५१ काशीशिववरप्रदानम्

॥ श्रीगणेशाय नमः ॥

[[११५]]

याज्ञवल्क्य उवाच ।

ततः शम्भुः परां चिन्तामापेदे मनसा मुने ।
देवा हतोद्यमा जातास्तपसा तस्य धीमतः ॥ १ ॥

स्वधर्मपर एवायं तपसा च समन्वितः ।
नोच्चालितुं भवेच्छक्यः किं भविष्यति वै ततः ॥ २ ॥

मया काशी कदा लभ्या दग्धोऽहं विरहाग्निना ।
मरिष्यामि न सन्देहो विललाप महेश्वरः ॥ ३ ॥

अस्थिचर्मावशेषोऽपि शुशोच बहुधा शिवः ।
तं देवा मुनयः सर्वे सान्त्वयामासुरादरात् ॥ ४ ॥

देवर्षय ऊचुः ।
मा कुरुष्व वृथा चिन्तां त्वं समर्थो महेश्वर ।
तव प्रसादयोगेन गच्छामः काशिकां वयम् ॥ ५ ॥

नानासिद्धिभिरालोभ्य लोकांस्तत्र समन्ततः ।
तत्पापभागिनं भूपं दिवोदासं च कुर्महे ॥ ६ ॥

ततस्त्वया विशेषण काशी ग्राह्या सदाशिव ।
एवमुक्त्वा ययुस्तत्र देवाः सर्वे प्रहर्षिताः ॥ ७ ॥

तत्राभवन् गताः काश्यां नानारूपधराः सुराः ।
जनान् सम्मोहयामासुः सिद्धिं कृत्वा विशेषतः ॥ ८ ॥

धमशीला जनाः सर्वे तेषां वाक्यं न चक्रिरे ।
एकवर्षं प्रयत्नं ते कृत्वा शान्तिं प्रलेभिरे ॥ ९ ॥

ततः सदाशिवस्तत्र प्रेरयामास भैरवान् ।
तेपि यत्नैश्च विविधैर्न समर्था बभूविरे ॥ १० ॥

एवं क्रमेण आदित्या वसवश्चर्षयः पराः ।
योगिन्यश्च गणाः सर्वे हतोद्योगास्तथाऽभवन् ॥ ११ ॥

ततो ब्रह्माणमाबोध्य प्रेषयामास शङ्करः ।
दशाश्वमेधाश्च कृतास्तेन शान्तिं जगाम सः ॥ १२ ॥

ततस्तु शङ्करस्तत्र ध्याननिष्ठो बभूव ह ।
चरणे विघ्नराजस्य सर्वाशापूरके परे ॥ १३ ॥

सविघ्नं मां गणाध्यक्ष निर्विघ्नं कुरु सर्वदा ।
दासोऽहं तेऽविमुक्तस्य संरक्ष विरहात्प्रभो ॥ १४ ॥

एवं निश्चितचित्तस्तु वर्षमेकं गजाननम् ।
ध्यानेन तोषयामास शङ्करः कार्यसिद्धये ॥ १५ ॥

दृष्ट्वाऽहङ्कारनिर्मुक्तमत्यन्त शङ्करं प्रभुः ।
दर्शयामास रूपं स्वं योगिध्येयमनुत्तमम् ॥ १६ ॥

सिंहारूढं चतुर्बाहुं पाशाङ्कुशधरं प्रभुम् ।
वरदाभयहस्तं च सिद्धिबुद्धिसमन्वितम् ॥ १७ ॥

रक्तवर्णं सुशोभाढयं गजवक्त्रं महोदरम् ।
विविधैः शेषनाभिं तं भूषणैः सुविराजितम् ॥ १८ ॥

चिन्तामणिधरं पूर्णं तेजोराशिं महाप्रभम् ।
दृष्ट्वा देवं मुदा युक्तः शङ्करः प्रणनाम ह ॥ १९ ॥

