०२ नारदशापनिवर्तनम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

गणेशं मनसा ध्यात्वा सृष्टिं कर्तुं मनो दधे ।
आदौ तस्य विधेर्देहादविद्या सा विनिःमृता ॥ १ ॥

सा पञ्चधा ततो भिन्ना स्वयं जाता प्रजापते ।
तां दृष्ट्वा विस्मितो ब्रह्मा मनसा दुःखितोऽभवत् ॥ २ ॥

अविद्याभ्रान्तिरूपाऽत्र ह्यनन्तविभवात्मिका ।
रक्ता कृष्णा तथा श्वेता नानाश्चर्यमयी बभौ ॥ ३ ॥

त्रिविधानां प्रसूतिश्च जगत्त्रयविमोहिनी ।
तया विमोहितं विश्वं भ्रान्तियुक्तं बभूव ह ॥ ४ ॥

तमो मोहो महामोहः शृणु दक्ष महाद्भुतम् ।
तामिस्रश्चान्धतामिस्रः पञ्चधा जगति स्थिता ॥ ५ ॥

तमोऽज्ञानस्वरूपं यत्तेन सञ्छादितं जगत् ।
देहस्वार्थसमायुक्तं बभूव भ्रान्तमानसम् ॥ ६ ॥

मोहः स कामनायुक्तं कर्म नाना विनिर्ममे ।
तेन विश्वं शरीरस्य कुरुते कर्मभोगदम् ॥ ७ ॥

महामोहेन संसृष्टं विकर्म विविधं प्रभो ।
तेन देहस्य भोगार्थं पापानि कुरुते नरः ॥ ८ ॥

तामिस्रेण फलं सृष्टं रोगदारिद्र्यकादिकम् ।
तेनाऽऽधिव्याधिसंयुक्तमभूद्विश्वं प्रपीडितम् ॥ ९ ॥

अन्धतामिस्रतो दक्ष नरको यातनात्मकः ।
तेन स्वकर्मदोषेण यातनां बुभुजे जगत् ॥ १० ॥

एषाऽविद्यागणेशानं स्मृत्वा स्वार्थपराऽभवत् ।
ततो ब्रह्मा विनिन्द्यैनां पुनः स्रष्टुं मनो दधे ॥ ११ ॥

ततस्तस्य शरीरात्तु चतुःपुत्राः प्रजज्ञिरे ।
सनकश्च महायोगी तथान्यश्च सनन्दनः ॥ १२ ॥

सनातनोऽपि च सनत्कुमारश्च चतुर्थकः ।
तेषां मातृस्वरूपेण विद्या ज्ञानात्मिका बभौ ॥ १३ ॥

बोधरूपां निराकारां साक्षादात्ममयीं पराम् ।
तां दृष्ट्वा हर्षयुक्तोऽभूद्ब्रह्मा सर्वपितामहः ॥ १४ ॥

सहजस्य धरस्तत्र सनकः सम्बभौ सुतः ।
समयोगधरो दक्ष प्रतापी च स नन्दनः ॥ १५ ॥

ज्ञानयोगमयो योगी सनातन इति स्मृतः ।
कर्मयोगस्वरूपः सनत्कुमारः स आबभौ ॥ १६ ॥

तान् दृष्ट्वा हर्षसंयुक्त उवाच जगदीश्वरः ।
स्मृत्वाऽसृजत संसृष्टिं गणेशं तैः कृतं तथा ॥ १७ ॥

नानाविधं योगमार्गं ससृजुस्ते महौजसः ।
तं दृष्ट्वा नाभ्यनन्दत्स ब्रह्मा प्रोवाच तान् पुनः ॥ १८ ॥

अलं योगमयीं सृष्टिं मा कुरुध्वं महौजसः ।
तथेति ते महाभागा ऊचुस्तं संस्थिता बभुः ॥ १९ ॥

ब्रह्मा ज्ञानमयीं सृष्टिं ततो दृष्ट्वा चुकोप ह ।
कोषात्तस्य ललाटाद्वै शम्भुः पुत्रो बभूव ह ॥ २० ॥

