाय ददौ शिवः ।
स ययौ तपसे देशे दण्डकारण्यसञ्ज्ञके ॥ ३२ ॥

तत्र पद्मासनं कृत्वा ध्यात्वा देवं गजाननम् ।
षडक्षरविधानेन तताप परमं तपः ॥ ३३ ॥

सहस्रवर्षपर्यन्तं तपस्तप्तं सुदारुणम् ।
तदा तं वरदानाय विष्णुं गणपतिर्ययौ ॥ ३४ ॥

तं दृष्ट्वा प्रणनामाथ पूजयामास भक्तितः ।
महाविष्णुः प्रसन्नात्मा प्रणनाम गजाननम् ॥ ३५ ॥

बद्धाञ्जलिपुटो भूत्वा तं तुष्टाव गणेश्वरम् ।
नानाभावसमायुक्तं वरदं भक्तवत्सलम् ॥ ३६ ॥

श्रीमहाविष्णुरुवाच ।
नमो गणपते तुभ्यं विघ्नराजाय ते नमः ।
नमः कृपानिधे ढुण्ढे भक्तसंरक्षकाय ते ॥ ३७ ॥

सिद्धिबुद्धिपते तुभ्यं नमस्ते विघ्नहारिणे ।
अभक्तेभ्यः सदा विघ्नदात्रे हेरम्बरूपिणे ॥ ३८ ॥

निर्गुणाय गुणानां वै चालकाय नमो नमः ।
नमः प्रपञ्चरूपाय प्रपञ्चरहिताय ते ॥ ३९ ॥

ब्रह्मभ्यो ब्रह्मदात्रे च ब्रह्मणे ब्रह्मरूपिणे ।
नरकुञ्जररूपाय नानामायामयाय ते ॥ ४० ॥

कारणानां च देवेश कारणाय नमो नमः ।
ज्येष्ठराजाय वै तुभ्यं कारणै रहिताय च ॥ ४१ ॥

योगिनां हृदि संस्थाय योगिभ्यो योगदायिने ।
योगरूपधरायैव गणेशाय नमो नमः ॥ ४२ ॥

मायाश्रयाय मायाया आधाराय नमो नमः ।
मायिभ्यो मायया त्वं वै मोहदाता नमो नमः ॥ ४३ ॥

त्वां स्तोतुं कः समर्थः स्याद्योगाकारेण वर्तसे ।
यत्र वेदा विकुण्ठाश्च शास्त्रैः सर्वैः सहाङ्गकैः ॥ ४४ ॥

मनोवाणीविहीनस्त्वं न हि देव कृपाकर ।
मनोवाणीमयो नैव कथं त्वां स्तौमि विघ्नपम् ॥ ४५ ॥

तथापि बुद्धिदाता त्वं त्वत्प्रसादेन संस्तुतः ।
धन्योऽहं देवदेवेश तव दर्शनतोऽधुना ॥ ४६ ॥

साक्षाद् दृष्ट्वा गणेशं त्वां तेनाहं ब्रह्मरूपकः ।
जातो नास्त्यत्र सन्देहो योगीन्द्रो योगदायकः ॥ ४७ ॥

इत्युक्त्वा तं प्रणम्याऽसौ त्वनृत्यद् भक्तिभावितः ।
रोमाञ्चितशरीरश्च हर्षाश्रुभिरपिप्लुतः ॥ ४८ ॥

तमुवाच गणाधीशो वरं वृणु जनार्दन ।
तपसा भक्तिभावेन तुष्टो दास्यामि वाञ्छितम् ॥ ४९ ॥

त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
भविष्यति नृणां विष्णो पठतां शृण्वतां सदा ॥ ५० ॥

धर्मार्थकाममोक्षाणां साधकं प्रभविष्यति ।
ईप्सितार्थप्रदं सद्यः प्रसादान्मे च केशव ॥ ५१ ॥

मुद्गल उवाच ।

गणेशवचनं श्रुत्वा विष्णुर्हर्षसमन्वितः ।
जगाद तं प्रणम्यादौ वाञ्छितं संवृणे त्विति ॥ ५२ ॥

विष्णुरुवाच ।
यदि प्रसन्नतां यातस्तदा भक्तिं सुदुर्लभाम् ।
तव पादयुगे देहि दृढामव्यभिचारिणीम् ॥ ५३ ॥

अन्यद्देहि गणाधीश ज्ञानं मे ह्यतुलं तथा ।
कीर्तिं सर्वत्र मे देहि सामर्थ्यं विविधं तथा ॥ ५४ ॥

मधुकैटभनाशार्थमुपायं वद साम्प्रतम् ।
अन्यदैत्याभिहनने सामर्थ्यं देहि विघ्नप ॥ ५५ ॥

तस्य तद्वचनं श्रुत्वा तथेति गणपोऽब्रवीत् ।
युद्धाय गच्छ देवेश दैत्यौ जेष्यसि तौ बलात् ॥ ५६ ॥

तयोर्मरणमत्यन्त सुगुप्तं ब्रह्मणा कृतम् ।
समये वरदानस्य तपसा तोषितेन च ॥ ५७ ॥

स्वमुखेन यदा मृत्युं दैत्यौ तौ कथयिष्यतः ।
तदा तेन प्रकारेण जहि दैत्यौ महाबलौ ॥ ५८ ॥

अहं मायां समाश्रित्य तयोस्तव हृदि प्रभुः ।
वासं कृत्वा तवाधीनौ करिष्यामि न संशयः ॥ ५९ ॥

मदीयस्मरणं चित्ते करिष्यति यदा भवान् ।
जयोपायं तदा विष्णो ज्ञास्यसे दैत्यनाशकम् ॥ ६० ॥

एवमुक्त्वान्तर्दधेऽसौ गणेशो ब्रह्मनायकः ।
विष्णुस्तत्र महामूर्तिं स्थापयामास सुद्विजैः ॥ ६१ ॥

पूजयामास तां मूर्तिमुपचारैः सुपुष्कलैः ।
सिद्धिक्षेत्रं सुविख्यातं तदादेः प्रबभूव ह ॥ ६२ ॥

अनुष्ठाने कृते तत्र नानामिद्धिकरं परम् ।
क्षेत्रं बभूव विख्यातं गाणेशं सिद्धसेवितम् ॥ ६३ ॥

[[५]]

तत्र विष्णुः सदा वासं चक्रे वै भक्तिसंयुतः ।
सदारः परिवारेणापूजयन्नित्यमादरात् ॥ ६४ ॥

तं प्रणम्य गणाधीशं ययौ युद्धाय सत्वरः ।
गणेशं मनसा ध्यात्वा तौ चिच्छेद महाबलौ ॥ ६५ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते मधुकैटभवधो नाम चतुर्थोऽध्यायः ॥