॥ श्रीगणेशाय नमः ॥
याज्ञवल्क्य उवाच ।
एतस्मिन्नन्तरे तत्र ययौ ज्योतिर्विदुत्तमः ।
ढुण्ढिनामा द्विजो यस्तु पुरा प्रोक्तो मयाऽनघ ॥ १ ॥
सर्वं तन्नगरं तेन मोहितं तत्क्षणान् मुने ।
पश्चात्समागतो बुद्धो विष्णुर्भ्रष्टं तथाऽकरोत् ॥ २ ॥
ढुण्ढिना स दिवोदासो बोधितः स च त्यक्तवान् ।
राज्यं बौद्धेन सन्तस्थौ प्रतीक्षन् शिवदर्शनम् ॥ ३ ॥
ताभ्यामाकारितः शम्भुः प्रययौ गणपं पुरः ।
कृत्वा सम्पूज्य तं काश्यामादौ चक्रे हि वासिनम् ॥ ४ ॥
स्वयं देवगणैः पश्चादृषिभिश्च विवेश ह ।
ननाम चरणे काशी विघ्नपस्य शिवस्य च ॥ ५ ॥
यथास्थानं स्थिताः सर्वे देवा ऋषिगणाः सुखम् ।
दिवोदासाय मोक्षं स शङ्करः प्रददौ ततः ॥ ६ ॥
ततः कदाचिद्देवेशो जगाद गिरिशं वचः ।
तुभ्यं दत्ता मया काशी कृतं सर्वं यथायथम् ॥ ७ ॥
अधुनाऽहं महादेव यास्ये स्वं धाम शोभनम् ।
यदा मे स्मरणं कुर्यास्तदा द्रक्ष्यसि मां शिव ॥ ८ ॥
इत्युक्त्वा ढुण्ढिविप्रेण सहितोऽसौ गजाननः ।
अन्तर्धानं ययौ तत्र देवानां पश्यतां मुने ॥ ९ ॥
ततः स्वयं विश्वनाथस्तस्य मूर्तिं विधाय सः ।
स्थापयामास यत्नेन देवैश्व ब्राह्मणैः सह ॥ १० ॥
विधिवत्पूजयामास चोपचारैर्मनोरमैः ।
सर्वैः कृत्वा नमस्कारं प्रादक्षिण्यं चकार सः ॥ ११ ॥
सर्वान् जगाद विश्वेशो हितं शृणुत मे वचः ।
आदौ ढुण्ढिं समभ्यर्च्य ये मां तोष्यति तत्त्वतः ॥ १२ ॥
तेभ्यो भुक्तिं तथा मुक्तिं दास्यामि त्वन्यथा न च ।
काशीवासफलस्याऽपि दाताऽयं वक्रतुण्डकः ॥ १३ ॥
वेदादीनां रहस्यं यदन्विष्टं तु मया बहु ।
तन्मूलोऽयं हृदि प्राप्तः साक्षाद्ब्रह्मपतिः प्रभुः ॥ १४ ॥
अतोऽयं ढुण्ढिराजेति नाम्ना ख्यातो मया कृतः ।
धर्मार्थकाममोक्षाणां दाता क्षेत्रे न संशयः ॥ १५ ॥
एवमुक्त्वा महादेवो नित्यं पूजापरायणः ।
ढुण्ढिराजस्य सेवायां सावधानो बभूव ह ॥ १६ ॥
तथा त्वमपि देवेशं विघ्नराजं भज प्रभो ।
त्यक्त्वाहङ्कारभावं तु ब्राह्मणः प्रभविष्यसि ॥ १७ ॥
मुद्गल उवाच ।
याज्ञवल्क्यवचः श्रुत्वा विश्वामित्रो महातपाः ।
जगाद तं महाभागं विनयेन समन्वितः ॥ १८ ॥
विश्वामित्र उवाच ।
याज्ञवल्क्य महाभाग त्वयाऽहं बोधितः खलु ।
अधुना वद मे ज्ञानं सर्वज्ञोऽसि महामुने ॥ १९ ॥
अहङ्कारो मया त्याज्यः केन मार्गेण तद्वद ।
कीदृशो मे शरीरेऽसौ वद तिष्ठति साम्प्रतम् ॥ २० ॥
गणेशानमहं केन भजेयं विधिना वद ।
स्वरूपं च कथं तस्य योगीन्द्रोऽसि यतः स्वयम् ॥ २१ ॥
याज्ञवल्क्य उवाच ।
शृणु त्वं कौशिक ब्रह्मन्नहङ्कारं वदामि ते ।