ततस्तं पूजयामास तुष्टाव स यथामति ।
देवदेवं गणाध्यक्षं वक्रतुण्डं विधानतः ॥ २० ॥

शिव उवाच ।

नमस्ते वक्रतुण्डाय सर्वसिद्धिप्रदाय च ।
निराकाराय देवाय साकाराय नमो नमः ॥ २१ ॥

नमः सर्वप्रबोधाय नमः सर्वप्रियङ्कर ।
गणानां पतये तुभ्यं गणेशाय नमो नमः ॥ २२ ॥

ब्रह्मणे सृष्टिकर्त्रे ते पालकाय च विष्णवे ।
संहर्त्रे ते हरायैव गुणेशाय नमो नमः ॥ २३ ॥

ब्रह्माकाराय वै तुभ्यं ब्रह्मभूताय ते नमः ।
नमः प्रपञ्चरूपाय प्रपञ्चानां प्रचालक ॥ २४ ॥

अनन्तगुणधाराय ह्यनन्तविभवाय ते ।
अनन्तोदररूपाय हेरम्बाय नमो नमः ॥ २५ ॥

[[११६]]

कारणानां परायैव कारणाय नमो नमः ।
अकारणाय वै तुभ्यं सिंहवाहाय ते नमः ॥ २६ ॥

अहं जीवसमानश्च सञ्जातो नात्र संशयः ।
अविमुक्तं विमुक्तं मे जातं देव दयानिधे ॥ २७ ॥

अतस्त्वां शरणं यातो निर्विघ्नं कुरु मां प्रभो ।
देहि काशीं गणाध्यक्ष अविमुक्ततया च मे ॥ २८ ॥

त्वया पुरा वरो दत्तः स्मरणेन त्वदग्रतः ।
स्थास्यामि पुत्रभावेन तं पालय गजानन ॥ २९ ॥

इत्युक्त्वा पादयोस्तस्य प्रणनाम महेश्वरः ।
तमुत्थाप्य गणाध्यक्ष उवाच प्रहसन्निव ॥ ३० ॥

वक्रतुण्ड उवाच ।

त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् ।
पठते शृण्वते चैव भुक्तिमुक्तिप्रदं शिव ॥ ३१ ॥

अन्यद्यत्प्रार्थितं सर्वं करिष्यामि सदाशिव ।
अविमुक्तं प्रदास्यामि सार्थकं ते च साम्प्रतम् ॥ ३२ ॥

इत्युक्त्वा निर्ममे देहाद्ब्राह्मणं सर्वसुन्दरम् ।
सर्वज्ञं च गुणेशस्य तेजोयुक्तं प्रभाविणम् ॥ ३३ ॥

आज्ञापयच्च तं देवो गच्छ त्वं शिवसिद्धये ।
काश्यां तुं बुद्धिसम्मोहं जनानां कुरु सत्वरम् ॥ ३४ ॥

मोहयित्वा दिवोदासं काशीराज्यं शिवाय च ।
ममाज्ञया देह्यद्य त्वं सर्वपूज्यो भविष्यसि ॥ ३५ ॥

ढुण्ढिं ज्योतिर्विदं त्वां तु वदिष्यन्ति जना द्विजाः ।
त्वदीयवंशगाः सर्वे भविष्यन्ति न संशयः ॥ ३६ ॥

इति श्रुत्वा द्विजो ढुण्ढिं प्रणनाम मुदा युतः ।
ययौ प्रदक्षिणीकृत्य काशीं स गणपं स्मरन् ॥ ३७ ॥

ततो विष्णुं समाहूय तं जगाद गजाननः ।
बौद्धरूपेण विष्णो त्वं काशीं गच्छ मदाज्ञया ॥ ३८ ॥

द्विजेन ढुण्ढिना सर्वं मोहितं नगरं भवेत् ।
कुरु त्वमधुना भ्रष्टं मम वाक्याज्जनार्दन ॥ ३९ ॥

प्रणम्य तं तदा विष्णुर्गणेशं बौद्धरूपधृक् ।
ययौ काशीं महाभागो वक्रतुण्डं हृदि स्मरन् ॥ ४० ॥

तौ यथा गणराजेन कथितं चक्रतुस्तथा ।
मोहयुक्तं पुनर्भ्रष्टं नगरं सर्वमञ्जसा ॥ ४१ ॥

अन्यच्छृणु चरित्रं त्वं विश्वामित्र तपोधन ।
काशीध्यानयुता तत्र संस्थिता गणपस्य तु ॥ ४२ ॥

