॥ श्रीगणेशाय नमः ॥
[[१]]
शौनकाद्या ऊचुः ।
सूत त्वया महाभाग कृतकृत्या वयं कृताः ।
अतुलं वक्रतुण्डस्य चरित्रं श्रावितं महत् ॥ १ ॥
धन्योऽसि त्वं महाबुद्धे सर्वज्ञोऽसि विशेषतः ।
परिपृच्छामहेऽतस्त्वां तद्वदस्व यथार्थतः ॥ २ ॥
श्रुत्वा श्रुत्वा न नस्तृप्तिर्जायतेऽमृतपानवत् ।
अतस्त्वमेकदन्तस्य चरित्रं वद साम्प्रतम् ॥ ३ ॥
कस्मिन् ब्रह्मणि संस्थोऽयमेकदन्तो गजाननः ।
कति तस्यावताराश्च किं कर्म वद निश्चितम् ॥ ४ ॥
इति सम्प्रार्थितः सूतस्तानुवाच महामुनीन् ।
प्रश्रयावनतो भूत्वा भक्त्या तेषां प्रणोदितः ॥ ५ ॥
सूत उवाच ।
एवमेव च दक्षेण परिपृष्टो महामुनिः ।
मुद्गलस्तमथोवाच तच्छृणुध्वं मुनीश्वराः ॥ ६ ॥
दक्ष उवाच ।
पुरातनं महत्पुण्यमस्ति मे मुनिसत्तम ।
तेन ते दर्शनं जातं सर्वज्ञस्य न संशयः ॥ ७ ॥
वक्रतुण्डचरित्रं च श्रुतं तव मुखाम्बुजात् ।
तेन विश्रान्तता प्राप्ता हृदये मे विशेषतः ॥ ८ ॥
यज्ञविध्वंसशोकोऽपि गतो मत्तोऽधुना प्रभो ।
हर्षयुक्तः कृतो भक्त्या ढुण्ढेस्तु मुनिसत्तम ॥ ९ ॥
एकदन्तचरित्रं मे कथयस्व विशेषतः ।
किङ्कर्मा कथमुत्पन्न एकदन्तो गजाननः ॥ १० ॥
किं वाहनसमायुक्तः कीदृशं ब्रह्म तस्य वै ।
इत्यादि सर्वमाख्यानं वद मां करुणानिधे ॥ ११ ॥
सूत उवाच ।
एवं पृष्टो महातेजास्तमुवाच प्रजापतिम् ।
भक्तिं ज्ञात्वा विशेषेण गणेशे सर्वसिद्धिदे ॥ १२ ॥
मुद्गल उवाच ।
शृणु दक्ष त्वया पृष्टं सर्वपापप्रणाशनम् ।
एकदन्तस्य माहात्म्यं भुक्तिमुक्तिफलप्रदम् ॥ १३ ॥
धन्योऽसि त्वं महाभाग येन ते श्रवणे रतिः ।
गजाननस्य देवस्य चरित्रे सर्वभावतः ॥ १४ ॥
अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् ।
गृत्समदस्य संवादं प्रह्लादस्य महात्मनः ॥ १५ ॥
श्रुत्वा मुद्गलवाक्यं तद् दक्षो हृष्टमना मुने ।
उवाच तं महर्षिं स प्रश्रयावनतः स्वयम् ॥ १६ ॥
दक्ष उवाच ।
ब्रह्मणः सृष्टिमारभ्य सृष्टिमार्गं वद प्रभो ।
यथा त्रिभुवनं सृष्टं ब्रह्मणा विश्वयोनिना ॥ १७ ॥
तत्र प्रह्लादमाहात्म्यं स्वयमेवागमिष्यति ।
गृत्समदस्य संवादं यथावद्वर्णय प्रभो ॥ १८ ॥
सूत उवाच ।
दक्षस्य वचनं श्रुत्वा मुद्गलस्तमुवाच ह ।
सृष्टिमार्गं पुरावृत्तं शापमोहितमादरात् ॥ १९ ॥
मुद्गल उवाच ।
शृणु दक्ष महाबुद्धे ब्रह्मा लोकपितामहः ।
ससर्ज विविधं विश्वं तथा ते कथयाम्यहम् ॥ २० ॥
गणेशवरदानेन ब्रह्मा स्रष्टुं मनो दधे ।
योगमायां समास्थाय विवेशाऽसौ जनार्दनम् ॥ २१ ॥
निलीय तस्मिन्नब्दान्ते नाभिपद्माद्विनिःसृतः ।
वरदानेन विष्णोश्च पुत्रत्वमगमद्विधिः ॥ २२ ॥
तत्र पद्मे समासीनो ध्यायन् हेरम्बमन्तरे ।
ततस्तस्य विधेर्देहाज्जलं वै निःसृतं बहु ॥ २३ ॥
पश्यतस्तस्य सर्वत्र जलं व्याप्तं दिशो दश ।
तस्मिन् जले निमग्नोऽभूद् बभ्राम भ्रान्तमानसः ॥ २४ ॥
सस्मार गणनाथं तं विभो पाहि भयानकात् ।
मज्जन्तं मां जलात् ढुण्ढे वक्रतुण्ड नमोऽस्तु ते ॥ २५ ॥
[[१]]
स्मृतिमात्रेण तत्रासौ ददर्श वटमुत्तमम् ।
तत्र पत्रे गणेशानं सुप्तं दृष्ट्वा प्रहर्षितः ॥ २६ ॥
त्रिनेत्रं च चतुर्बाहुं शुण्डादण्डविराजितम् ।
महोदरं शेषनाभिं भालचन्द्रं किरीटिनम् ॥ २७ ॥
सर्वावयवसम्पूर्णं नानाभूषणभूषितम् ।
