०३ नारदभक्तिवर्णनम्

॥ श्रीगणेशाय नमः ॥

दक्ष उवाच ।

कथं नारायणेनाऽसौ बोधितो मुनिसत्तमः ।
तन्मे कथय योगीन्द्र न तृप्यामि कथामृतात् ॥ १ ॥

मुद्गल उवाच ।

एकदा नारदो दक्ष पर्यटञ्छङ्करं गतः ।
तत्र सम्पूजयन्तं तं गणेशं स ददर्श ह ॥ २ ॥

मूर्तिं चिन्तामणेः साक्षात् स्थापितां रत्ननिर्मिताम् ।
शुण्डादण्डमुखीं चैव शङ्करस्तामपूजयत् ॥ ३ ॥

तं दृष्ट्वा नियमे संस्थं विस्मितो नारदो मुनिः ।
प्रययौ तं नमस्कृत्य विकुण्ठे विष्णुमादरात् ॥ ४ ॥

तं प्रणम्य महातेजा नारदो विनयान्वितः ।
उवाच भक्तिसंयुक्तो नारायण नमोऽस्तु ते ॥ ५ ॥

त्वं साक्षाज्जगतामीशो नुद मे संशयं प्रभो ।
कैलासमगमं द्रष्टुमहं शङ्करमुत्सुकः ॥ ६ ॥

तत्र सोऽपि गणेशस्य मूर्तिं कृत्वा जनार्दन ।
अपूजयन्महाभक्त्या रोमाञ्चितशरीरवान् ॥ ७ ॥

अश्रुप्रवाहसंयुक्तं प्रेम्णा चैव परिप्लुतम् ।
ध्यानस्थं शङ्करं दृष्ट्वा मौनवानभवं प्रभो ॥ ८ ॥

तं प्रणम्य महाविष्णो त्वदन्तिकमुपागतः ।
त्वं चापि गणराजस्य वदसे नाममन्त्रकम् ॥ ९ ॥

शङ्करान्न परं किञ्चिदव्यक्तं ब्रह्म कथ्यते ।
शिवो विकारहीनश्च सर्वसिद्धिप्रदो मतः ॥ १० ॥

त्वं तदीया महाशक्तिः प्रभो नारायणाह्वया ।
सदानन्दस्वरूपश्च सर्वात्मा चैव कथ्यते ॥ ११ ॥

कोऽसौ गणेश्वरो नाम त्वं कथं स्मरसि प्रभो ।
विश्वनाथः कथं शम्भुस्तं पूजयति नित्यशः ॥ १२ ॥

एनं मे संशयं देव च्छेत्तुमर्हसि केशव ।
सर्वज्ञस्त्वं रमानाथ शाधि मां शिष्यमागतम् ॥ १३ ॥

मुद्गल उवाच ।

नारदस्य वचः श्रुत्वा प्रहृष्टः केशवोऽब्रवीत् ।
तं गणेशस्य सम्भक्तेः पात्रं दृष्ट्वा यथार्थतः ॥ १४ ॥

नारायण उवाच ।

शृणु नारद मे वाक्यं संशयं कुरु मा मुने ।
योगशान्तिस्वरूपोऽयं गणेशो नात्र संशयः ॥ १५ ॥

सिद्धिबुद्धिपतिः साक्षात् स्वानन्दाख्ये पुरे स्थितः ।
तस्य भक्तिप्रभावेण वयं वै सर्वसिद्धिदाः ॥ १६ ॥

विनायकः स एको वै वयं नायकसंयुताः ।
भजामो भक्तियुक्तास्तं योगशान्त्यर्थमादरात् ॥ १७ ॥

एकदाऽहं गतस्तत्र कैलासे शङ्करालये ।
गणेशं पूजयन्तं तं शिवं दृष्ट्वा सुविस्मितः ॥ १८ ॥

तस्य नित्यविधिं पूर्णं जातं दृष्ट्वा तमब्रवम् ।
त्वं साक्षान्निर्विकारश्च मोहहीनः सदाशिव ॥ १९ ॥

