५३ -याज्ञवल्क्यसंवादः

॥ श्रीगणेशाय नमः ॥

नारायण उवाच ।

गणेशाधारमेतत्त्वं जानीहि ब्राह्मणोत्तम ।
हृदि बुद्धिप्रदातृत्वाद्बहिः सिद्धिप्रदानतः ॥ १ ॥

अतोऽस्माभिः सदा देव आदौ पूज्यो महामुने ।
आदौ स एव मध्येऽपि तिष्ठत्यन्ते न संशयः ॥ २ ॥

गुणरूपा वयं सर्वे ब्रह्माकारो गणेश्वरः ।
सिद्धिबुद्धिपतिः सो हि सर्वपूज्यश्च भो मुने ॥ ३ ॥

स्वानन्दो यस्य लोकोभूद्भावाभावविवर्जितः ।
अगम्यो मुनिदेवानां द्वन्द्वहीनः परात्परः ॥ ४ ॥

एवं गणपतिं ज्ञात्वा मुच्यते सर्वबन्धनात् ।
तदाधारमिदं सर्वं जगद्ब्रह्म महामते ॥ ५ ॥

सर्वैरप्येकदा तत्त्वैर्मत्सरेण समन्वितैः ।
वादः कृतो महाभाग अहं श्रेष्ठ इति ध्रुवम् ॥ ६ ॥

मदाधारमिदं सर्वं पालयामि सृजाम्यहम् ।
हरामि मायया तस्मात् स्वेच्छारूपोऽहमेव च ॥ ७ ॥

एवं परस्परं सर्वे तत्त्वात्मानो महाबलाः ।
विवादं चक्रिरे तत्र सामर्थ्येन विमोहिताः ॥ ८ ॥

ततस्तत्र गुणाधीशो ब्राह्मणस्य च वेषभृत् ।
आययौ वादशान्त्यर्थं ज्ञानदानार्थमादरात् ॥ ९ ॥

तं दृष्ट्वा विस्मिता देवाः कोऽयमत्र समागतः ।
आत्माकारा वयं सर्वे तत्रास्य च गतिः कथम् ॥ १० ॥

ततस्तं सर्वतत्त्वानि पप्रच्छुः को भवानिति ।
कथं मार्गस्त्वया प्राप्तो ब्रह्माकारेषु वर्त्मसु ॥ ११ ॥

ततस्तान् स द्विजो हृष्टो जगौ वै योगमायया ।
मया मार्गः कृतो ह्यत्र ब्राह्मणेन सुयोगिना ॥ १२ ॥

किमर्थं वै यूयमपि विवादं कुरुथ स्वयम् ।
तन्मे वदत तत्त्वानि करिष्यामि हितं महत् ॥ १३ ॥

[[१२०]]

ततो हृष्टानि तत्त्वानि तमूचुः श्रेष्ठभावतः ।
कस्तिष्ठति वद प्राज्ञ तत्त्वेष्वस्मत्सु वै प्रभो ॥ १४ ॥

तेषां वचनमाकर्ण्य तानुवाच द्विजोत्तमः ।
तत्त्वाधारमिदं सर्वं विद्यते नात्र संशयः ॥ १५ ॥

विश्वं त्यक्त्वा यूयमपि पश्यतो मम तिष्ठत ।
विश्वं विदीर्यते सर्वं येन त्यक्तं स वै प्रभुः ॥ १६ ॥

इति श्रुत्वा वचः सर्वैस्तथेति प्रतिपाद्य तम् ।
क्रमेण त्यक्तुमारेभे आत्माकारा महाबलाः ॥ १७ ॥

ब्रह्माकारा च या पृथ्वी विश्वं त्यक्त्वा स्थिताऽभवत् ।
तथेदमखिलं विश्वं न विनष्टं तु भावतः ॥ १८ ॥

ततो जलेन तत्त्यक्तं तथा वै तादृशं स्थितम् ।
ततस्तु तेजसा त्यक्तं न विनष्टं तथापि च ॥ १९ ॥

ततो वायुश्च तत्त्यक्त्वा स्थितो दूरं महामुने ।
तथापि सकलं विश्वं पूर्ववत् संस्थितं बभौ ॥ २० ॥

आकाशेन च सन्त्त्यक्तं तथा वै तादृशं बभौ ।
तन्मात्राभिस्ततस्त्यक्तं तथा वै पूर्ववद्बभौ ॥ २१ ॥

तन्मात्राभिः सहैतानि भूतानि च महामुने ।
पञ्चापि दूरतः स्थित्वा शुशुचुर्विप्रभाणि च ॥ २२ ॥

ततो ज्ञानेन्द्रियैस्त्यक्तं पञ्चभिस्तत्तथा बभौ ।
ततः कर्ममयैस्त्यक्तं तथापि तादृशं बभौ ॥ २३ ॥

तत इन्द्रात्मकं ब्रह्म त्यक्त्वा दूरे स्थितं मुने ।
तथापि विश्वमेवेदं पूर्ववत्संस्थितं किल ॥ २४ ॥