सहस्रं तत्र वर्षाणां गतमेकं महामुने ।
तस्यास्तपःप्रभावेण सन्तुष्टोऽभूद्गजाननः ॥ ४३ ॥

वरं दातुं समायातः काश्यै मूर्तिधरः प्रभुः ।
सिंहारूढः प्रसन्नात्मा नानाभूषणभूषितः ॥ ४४ ॥

तं दृष्ट्वा सहसोत्थाय काशी परमपावनी ।
पादयोः प्रणनामाथ कर्षिता विह्वला भृशम् ॥ ४५ ॥

पुनरुत्थाय तं देवं पूजयामास भक्तितः ।
तुष्टाव सुस्थिरा भूत्वा निबद्धकरसम्पुटा ॥ ४६ ॥

काश्युवाच ।
नमस्ते गणनाथाय नमस्तेऽनन्तरूपिणे ।
नमस्ते सर्वदात्रै वै मायाधाराय ते नमः ॥ ४७ ॥

गजवक्त्रधरायैव शूर्पकर्णाय ते नमः ।
सर्वभूषाय वै तुभ्यं वक्रतुण्ड नमोऽस्तु ते ॥ ४८ ॥

निराकाराय नित्याय निर्गुणाय गुणात्मने ।
वेदवेद्याय सततं ब्रह्मणे ते नमो नमः ॥ ४९ ॥

ब्रह्मणां ब्रह्मदात्रे च सिंहारूढाय ते नमः ।
सिद्धिबुद्धिपते तुभ्यं नमः सर्वाभयङ्कर ॥ ५० ॥

अनाथाय च नाथाय सर्वेषां पालकाय च ।
भक्तेभ्यः सर्वदात्रे ते विघ्नहर्त्रे नमोऽस्तु ते ॥ ५१ ॥

[[११७]]

विघ्नकर्त्रे ह्यभक्तानां भुक्तिमुक्तिप्रदाय च ।
योगिनां हृदि संस्थाय योगगम्याय ते नमः ॥ ५२ ॥

मनोवाणीविहीनाय शान्तिरूपाय ते नमः ।
शान्तेभ्यः शान्तिदात्रे च गणेशाय नमो नमः ॥ ५३ ॥

किं स्तौमि त्वां गणाध्यक्ष यत्र वेदाः सशास्त्रकाः ।
शान्तिं प्राप्ता महाभागा अतस्त्वां प्रणमामि वै ॥ ५४ ॥

रक्ष रक्ष च दासीं ते विरहेण प्रपीडिताम् ।
अविमुक्ता शिवेनैवं नाम व्यर्थं बभूव मे ॥ ५५ ॥

शिवहीना कृता देव दैवं तु परमाद्भुतम् ।
अतस्ते शरणं प्राप्ता शङ्करं दर्शयस्व माम् ॥ ५६ ॥

इत्युक्त्वा पतिता तस्य पादयुग्मे महामुने ।
तामुत्थाप्य गणाधीशो जगौ मधुरया गिरा ॥ ५७ ॥

गणेश उवाच ।

मा शोकं कुरु कल्याणि शङ्करं दर्शयामि ते ।
अविमुक्तमिदं नाम सार्थकं प्रभविष्यति ॥ ५८ ॥

त्वया कृतमिदं स्तोत्रं वियोगहरणं भवेत् ।
यः पठिष्यति भक्त्या च श्रोष्यते तस्य सुन्दरि ॥ ५९ ॥

यं यमिच्छति भावेन तं तं दास्यामि सर्वगः ।
ब्रह्मभूयकरं स्तोत्रं भविष्यति न संशयः ॥ ६० ॥

इत्युक्त्वा गणनाथश्च तत्रैवान्तरधीयत ।
तमेव सापि ध्यायन्ती स्थिता कालप्रतीक्षिका ॥ ६१ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते काशीशिववरप्रदानं नामैकपञ्चाशत्तमोऽध्यायः ॥