तुष्टाव तेजसा दीप्तं पञ्चवक्त्रधरं प्रभुम् ।
त्रिनेत्रं दशबाहुं तं चन्द्ररेखाविभूषितम् ॥ २१ ॥

अर्धनारीनरं प्राज्ञं त्रिशूलादिसुचिह्नितम् ।
जटाधरं महाकायं व्याघ्रेभाजिनधारकम् ॥ २२ ॥

सहसा जातमात्रेण रुदितं शङ्करेण च ।
तं ब्रह्मा सान्त्वयामास किं रोदिषि वृषध्वज ॥ २३ ॥

ब्रह्माणमवदद्बालः स्थानं देहि पितः प्रभो ।
मह्यं नामानि सर्वेश कार्यं कथय विस्तरात् ॥ २४ ॥

तं प्रत्युवाच धाता स रोदनाद्रुद्रसञ्ज्ञितः ।
शिवः सर्वसुखाधारस्त्वं जातोऽसि महेश्वर ॥ २५ ॥

वरदानप्रभावेणाधुना सर्वेश्वरः प्रभो ।
साक्षाच्छङ्करवेषेण पुत्रतां मे समागतः ॥ २६ ॥

पृथ्वी जलं तथा तेजो वायुराकाशमेव च ।
चन्द्राः सूर्यो दीक्षितोऽष्टौ तव स्थानानि शङ्कर ॥ २७ ॥

अष्टमूर्तिधरः शर्वः सर्वेभ्यः फलदायकः ।
तव नामानि देवेश एकादश भवन्तु वै ॥ २८ ॥

कुरु सृष्टिं महादेव ध्यात्वा देवं गजाननम् ।
तथेति सृष्टिमारेभे ध्यात्वा गणपतिं शिवः ॥ २९ ॥

रुद्रान्नानाविधान् शम्भुः ससर्ज बहुतेजसः ।
अनन्तान्विविधाकारानमृतात्मप्रधारकान् ॥ ३० ॥

तान् दृष्ट्वा ब्रह्मदेवोऽपि मा कुरुष्व जगत्पते ।
जन्ममृत्युयुतान् शम्भो सृजस्व विविधांस्तथा ॥ ३१ ॥

ततः शिवो विधातारमुवाच न सृजाम्यहम् ।
जन्ममृत्युयुतान् देवेत्युक्त्वा तूष्णीं बभूव ह ॥ ३२ ॥

तेन स्थाणुरिति प्रोक्तं नाम तस्य महात्मनः ।
ऊर्ध्वरेताः स्वयं शम्भुः स्थितो गणपतिं भजन् ॥ ३३ ॥

ततो ब्रह्मा मुखेभ्यो वै वेदान् शास्त्रसमन्वितान् ।
पुराणानि ससर्जाऽसौ तानुवाच कृताञ्जलीन् ॥ ३४ ॥

सृजध्वं विविधां सृष्टिं तथेति गणपं तदा ।
तपसा तोषयामासुः ससृजुस्तद्वरैः प्रजाः ॥ ३५ ॥

कर्माणि विविधानीह ससृजुः परमादरात् ।
तानि दृष्ट्वा विधाताऽसौ हर्षयुक्तो बभूव ह ॥ ३६ ॥

ततो यज्ञं समारेभे ब्रह्मा विष्णुमचिन्तयत् ।
पुत्रार्थं तं महाभागं सोऽपि तत्पुत्रतां गतः ॥ ३७ ॥

यज्ञाच्चतुर्भुजो देवो यज्ञरूपो जनार्दनः ।
समुद्भूतः स्वयं विष्णुस्तमुवाच कृताञ्जलिः ॥ ३८ ॥

आज्ञां देहि पितर्मां त्वं ततस्तं विधिरब्रवीत् ।
सृष्टिं कुरु गणेश त्वं तथा स्मृत्वा चकार सः ॥ ३९ ॥

यज्ञान् कर्मसमुद्भूतान ससर्ज विविधान् हरिः ।
नानाफलप्रदान पूर्णान् कल्पवृक्षानिव प्रभुः ॥ ४० ॥

तान् दृष्ट्वा हर्षितो ब्रह्मा ततः स ससृजे पुनः ।
तस्य देहात्समुत्पन्नाः पुत्रा दश महौजसः ॥ ४१ ॥

