॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
विश्वामित्रस्य भावेन सन्तुष्टो मुनिपुङ्गवः ।
तमुवाच महायोगी याज्ञवल्क्यो महामुनिः ॥ १ ॥
याज्ञवल्क्य उवाच ।
दुःखितं त्वां विदित्वाहमागतो मुनिपुङ्गव ।
न कार्यमपरं किञ्चिज्जानीहि त्वं महामते ॥ २ ॥
वद किं कारणं ब्रह्मन् दुःखस्य तव तापस ।
पश्चात्तन्नाशयिष्यामि युक्त्या ज्ञानोपदेशतः ॥ ३ ॥
विश्वामित्र उवाच ।
तपस्तप्तं मया घोरं ब्रह्मा मे न ददौ वरम् ।
वसिष्ठो मां च राजर्षिं जगाद जनसन्निधौ ॥ ४ ॥
केनोपायेन योगीन्द्र ब्राह्मणोऽहं भवामि च ।
सर्वमान्यो महाभागस्तं करिष्यामि यत्नतः ॥ ५ ॥
ततस्तं मुनिशार्दूलो याज्ञवल्क्य उवाच ह ।
न चिन्तां कुरु राजर्षे ब्रह्मर्षिस्त्वं भविष्यसि ॥ ६ ॥
अभिमानं महाघोरं त्यज त्वं मे सुवाक्यतः ।
मत्सरं त्यज दुष्टं च ततः क्षेमं भविष्यति ॥ ७ ॥
कथां शृणु महारम्यां काशीविश्वेशसंश्रिताम् ।
येन त्वं निर्मलो भूत्वा ब्राह्मणोऽपि भविष्यसि ॥ ८ ॥
काशीविश्वेश्वरेणैव न त्यक्ता प्रलयेऽपि च ।
न वियोगः क्षणं तस्याः काश्याः शम्भोः कदाचन ॥ ९ ॥
तेनाहङ्कारसंयुक्तौ जातौ काशीमहेश्वरौ ।
विघ्नः समभवत्तत्र दारुणः प्रवियोगकृत् ॥ १० ॥
मुद्गल उवाच ।
याज्ञवल्क्यवचः श्रुत्वा हर्षितः कौशिको मुनिः ।
उवाच तं महाभागं प्रेमयुक्तेन चेतसा ॥ ११ ॥
विश्वामित्र उवाच ।
कीदृशं विघ्नरूपं चाविमुक्तस्य शिवस्य यत् ।
समुत्पन्न महाभाग तद्वद त्वं विशेषतः ॥ १२ ॥
याज्ञवल्क्य उवाच ।
षष्टिवर्षाणि पर्जन्यो न ववर्ष महीतले ।
तेन नष्टं जगत्सर्वं भूमिस्थं सचराचरम् ॥ १३ ॥
प्रजाक्षयं ततो दृष्ट्वा ब्रह्मा लोकपितामहः ।
आययौ राजशार्दूलं दिवोदासं तपःस्थितम् ॥ १४ ॥
राज्यं त्यक्त्वा स राजर्षिस्तताप परमं तपः ।
मोक्षार्थं भक्तिभावेन सूर्यवंशसमुद्भवः ॥ १५ ॥
तपसा योगभावेन बभौ सूर्य इवापरः ।
तं ब्रह्मा स्वयमेवेदं वचनं प्रजगाद ह ॥ १६ ॥
ब्रह्मोवाच ।
दिवोदास महाभाग शृणु मे वचनं हितम् ।
काशीराज्यं गृहाण त्वं मया दत्तं महामते ॥ १७ ॥
ब्रह्माणं स उवाचाथ न राज्यं परिपालये ।
मोक्षार्थी वासनाहीनो मोक्षं देहि प्रजापते ॥ १८ ॥
तं पुनःप्रत्युवाचेदं ब्रह्मा लोकहिताय च ।
कुरु राज्यं महाभाग मया दत्तं महामते ॥ १९ ॥
त्वयि राज्ये स्थिते वृष्टिर्भविष्यति महाद्भुता ।
अन्यथा लोकनाशः स्यात्तस्मात् कुरु वचो महत् ॥ २० ॥
[[११३]]
लोकसंरक्षणार्थाय दयायुक्तो महामतिः ।
राज्यं जग्राह काश्याश्च देववर्जितमुत्तमम् ॥ २१ ॥
देवानामखिलं राज्यं सदा स्वर्गेषु वर्तते ।
मनुष्याणां पृथिव्यां वै पाताले नागरक्षसाम् ॥ २२ ॥