अव्यक्तं ब्रह्म यत्प्रोक्तं ब्रह्माधिपतिसञ्ज्ञितम् ।
त्वमेव वेदवादेषु कथं वदसि विघ्नपम् ॥ २० ॥

कोऽसौ गणेश्वरो नाम तद्वदस्व मम प्रभो ।
सर्वज्ञस्त्वं सदा शम्भुः शिष्यं ते तारयस्व माम् ॥ २१ ॥

शिव उवाच ।

शृणु विष्णो रहस्यं मे शान्तिदं योगसेवया ।
योगपूर्णं गणेशाख्यं ब्रह्मभूयपदप्रदम् ॥ २२ ॥

पञ्चधा चित्तवृत्तिर्या सा बुद्धिः कथ्यते बुधैः ।
पञ्चभेदतया सर्वं भुनक्ति प्रकृतिः परा ॥ २३ ॥

तत्र मोहप्रदा सिद्धिर्नानाभ्रान्तिप्रकाशिका ।
सिध्यर्थं पञ्चधा चित्तं यत्नयुक्तं बभूव ह ॥ २४ ॥

धर्मार्थकाममोक्षाणां सिद्धिः सर्वत्र कथ्यते ।
ब्रह्मभूयकरी साक्षाज्जानीहि पुरुषोत्तम ॥ २५ ॥

[[७]]

ब्रह्मणि ब्रह्मभूतो यस्तस्य किं भ्रान्तिरुच्यते ।
धर्मार्थकाममोक्षाणां ब्रह्मभूतस्य वा विभो ॥ २६ ॥

तस्य पञ्चविधं चित्तं नास्ति जानीहि निश्चितम् ।
तदा योगी समाख्यातो गणेशाभेदतां गतः ॥ २७ ॥

सम्प्रज्ञातसमाधिस्थो गकारः कथ्यते बुधैः ।
असम्प्रज्ञातरूपो वै णकारो वेदवादिभिः ॥ २८ ॥

तयोः स्वामी गणेशोऽयं शान्तियोगमयः सदा ।
नेतिरूपोऽहमव्यक्तस्त्वं समात्मक उच्यसे ॥ २९ ॥

यत्र कुत्र प्रदृष्टा वै वयं सर्वे भवात्मकाः ।
भवप्रत्यययोगस्थो गणेशः पञ्चधाऽभवत् ॥ ३० ॥

स तु मायामयः प्रोक्तो वेदेषु खलु केशव ।
मायाहीनो गणेशान उपायप्रत्ययात्मकः ॥ ३१ ॥

साक्षाद्गणेशरूपे च मायायुक्तवियुक्तता ।
नास्ति तस्मात्स वै शान्त्या लभ्यते नान्यथा क्वचित् ॥ ३२ ॥

गणेशोऽहं सदा ब्रह्म ब्रह्मणां पतिरञ्जसा ।
योगोऽयं गाणपत्याख्यः कथितस्ते मया प्रभो ॥ ३३ ॥

अनेन विधिना ज्ञानं गाणेशाख्यं भविष्यति ।
त्यक्त्वा पञ्चविधं चित्तं भव चिन्तामणिः प्रभो ॥ ३४ ॥

एवमुक्त्वा महादेवो विरराम च नारद ।
मया ते कथितं ज्ञानं गाणेशाख्यं महामुने ॥ ३५ ॥

अस्माकं पददाता स ब्रह्मभूयप्रदस्तथा ।
गणेशः कुलदेवश्च तस्मात्तं प्रभजामहे ॥ ३६ ॥

मुद्गल उवाच ।

तं विष्णुं प्रणिपत्याऽथ नारदः प्रययौ मुनिः ।
तपोवनं समासाद्य योगाभ्यासरतोऽभवत् ॥ ३७ ॥

गणेशं मनसा ध्यायन्नजपन् मन्त्रमुत्तमम् ।
दशवर्षेः प्रसन्नोऽभूद्गणेशस्तं ययौ मुनिम् ॥ ३८ ॥