एवं देवगणाः सर्वे इन्द्रियाणां प्रकाशकाः ।
आत्माकाराः स्थिताः दूरं त्यक्त्वा विश्वं महामुने ॥ २५ ॥

तथापि सकलं विश्वं बभौ तेऽपि सुविह्वलाः ।
निस्तेजसोऽभवंस्तत्र स्थितास्तत्त्वसमन्विताः ॥ २६ ॥

ततोऽन्नब्रह्मणा त्यक्तं विश्वं तदपि सम्बभौ ।
प्राणात्मकेन सन्त्यक्तं तथा वै तादृशं बभौ ॥ २७ ॥

ततो मनोमयेनैव ब्रह्मणा त्यक्तमादरात् ।
तथापि सम्बभौ विश्वं पूरितं केनचिन्मुने ॥ २८ ॥

ततो विज्ञानरूपेण त्यक्तं तदपि तद्बभौ ।
तत आनन्दरूपेण त्यक्तं विश्वं बभौ तदा ॥ २९ ॥

ततो नादात्मकेनैव ब्रह्मणा त्यक्तमादरात् ।
ततो बिन्दुमयेनैव त्यक्तं विश्वं बभौ मुने ॥ ३० ॥

सोऽहम्ब्रह्मात्मकेनापि त्यक्तं विश्वं बभौ मुने ।
ततो बोधात्मना त्यक्तं तथा विश्वं च सम्बभौ ॥ ३१ ॥

ततो विदेहरूपेण त्यक्तं तदपि सम्बभौ ।
ततोऽप्यसत्स्वरूपेण त्यक्तं तदपि सम्बभौ ॥ ३२ ॥

ततोऽपि सत्स्वरूपेण त्यक्तं विश्वं बभौ मुने ।
ततः समस्ववेद्येन त्यक्तं विश्वं समावभौ ॥ ३३ ॥

ततो नेतिस्ववेद्येन त्यक्तं वै विश्वमाबभौ ।
ततः स्वानन्दरूपेण त्यक्तं विश्वं लयं ययौ ॥ ३४ ॥

ततस्ते विस्मिताः सर्वे स्वानन्दं तुष्टुवुर्मुने ।
प्रहृष्टमनसो भूत्वा प्रार्थयामासुरादरात् ॥ ३५ ॥

सकलं यत्त्वदाधारमस्माकं त्वं विशेषतः ।
नायकः सर्वतत्त्वानामतो भव विनायकः ॥ ३६ ॥

विनायक नमस्तुभ्यं पुनर्विश्वं सृज प्रभो ।
यथा पूर्व स्थितं स्वामिंस्तथा कुरु जगत्पते ॥ ३७ ॥

एवं तैः प्रार्थितो देवो विशेषेण विनायकः ।
निर्ममे सकलं विश्वं यथापूर्व मुनीश्वर ॥ ३८ ॥

ततस्ते ब्रह्मरूपत्वात्तद्विश्वं विविशुः पुनः ।
यथा स्वस्थानमात्मानमाश्रित्य मुमुदुस्ततः ॥ ३९ ॥

[[१२१]]

जगदीश्वरनामानः सर्वेशास्ते प्रकीर्तिताः ।
अनेन विधिना ब्रह्मन् ज्ञातव्यं तद्विशेषतः ॥ ४० ॥

स विनायक इत्युक्तो द्विविधो याज्ञवल्क्यक ।
संयोगेन निजानन्दो निरानन्दो ह्ययोगतः ॥ ४१ ॥

द्विविधे नाशभूते च योगरूपोऽयमुच्यते ।
विनायको महातेजा ब्रह्मणां नायकः स्मृतः ॥ ४२ ॥

तं विदित्वा ततः शान्तिं वयं प्राप्ता महामुने ।
अतः शान्त्यर्थमत्यन्तं तमाराधय भो द्विज ॥ ४३ ॥

माया भ्रान्तिकरी जन्तोर्वक्रा सङ्कथिता मुने ।
तुण्डेन हन्ति तां भक्त्या तेनाऽयं वक्रतुण्डकः ॥ ४४ ॥

वक्रतुण्डं च सर्वेशं शरणं याहि भो मुने ।
तदा योगीन्द्रसेव्यस्त्वं भविष्यसि न संशयः ॥ ४५ ॥

मनोवाणीमयं सर्वं गकाराक्षरमेव च ।
मनोवाणीविहीनं च णकारं विद्धि मानद ॥ ४६ ॥

तयोः स्वामी गणेशोऽयं योगरूपः प्रकीर्तितः ।
तं प्राप्य ब्रह्मभूताश्च भवन्ति खलु जन्तवः ॥ ४७ ॥

इदं वेदान्तसम्भूतं रहस्यं कथितं मुने ।
गोपनीयं प्रयत्नेन तेन सिद्धिमवाप्स्यसि ॥ ४८ ॥

इत्युक्त्वा विररामाथ तदा नारायणः स्वयम् ।
गणेशाय नमस्तुभ्यमित्युवाच पुनः पुनः ॥ ४९ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते नारायण -याज्ञवल्क्यसंवादो नाम त्रिपञ्चाशत्तमोऽध्यायः ॥