अतो देवतया शम्भुं पूजयिष्यामि मानद ।
सर्वैः स्वधर्मे स्थातव्यं मयि राज्यं प्रशासति ॥ २३ ॥
तथेति तमुवाचाथ ब्रह्मा लोकपितामहः ।
काशीराज्यं ददौ तस्मै दिवोदासाय धीमते ॥ २४ ॥
ततो ब्रह्मा ययौ काश्यां शङ्करं प्रणिपत्य सः ।
उवाच तं विशेषज्ञो मन्दरं गच्छ शङ्कर ॥ २५ ॥
मरीचिना तपस्तेपे तस्मै देहि वरं शिव ।
नो चेन्मरिष्यति स वै तस्माद्गच्छ जगद्गुरो ॥ २६ ॥
ब्रह्मणो गिरमाकर्ण्य तेन सार्धं ययौ शिवः ।
देवर्षिगणसंयुक्तो वरार्थं ब्राह्मणस्य च ॥ २७ ॥
तं दृष्ट्वेति वरं ब्रूहि शिवो वचनमब्रवीत् ।
स उवाच शिवं तत्र मुक्तिं देहि सदाशिव ॥ २८ ॥
इत्युक्त्वा तपसो दुःखाज्जहौ प्राणान् महामुनिः ।
प्राप्तः शिवस्य सारूप्यं कैलासं स गतो मुनिः ॥ २९ ॥
एतस्मिन्नन्तरे शम्भुं ब्रह्मोवाच कृताञ्जलिः ।
वस त्वं मन्दरे शम्भो त्यज काशीं महापुरीम् ॥ ३० ॥
अनावृष्टिभवं दुःखं तन्निवृत्यर्थमादरात् ।
राज्यं दत्तं मया देव दिवोदासाय शङ्कर ॥ ३१ ॥
तेनापि कथितं देवराज्यं पृथ्व्यां न चेद्भवेत् ।
तदा राज्यं करिष्यामि नान्यथाऽहं कदाचन ॥ ३२ ॥
मया लोकस्य रक्षार्थं दत्तं राज्यं च तस्य हि ।
क्षमस्व चापराधं मे महादेव नमोऽस्तु ते ॥ ३३ ॥
तथेति शिव ऊचे तं निःश्वस्य परमं प्रभुः ।
पार्वत्या गणसंयुक्त उवास स च मन्दरे ॥ ३४ ॥
अविमुक्तं महाक्षेत्रं दैवेन त्याजितं मम ।
अधुना मुक्तता केन कर्मणा भविता मम ॥ ३५ ॥
न ब्रह्मणो वचो मिथ्या भविष्यति कदाचन ।
अधुना किं करिष्यामि काशीविरहदुःखितः ॥ ३६ ॥
अहं विश्वेश्वरश्वाऽस्मि मदधीनं न किञ्चन ।
विश्वनाथेति नामेदं व्यर्थरूपं न संशयः ॥ ३७ ॥
अखिलप्राणितुल्योऽहं कृतो येन महात्मना ।
शरणं विघ्नराजं तं गच्छामि न च संशयः ॥ ३८ ॥
ममापि विघ्नरूपं यत् समुत्पन्नं महाद्भुतम् ।
अहङ्कारविहीनोऽहं कृतस्तेन महात्मना ॥ ३९ ॥
इत्येवं निश्चयं कृत्वा शिवस्तत्राचले तपः ।
तताप गणपं ध्यात्वा काशीप्राप्त्यर्थमादरात् ॥ ४० ॥
काशी च दुःखसंयुक्ता श्रुत्वा शम्भोर्विनिर्गतिम् ।
तपस्तताप विघ्नेशं ध्यात्वा निश्चलचतेसा ॥ ४१ ॥
अहङ्कारविनिर्मुक्ता काशी दुःखितमानसा ।
शिवप्राप्त्यर्थमतुलं तताप परमं तपः ॥ ४२ ॥
दिवोदासस्तु तद्राज्यमकरोद्धर्मतः स्वयम् ।
ततो वृष्टिः समुत्पन्ना सर्वेषां सुखदायिका ॥ ४३ ॥
सकलं वृष्टियोगेन जगत्स्थावरजङ्गमम् ।
मोदयुक्तं तदा जातं तस्मिन् राज्यं प्रशासति ॥ ४४ ॥
स्वस्वधर्मरताः सर्वे वर्णाश्रमविभागशः ।
पापलेशो न तत्रासीत्तस्मिन् राज्यं प्रशासति ॥ ४५ ॥
[[११४]]
हृष्टपुष्टजनाः सर्वे वृक्षाः पुष्पफलान्विताः ।