तपसा ब्राह्मणत्वं वै प्राप्स्यामि न हि संशयः ॥ २२ ॥
एनमेव विजानीह्यहङ्कारं तु महामते ।
तस्य त्यागे विधिं वक्ष्ये तं शृणुष्व यथायथम् ॥ २३ ॥
प्राप्तये ब्राह्मणत्वस्य तपेयं तप उत्तमम् ।
यदा दास्यति देवोऽसौ तदा ब्राह्मणता भवेत् ॥ २४ ॥
यदा न दत्ता देवेन राजर्षित्वं तदा खलु ।
अस्तु मे सततं तच्च कोऽहं मे कीदृशं तपः ॥ २५ ॥
अहं सदा पराधीनो देहधारी न संशयः ।
करोमि यत्नमत्यन्तं दैवं चेत्प्रभविष्यति ॥ २६ ॥
अनेन विधिना विप्र तपस्व त्वं महामुने ।
तदा प्रभविता सर्वं गताहङ्कारभावतः ॥ २७ ॥
अन्यत्त्वं शृणु मे वाक्यं मत्सरं त्यज कौशिक ।
शरणं गणराजं तं याहि तेन सुखं भवेत् ॥ २८ ॥
न मत्समं तपः कस्य स्पर्धसे तेन वै द्विजान् ।
मत्सरेण समाविष्टः कुतस्त्वं ब्राह्मणो भवेः ॥ २९ ॥
त्वया मत्सरभावेन वसिष्ठस्य महात्मनः ।
पुत्राणां च शतं पूर्णं नाशितं रक्षसा यथा ॥ ३० ॥
अपरा सृष्टिरारब्धा ?त्रिशङ्कर्थ पुरा त्वया ।
वसिष्ठहनने यत्नं नानारूपं करोषि वै ॥ ३१ ॥
तं मत्सरं त्यज त्वं वै विधिं च शणु तत्त्वतः ।
नीचोऽहं सर्वविप्रेभ्यस्तपस्विभ्यो न संशयः ॥ ३२ ॥
मया किंवा तपः कार्यमेभ्यश्चाधिकमादरात् ।
एषां तपःप्रभावोऽपि मनसा गम्यते न च ॥ ३३ ॥
एवं ज्ञात्वा तपस्व त्वं ब्राह्मणः प्रभविष्यसि ।
अन्यथा युगसाहस्रं तपस्तप्त्वा मरिष्यासि ॥ ३४ ॥
[[११९]]
सर्वेभ्यो नमनं विप्र हृदि भावसमन्वितम् ।
कर्तव्यं च त्वया नित्यं राजर्षिवन्महामते ॥ ३५ ॥
एवमुक्त्वा महायोगी वक्रतुण्डप्रभावजाम् ।
कथां संश्रावयामास पूर्वजातां महायशाः ॥ ३६ ॥
कथां श्रुत्वा महाभागो विश्वामित्रः सुविस्मितः ।
उवाच तं नमस्कृत्य याज्ञवल्क्यं तपोधनम् ॥ ३७ ॥
विश्वामित्र उवाच ।
वक्रतुण्डस्य योगीन्द्र चरित्रं संश्रुतं मया ।
अधुना वद मे ब्रह्मन् तस्यानुभवरूपकम् ॥ ३८ ॥
याज्ञवल्क्य उवाच ।
शृणु यत्नेन माहात्म्यं पुरावृत्तं कथानकम् ।
कथयामि च ते प्रीत्या मदीयं ज्ञानदायकम् ॥ ३९ ॥
एकदाऽहं गतो ब्रह्मन् वैकुण्ठं स्वर्गमुत्तमम् ।
तत्र नारायणं नत्वाऽपृच्छं तं जगदीश्वरम् ॥ ४० ॥
किं सारं सर्वभूतेषु कस्याधारेण संस्थितम् ।
मह्यं वद महाभाग साक्षात्त्वं जगदीश्वरः ॥ ४१ ॥
इदं सर्वं त्वदाधारं भासते हृदि सर्वदा ।
तथापि प्रष्टुमिच्छामि श्रवणार्थं यथायथम् ॥ ४२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते याज्ञवल्क्य -नारायणसम्प्रश्नवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