तं दृष्ट्वा विस्मितोऽत्यन्तं नारदः प्रणनाम च ।
कृताञ्जलिपुटो भूत्वा तुष्टाव गणपं मुनिः ॥ ३९ ॥

नारद उवाच ।

नमामि गणनाथं तं सर्वविघ्नविनाशिनम् ।
वेदान्तागोचरं तज्ज्ञैर्गम्यं ब्रह्मैव संस्थितम् ॥ ४० ॥

मनोवाणीविहीनं नो मनोवाणीमयं न च ।
ब्रह्मेशानं कथं स्तौमि सिद्धिबुद्धिपतिं परम् ॥ ४१ ॥

त्वद्दर्शनेन हेरम्ब कृतकृत्योऽहमञ्जसा ।
इत्युक्त्वा पूजयामास भक्तिभावसमन्वितः ॥ ४२ ॥

पूजयित्वा गणेशानं पुनस्तुष्टाव नारदः ।
रोमाञ्चितशरीरोऽसौ भावयुक्तो महामुनिः ॥ ४३ ॥

नमो नमो गणेशाय विघ्नराजाय ते नमः ।
भक्तानां विघ्नहन्त्रे चाभक्तानां विघ्नकारिणे ॥ ४४ ॥

अमेयमायया चैव संयुक्ताय नमो नमः ।
योगरूपाय वै तुभ्यं योगिभ्यो मोहदाय ते ॥ ४५ ॥

विनायकाय सर्वेश नमश्चिन्तामणे नमः ।
अनन्तमहिमाधार नमस्ते चन्द्रमौलये ॥ ४६ ॥

एकदन्ताय देवाय मायिभ्यो मोहदाय ते ।
नमो नमः परेशाय परात्परतमाय ते ॥ ४७ ॥

निर्गुणाय नमस्तुभ्यं गुणाकाराय साक्षिणे ।
महाखुवाहनायैव मूषकध्वजधारिणे ॥ ४८ ॥

अनादये नमस्तुभ्यं ज्येष्ठराजाय ढुण्ढये ।
हर्त्रे कर्त्रे सदा पात्रे नानाभेदमयाय च ॥ ४९ ॥

त्वद्दर्शनसुधापानाद्धतं मे भ्रान्तिजं महत् ।
मरणं भिन्नभावाख्यं गणेशोऽहं कृतस्त्वया ॥ ५० ॥

[[८]]

न भिन्नं परिपश्यामि त्वदृते गणनायक ।
शान्तिदं योगमासाद्य प्रसादात्ते न संशयः ॥ ५१ ॥

भक्तिं देहि गणाधीश परां त्वत्पादपद्मयोः ।
कुरु मां गाणपत्यं त्वं प्रेमयुक्तं च ते पदि ॥ ५२ ॥

इत्युक्त्वा विररामाथ तं पुनर्गणपोऽवदत् ।
मदीया भक्तिरत्यन्तं भविष्यति सदाऽचला ॥ ५३ ॥

न योगाच्चलनं क्वापि भविष्यति महामुने ।
सदा योगीन्द्रपूज्यस्त्वं सर्वमान्यो भविष्यसि ॥ ५४ ॥

त्वया कृतमिदं स्तोत्रं शान्तियोगप्रदं भवेत् ।
पठते शृण्वते चैव भुक्तिमुक्तिप्रदायकम् ॥ ५५ ॥

इत्युक्त्वा तस्य हृदये ययौ लीनो गजाननः ।
सदा हृदि गणेशानं पश्यति स्म मुनिः स्वयम् ॥ ५६ ॥

इत्याख्यानं नारदीयं कथितं ते प्रजापते ।
शृणुयाद्यः पठेद्वा यः सोऽपि सद्गतिमाप्नुयात् ॥ ५७ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीय खण्डे एकदन्तचरिते नारदभक्तिवर्णनं नाम तृतीयोऽध्यायः ॥