घटदुग्धास्तदा गावस्तस्मिन् राज्यं प्रशासति ॥ ४६ ॥
स्वाहास्वधायुता देवाः पितरश्च मुदा युताः ।
यज्ञादयो बभूवुश्च तस्मिन् राज्यं प्रशासति ॥ ४७ ॥
एवं नानाविधैर्भोगैर्युताः सर्वे महामुने ।
दिवोदासः स्वयं राजा नित्ययात्रां चकार ह ॥ ४८ ॥
आदौ ढुण्ढिं पुपूजाऽसौ पश्चाद्विश्वेश्वरं मुने ।
जगदम्बां च काशीं वै मणिकार्णिं ततः परम् ॥ ४९ ॥
भागीरथीं माधवं च जैगीषव्यगुहां ततः ।
कालभैरवमेवं च दण्डपाणिं महाबलम् ॥ ५० ॥
जनैः स मतिमान् राजा कारयामास सर्वदा ।
धर्महीनं जनं हन्तुं दण्डपाणिरिव स्थितः ॥ ५१ ॥
अशीतिवर्षसाहस्रं गतं तत्र महामुने ।
न किञ्चित्स्वल्पपापस्य प्रवेशोऽपि बभूव ह ॥ ५२ ॥
ततो देवा विचारं ते चक्रुः स्वर्गेषु विस्मिताः ।
पृथिव्यां देवराज्यं तु विनष्टं तेन कारितम् ॥ ५३ ॥
अतो वयं किमर्थं च स्थास्यामः पृथिवीतले ।
स्पर्धते नः स राजर्षिश्छलयामस्ततो वयम् ॥ ५४ ॥
तत इन्द्रोऽग्निमाहूय जगाद क्रोधसंयुतः ।
दिवोदासस्य राज्ये ते स्थानं मास्तु बहिस्त्विति ॥ ५५ ॥
इन्द्रस्य वचनं श्रुत्वा वह्निरन्तर्दधे तदा ।
पृथिव्यां वह्निहीनास्ते जनाः सर्वे तमन्वयुः ॥ ५६ ॥
तान् दृष्ट्वा स दिवोदासो वह्निरूपेण संस्थितः ।
पृथिव्यां यत्र कुत्रापि तपो बलसमन्वितः ॥ ५७ ॥
एवं नानाविधैर्भावैर्देवाः सर्वे क्रमेण च ।
गतास्तत्र स्वयं राजा तेषां रूपधरो बभौ ॥ ५८ ॥
वाय्वादिरूपमास्थाय स राजा देवकृत्यवित् ।
पृथिव्यां ये जनाः सर्वे न तं जानन्ति कौशिक ॥ ५९ ॥
एवं बहौ गते काले देवाः सर्वे विसिस्मिरे ।
देवकृत्यं कृतं सर्वं राज्ञाप्याश्चर्यमुत्तमम् ॥ ६० ॥
ततो देवगणाः सर्वे ब्रह्माणं शरणं ययुः ।
दिवोदासस्य मोहार्थं पृथ्वी त्यक्ता च निर्जरैः ॥ ६१ ॥
स तपोबलयुक्तस्तु देवानां कृत्यमादरात् ।
स्वयं देवस्वरूपैस्तैश्चकार परमाद्भुतम् ॥ ६२ ॥
वयं विहारहीनाश्च किं कुर्मो वद भो विमो ।
तेषां वचनमाकर्ण्य ब्रह्मा प्रोवाच तांस्तदा ॥ ३३ ॥
भवद्भिस्तत्र गन्तव्यं प्रार्थनीयो नराधिपः ।
स दास्यति स्वकं स्थानं देवानां नात्र संशयः ॥ ६४ ॥
ततो देवा दिवोदासमाययुश्चेन्द्रमुख्यकाः ।
तान् दृष्ट्वा सहसोत्थाय ननाम विनयान्वितः ॥ ६५ ॥
तमुत्थाप्य ततो देवास्तुष्टुवुस्तं नराधिपम् ।
सोऽपि देवान् प्रतुष्टाव स्वपदानि ददौ ततः ॥ ६६ ॥
स्वयं नरस्वरूपेण चैकदेहेन संस्थितः ।
अग्न्यादयो निजस्थाने देवाः सर्वे सुसंस्थिताः ॥ ६७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते दिवोदासमहिमवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