॥ श्रीगणेशाय नमः ॥
याज्ञवल्क्य उवाच ।
ततोऽहं परमप्रीतस्तं प्रणम्य जनार्दनम् ।
गतस्तपोवनं तात योगाभ्यासं समारभै ॥ १ ॥
क्रमेण पञ्चधा वृत्तिं जित्वा चित्तस्य साधनैः ।
गणपं शान्तियोगेन प्राप्तोऽहं तदनुग्रहात् ॥ २ ॥
अतस्त्वं शरणं याहि वक्रतुण्डं विशेषतः ।
तेन ब्राह्मणसंवन्द्यो भविष्यसि न संशयः ॥ ३ ॥
गायत्रीजपसम्भूतं श्रेयो देहि महामुने ।
गजाननाय तेन त्वं विघ्नहीनो भविष्यसि ॥ ४ ॥
विश्वस्मिन् मित्रभावं त्वं प्रकुरुष्व सदातनम् ।
विश्वामित्रश्च ते नाम तदा सार्थत्वमेष्यति ॥ ५ ॥
मुद्गल उवाच ।
इत्युक्त्वा याज्ञवल्क्यः स ययौ तेन प्रपूजितः ।
गणेशाय नमश्चेति नाममन्त्रं सदा जपन् ॥ ६ ॥
तदा प्रभृति गायत्रीं विश्वामित्रः स धर्मवित् ।
त्यक्त्वाऽहङ्कारमत्यन्त मत्सरं च तथाऽजपत् ॥ ७ ॥
गणेशार्पणभावेन गायत्रीं च जजाप ह ।
तपस्तताप विप्रोऽसौ ध्यात्वा हृदि गजाननम् ॥ ८ ॥
गायत्री वेदमातेयं पिता प्रणव उच्यते ।
स एव गणनाथोऽयमोङ्काराकृतिमस्तकः ॥ ९ ॥
सगुणो गणराजोऽयमोङ्कार इति कथ्यते ।
[[१२२]]
तस्मै समर्प्य योगी स गायत्रीं योगमाप्नुवान् ॥ १० ॥
ततः स्वल्पेन कालेन ब्रह्मा लोकपितामहः ।
विश्वामित्रं ययौ दक्ष ब्राह्मणत्वं ददौ परम् ॥ ११ ॥
वसिष्ठमुनिना तत्र ब्राह्मणैः सह पूजितः ।
विश्वामित्रो महातेजा ब्राह्मणोऽयं प्रकीर्तितः ॥ १२ ॥
सप्तर्षीणां महातेजा मध्ये प्रोक्तो महर्षिभिः ।
तथा गणेशभक्तेषु मुख्योऽभूत्स प्रतापवान् ॥ १३ ॥
नित्यं पूजाप्रकारेण पूजयामास तं मुनिः ।
तुष्टाव सुस्थिरो भूत्वा यथामति गजाननम् ॥ १४ ॥
विश्वामित्र उवाच ।
नमस्ते गणनाथाय विघ्नेशाय नमो नमः ।
निर्गुणाय गुणानां च पते वै ते नमो नमः ॥ १५ ॥
नमः सर्वविदां श्रेष्ठ नमः सर्वप्रियङ्कर ।
गजाकाराय देवाय गणेशाय नमो नमः ॥ १६ ॥
गजवक्त्र नमस्तुभ्यं ब्रह्मणां च पते नमः ।
अनादये च सततमादिपूज्याय ते नमः ॥ १७ ॥
सर्वसिद्धिप्रदात्रे ते नानामायाधराय च ।
मायिभ्यो मोहदात्रे वै तद्धीनाय नमो नमः ॥ १८ ॥
बुद्धेः पते नमस्तुभ्यं बुद्धिपञ्चकधारिणे ।
मनोवाणीमयायैव तद्धीनाय नमो नमः ॥ १९ ॥
सिंहारूढाय देवाय देवानां च पते नमः ।
देवदेवेशसेव्यायानादिसिद्धाय ते नमः ॥ २० ॥
नमश्चतुर्भुजायैव मूषकध्वजधारिणे ।
नमो मूषकवाहाय हेरम्बाय नमो नमः ॥ २१ ॥
लम्बोदर नमस्तुभ्यं शूर्पकर्णाय ते नमः ।
योगिनां कुलदेवाय योगिनां च पते नमः ॥ २२ ॥
एवं तस्मिन् संस्तुवति प्रादुर्भूतो गजाननः ।
अनन्तादित्यसङ्काशः सिंहारूढो महोदरः ॥ २३ ॥
तं दृष्ट्वा निपपातोर्व्यां साश्रुनेत्रो महामुनिः ।
पुलकाङ्कितसर्वाङ्गो भक्तिभावेन सम्प्लुतः ॥ २४ ॥
तं दृष्ट्वा गणराजस्तु जगाद मुनिसत्तमम् ।
त्वया कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् ॥ २५ ॥
यः पठेच्छ्रुणुयाद्योऽपि स मे मान्यो भविष्यति ।
भुक्तिं मुक्तिं च दास्यामीप्सितं तस्मै न संशयः ॥ २६ ॥
त्वं तु मत्तो वरान् ब्रूहि सर्वान् दास्यामि दुर्लभान् ।
भक्तिभावेन सन्तुष्टस्तव योगीश्वराधुना ॥ २७ ॥
मुद्गल उवाच ।
गणेशवचनं श्रुत्वा सावधानोऽभवन्मुनिः ।
तं प्रणम्य महाभक्त्या जगौ वै हर्षसंयुतः ॥ २८ ॥