[[५]]

मरीचिर्भृगुरत्रिश्च पुलस्त्यः पुलहः क्रतुः ।
दक्ष त्वमङ्गिराश्चैव वसिष्ठो नारदः प्रभो ॥ ४२ ॥

तानुवाच स्वयं ब्रह्मा सृजध्वं विविधाः प्रजाः ।
ओमित्युक्त्वा ययुः सर्वे तपसे वनमुत्तमम् ॥ ४३ ॥

ततो नारद आद्यन्तमुवाच पितरं मुनिः ।
नाहं सृजामि देवेश भजामि गणनायकम् ॥ ४४ ॥

मायामयं सर्वमिदं मिथ्याभूतं भ्रमात्मकम् ।
श्राम्येज्ज्ञाता तदर्थं यो मूर्खवन्नात्र संशयः ॥ ४५ ॥

ततस्तं पुनरप्याह सृज त्वं विविधाः प्रजाः ।
अन्त्ये वयसि देवेशं गणेशं भज पुत्रक ॥ ४६ ॥

स ऊचे त्वं बोधयसि किमर्थं मां प्रजापते ।
मिथ्याभूतार्थमादौ कः सृजति भ्रान्तिसंयुतः ॥ ४७ ॥

ततस्तं शप्तवान् ब्रह्मा पत त्वं शूद्रयोनितः ।
गन्धर्वश्च तथा भावी नानास्त्रीभोगकारकः ॥ ४८ ॥

ततस्तं नारदस्तातं शशाप क्रोधसंयुतः ।
अपूज्यो भविताऽसि त्वं वृथा शपसि मां यतः ॥ ४९ ॥

ततो नारद एवाऽसौ गत्वा तपसि संस्थितः ।
गणेशं तोषयामास मन्त्रेणैकाक्षरेण च ॥ ५० ॥

दिव्यवर्षशते पूर्णे तं ययौ गणपः स्वयम् ।
वरं वृणु महाभाग दास्यामि मनसीप्सितम् ॥ ५१ ॥

ततस्तं स्तुतवान् देवं गणेशं सर्वसिद्धिदम् ।
अवृणोच्च वरं चेति शापं मे विनिवर्तय ॥ ५२ ॥

ततस्तं गणराजः स ऊचिवान् भक्तवत्सलः ।
पितृशापं कथं मिथ्या करोमि वद साम्प्रतम् ॥ ५३ ॥

मया वरस्तथा दत्तो ब्रह्मणे तेन सत्यवाक् ।
अतः शृणु महाभाग वचनं मे सदा हितम् ॥ ५४ ॥

गन्धर्वो भवितासि त्वं तत्र ज्ञानं वदामि ते ।
सदा स्त्रीभिः समायुक्तं त्वां माया न प्रबाधते ॥ ५५ ॥

पुनस्त्वं शूद्रयोनौ च भविष्यसि न संशयः ।
तत्र सन्न्यासिभिः सङ्गो भविष्यति यदाऽनघ ॥ ५६ ॥

तेभ्यो ज्ञानं समासाद्य गमिष्यसि वनेषु च ।
तत्र वैष्णवमार्गेषु त्वं संसक्तो भविष्यसि ॥ ५७ ॥

तद्देहपतनात् भावी पुनस्त्वं ब्रह्मणः सुतः ।
नारदो नाऽत्र सन्देहस्तत्र शम्भुं भजिष्यसि ॥ ५८ ॥

नारायणमुखात्तत्र मां ज्ञात्वा मत्प्रियो मुने ।
भविष्यसि च योगेन्द्रो गाणपत्यो न संशयः ॥ ५९ ॥

इत्युक्त्वा गणनाथस्तं तत्रैवान्तरधीयत ।
नारदस्तं नमस्कृत्य शापं भुक्त्वा दिवं गतः ॥ ६० ॥

पुनः स नारदो जातः शिवभक्तिपरायणः ।
नारायणेन सञ्ज्ञप्तो गाणपत्यो बभूव ह ॥ ६१ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते नारदशापनिवर्तनं नाम द्वितीयोऽध्यायः ॥