वस्त्रैः सञ्छादितं बालमङ्गुष्ठपरिमाणकम् ॥ २८ ॥
एतादृशं गणेशानं दृष्ट्वा विस्मितमानसः ।
महाजले वटो योऽयमवशिष्टः कथं जले ॥ २९ ॥
वटस्य सन्निधाने स ययौ ब्रह्मा प्रजापते ।
सिषेच गणनाथश्च जलं ब्रह्मणि शुण्डया ॥ ३० ॥
तेन हृष्टः स्वयं ब्रह्मा तुष्टाव स गजाननम् ।
बद्धाञ्जलिपुटो भूत्वा भक्तिनम्रात्मकन्धरः ॥ ३१ ॥
ब्रह्मोवाच ।
नमस्ते गणनाथाय प्रलयाम्बुविहारिणे ।
वटपत्रशयायैव हेरम्बाय नमो नमः ॥ ३२ ॥
चतुर्भुजधरायैव नाभिशेषाय ते नमः ।
गजवक्त्राय सर्वेश लम्बोदर नमोस्तु ते ॥ ३३ ॥
एकदन्ताय वै तुभ्यं नानाशोभासमन्वित ।
अङ्गुष्ठपर्वमात्रं च स्वरूपं दधते नमः ॥ ३४ ॥
सिद्धिबुद्धियुतायैव भक्तसंरक्षकाय च ।
अनन्तविभवायैव गणेशाय नमो नमः ॥ ३५ ॥
निर्गुणाय गुणाधार सगुणाय नमो नमः ।
एकानेकादिभेदैश्च लीलाकार नमोऽस्तु ते ॥ ३६ ॥
अनादिबालरूपाय सृष्टिस्थित्यन्तकारिणे ।
मायाविने महामोहदात्रे तुभ्यं नमो नमः ॥ ३७ ॥
निवारय महाविघ्नं सृष्टिकर्तुर्गजानन ।
जलं प्राप्तं महाघोरं तत्राऽहं मज्जितो बलात् ॥ ३८ ॥
शरणं त्वां प्रपन्नोऽस्मि रक्ष मां भक्तवत्सल ।
तव देवेश दासोऽहं कृपां कुरु दयानिधे ॥ ३९ ॥
ब्रह्मा स्तुत्वा पुनश्चित्रं तस्य तुण्डे ददर्श ह ।
विश्वं चराचरं पूर्णं संस्थितं सेश्वरं किल ॥ ४० ॥
ततो नानासमीरेण नीतो ब्रह्मा महोदरे ।
तत्र विश्वं ददर्शाऽसौ नानाश्चर्यमयं पुनः ॥ ४१ ॥
एवं नानाण्डसंयुक्तमुदरं वीक्ष्य च प्रभोः ।
रोमद्वारेण ब्रह्माऽसौ बहिर्यातो यथा पुरा ॥ ४२ ॥
ददर्श तं गणेशानं बालरूपं सुविस्मितः ।
तमुवाच ततो देवो ब्रह्माणं भक्तमुत्तमम् ॥ ४३ ॥
श्रीगणेश उवाच ।
त्वया कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् ।
सर्वार्थसाधकं चैव भुक्तिमुक्तिफलप्रदम् ॥ ४४ ॥
यः पठेच्छृणुयाद्वाऽपि स मे मान्यो भविष्यति ।
यं यं चिन्तयते भावं तं तं दास्यामि निश्चितम् ॥ ४५ ॥
नाभेः कलमतो विष्णोनिःसृतो वरदानतः ।
तत्राऽऽदौ मे स्मृतिं पूजां विस्मृतस्त्वं पितामह ॥ ४६ ॥
तेन त्वं विघ्नसंयुक्तः पुनर्जातो न संशयः ।
अधुना मे स्मृतिं कृत्वा दृष्ट्वा मां विघ्नवर्जितः ॥ ४७ ॥
अतः परं विधे किञ्चित्त्वया कार्यं महामते ।
मत्स्मृतिं नमनं कृत्वा कुरु त्वं सिद्धिमेष्यसि ॥ ४८ ॥
यथा दृष्टं मदीयेऽद्य जगत्स्थावरजङ्गमम् ।
उदरे तादृशं विश्वं सृज त्वं मेऽधुनाज्ञया ॥ ४९ ॥
इत्युक्त्वान्तर्दधे सद्यो गणेशो बालरूपधृक् ।
ब्रह्मा पद्मे समासीनो यथापूर्वं बभूव ह ॥ ५० ॥
[[२]]
ततो गणेशमन्त्रं च जजाप कमलासनः ।
पूजयित्वा यथान्यायं ध्यानसंस्थो बभूव ह ॥ ५१ ॥
तस्य हृद्देशमध्येऽसौ प्रकटोऽभूद्गजाननः ।
तं ननाम स्वयं ब्रह्मा पूजां चक्रे स मानसीम् ॥ ५२ ॥
दक्षिणावसरे तत्र सिद्धिर्बुद्धिरुभे परे ।
आगते हृदि मध्ये च ते ददौ विघ्नहारिणे ॥ ५३ ॥
यथाशास्त्रविधानेन तस्य पूजां प्रगृह्य सः ।
अन्तर्धानं ययौ सद्यो गणेशः सर्वनायकः ॥ ५४ ॥
अन्तर्हिते गणेशाने हृदिस्थे ब्रह्मरूपिणि ।
तं प्रणम्य स्वयं ब्रह्मा सृष्टिं कर्तुं मनो दधे ॥ ५५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते ब्रह्मसृष्टिप्रारम्भो नाम प्रथमोऽध्यायः ॥