विश्वामित्र उवाच ।
धन्यो वंशो मदीयोऽद्य धन्यं जन्म तपो यशः ।
धन्यौ मे जनकौ देव त्वदङ्घ्रियुगदर्शनात् ॥ २९ ॥
किं वाञ्छामि गणाधीश सर्वं मायात्मकं प्रभो ।
अतो भक्तिं त्वदीयां मे देहि नाथ नमोऽस्तु ते ॥ ३० ॥
गाणपत्येषु मे देहि संवासं च गजानन ।
अमुमेव वरं ब्रह्मन्मायामोहविनाशनम् ॥ ३१ ॥
एवमस्त्विति तं प्रोच्य सोऽन्तर्धानं ययौ प्रभुः ।
विश्वामित्रस्तदारभ्य गाणपत्यो बभूव ह ॥ ३२ ॥
एवं नानावताराश्च वक्रतुण्डस्य धीमतः ।
भक्तानां सिद्धिदातारो दानवानां विनाशकाः ॥ ३३ ॥
चरित्रमखिलं तेषां वक्तं नैव प्रशक्यते ।
अतः सङ्क्षेपतो विद्धि कथितं सुकथानकम् ॥ ३४ ॥
एतद्वै वक्रतुण्डस्य चरितं पापनाशनम् ।
भुक्तिमुक्तिप्रदं पूर्णं कथितं ते प्रजापते ॥ ३५ ॥
[[१२३]]
यः शृणोति नरो भक्त्या संश्रावयति यः पुमान् ।
पठेद्यः कृतकृत्यः स भविता नात्र संशयः ॥ ३६ ॥
पुत्रपौत्रप्रदं चैव धनधान्यकरं परम् ।
विद्यायुष्यप्रदं दक्ष चरितं कथितं परम् ॥ ३७ ॥
सहस्रमाघमासान् यः प्रयागे स्नाति मानवः ।
वक्रतुण्डचरित्रस्य श्रवणेन च तत्फलम् ॥ ३८ ॥
आजन्ममरणान्तं यः काशीवासं करोति च ।
यथाविधि यथाशास्त्रं श्रवणादस्य तत्फलम् ॥ ३९ ॥
इष्टापूर्तादिकं यस्तु लक्षवारं करोति च ।
सम्पूर्णभावयुक्ताच श्रवणादस्य तत्फलम् ॥ ४० ॥
यज्ञानां चैव साङ्गानां फलं प्राप्नोति मानवः ।
अस्य श्रवणमात्रेण सम्पूर्णं तत्प्रजापते ॥ ४१ ॥
बहुनाऽत्र किमुक्तेन ब्रह्मभूयपदप्रदम् ।
श्रवणेन न सन्देहो जानीहि त्वं महामते ॥ ४२ ॥
सूत उवाच ।
एवमुक्त्वा महायोगी मुद्गलो विरराम ह ।
तदेतदखिलं तेऽद्य मयाऽपि कथितं मुने ॥ ४३ ॥
वक्रतुण्डस्य माहात्म्यं सङ्क्षेपेण च शौनक ।
कथितं ते मया विप्र भावं ज्ञात्वा विशेषतः ॥ ४४ ॥
श्रोतुमिच्छा पुनः किं ते वर्तते मुनिसत्तम ।
तवाऽहं सुप्रसादेन सन्तुष्टाऽस्मि न संशयः ॥ ४५ ॥
वक्रतुण्डस्य माहात्म्यं गुह्यं वेदरहस्यकम् ।
गोपनीयं विशेषेण तेन सिद्धिं लभेन्नरः ॥ ४६ ॥
न श्रावयेत् दुर्जनेभ्यो गणेशद्विषते तथा ।
पापकर्मभ्य एवेदं विषयिभ्यः कदाचन ॥ ४७ ॥
यदि तेषां पुरश्चेदं श्रावितं च महामुने ।
तदा कोपः प्रभविता वक्रतुण्डस्य निश्चितम् ॥ ४८ ॥
स चानादरमात्रेण दशपूर्वान् दशापरान् ।
नरकं च श्रावयतः प्रापयत्येष पूरुषान् ॥ ४९ ॥
अतः साधुजनेभ्यश्च गाणपत्येभ्य एव च ।
प्रयत्नेन श्रावयेद्यः स्वानां कोटिं समुद्धरेत् ॥ ५० ॥
अतो यः पृच्छको वक्ता स्वस्वकोटिकुलोद्भवम् ।
पुरुषाणां समूहं स उद्धरेन्नात्र संशयः ॥ ५१ ॥
कलिकल्मषदाहघ्नं वक्रतुण्डचरित्रकम् ।
कृतादिषु किमाश्चर्यं दहेत्पापगणानिति ॥ ५२ ॥
अहो कलौ विकुण्ठं च सर्वदेवचरित्रकम् ।
गाणपत्यं विशेषेण गतिदं च सदा भवेत् ॥ ५३ ॥
इदं मुने चरित्रं ते वक्रतुण्डस्य भावतः ।
कथितं तेन विप्रर्षे कृतकृत्योऽस्मि साम्प्रतम् ॥ ५४ ॥
धन्योऽहं भवतां सङ्गाद्येन संस्मरणं कृतम् ।
गणेशस्य परेशस्य सफलो मे भवोऽभवत् ॥ ५५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते वक्रतुण्डचरित्रसमाप्तिर् नाम चतुःपञ्चाशत्तमोऽध्यायः ॥
॥ श्रीगजाननार्पणमस्तु ।
॥ इति श्रीमुद्गलपुराणे प्रथमः खण्डः समाप्तः ॥