४९ याज्ञवल्क्यविश्वामित्रसमागमः

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

एकदा राजपत्नी सा वनं शोकसमाकुला ।
आययौ दर्शनार्थं तां पुत्रीं वस्त्रधनान्विता ॥ १ ॥

ऋचीकस्याश्रमं तत्र न ददर्श रथे स्थिता ।
नगरं हेमशोभाढ्यं दृष्ट्वा सा विस्मिताऽभवत् ॥ २ ॥

कस्येदं नगरं दिव्यं देवैर्वा निर्मितं भवेत् ।
क्व गतो मुनिशार्दूलो जामाता मे स भार्गवः ॥ ३ ॥

एवं शोकसमायुक्ता विचारमकरोद् हृदि ।
ददर्श पुरुषं कञ्चित्तं पप्रच्छ भयातुरा ॥ ४ ॥

कस्येदं नगरं ब्रूहि स जगाद च तां मुने ।
ऋचीकस्य पुरं देवि वयं तस्य प्रमार्जकाः ॥ ५ ॥

पुनस्तं विस्मिता राज्ञी जगाद वद साम्प्रतम् ।
ऋषिपत्नीं च मे पुत्रीमागतां जननीं पुरे ॥ ६ ॥

तथेति पुरुषो गत्वा कथयामास तां ततः ।
सा स्वमातरमागम्य निनाय स्वगृहं पुरे ॥ ७ ॥

जामातरं श्रिया युक्तं दृष्ट्वा विस्मितमानसा ।
उवाच स्वसुतां राज्ञी पुत्रार्थं भावसंयुता ॥ ८ ॥

मम पुत्रार्थमेवं च तव पुत्रार्थमादरात् ।
याचस्व स्वामिनं पुत्रि समर्थं मुनिपुङ्गवम् ॥ ९ ॥

ऋषिपत्नी पतिं तत्र याचयामास तत्तथा ।
द्वौ चरू ह्यग्निकुण्डे स चकार सुतलिप्सया ॥ १० ॥

द्विविधं स पुरोडाशं ब्रह्मक्षत्रप्रकाशकम् ।
अतुलं तेज आवाह्य ददौ पत्नीकरे मुनिः ॥ ११ ॥

जगाद तां मुनिश्रेष्ठो भक्षितव्यस्त्वया ह्ययम् ।
तव मात्रा तथाऽन्यो वै भक्षितव्यः शुचिस्मिते ॥ १२ ॥

तदा पुत्रसमायुक्ते युवां किल भविष्यथः ।
एवमुक्त्वा मुनिस्तीर्थे माध्याह्वार्थं ययौ किल ॥ १३ ॥

पुत्र्या मात्रे स वृत्तान्तः कथितः साऽब्रवीत् सुताम् ।
त्वदीयो भक्षितव्यो मे मदीयं त्वं प्रभुङ्क्ष्व वै ॥ १४ ॥

तथा पुत्र्या कृतं सर्वं गता माता स्वमालयम् ।
राज्ञी गर्भवती जाता ब्राह्मणी च प्रजापते ॥ १५ ॥

एकदा मुनिना दृष्टा स्त्र्युग्रतेजोधरा बभौ ।
उवाच भार्गवः पत्नीं किं कृतः क्षात्र आदरः ॥ १६ ॥

सोवाच भयभीता तं व्यतिक्रमममुं चरोः ।
तामुवाच मुनिस्तत्र विस्मितो मानसेऽभवत् ॥ १७ ॥

तव भ्राता तपस्वी च भविष्यति न संशयः ।
तव पुत्रो धनुर्धारी दारुणः प्रभविष्यति ॥ १८ ॥

सोवाच स्वामिनं भीता द्विजं पुत्रं तु मे प्रभो ।
देहि नोचेज्जीवघातं करिष्यामि न संशयः ॥ १९ ॥

ततो मुनिः स्वयं प्राह पुत्रपुत्रो भवेत्तथा ।
गर्भं विज्ञाप्य विष्णुं वै तपसा स तथाऽकरोत् ॥ २० ॥

ततस्तस्याऽभवत्पुत्रो जमदग्निर्महातपाः ।
तस्य पुत्रत्वमापेदे रामः शस्त्रभृतांवरः ॥ २१ ॥

नवमे गाधिपत्नी सा मासे पुत्रं तपोनिधिम् ।
विश्वामित्रं महाभागं सुषुवे प्रेमविह्वला ॥ २२ ॥

स तु यौवनमापन्नं संस्थाप्य वनमादरात् ।
गाधिर्ययौ स्वराज्ये च तपसे कृतनिश्चयः ॥ २३ ॥

तद्राज्यमकरोत् सर्व विश्वामित्रः प्रतापवान् ।
एकदा मृगयार्थं वै वनेषु प्रजगाम ह ॥ २४ ॥

मृगयित्वामृगान् राजा क्षुधितस्तृषितोऽभवत् ।
भ्रमन् समाययौ सोऽपि वसिष्ठाश्रममुत्तमम् ॥ २५ ॥

प्रविश्य तत्र तं राजा ननाम भक्तिसंयुतः ।
ससैन्यो भोजितस्तेन कामधेनुबलेन सः ॥ २६ ॥

[[१११]]

भुक्त्वा तं प्रार्थयामास नन्दिनीं देहि मे मुने ।
विश्वामित्रस्ततस्तस्मै न ददौ तां महामुनिः ॥ २७ ॥

ततो राजा बलान्नेतुं दूतानाज्ञापयत् खलः ।
धेन्वा ते नाशिताः सर्वे ततः स्वयमुपाययौ ॥ २८ ॥

कशाघातैश्च तां धेनुं ताडयामासुराग्रहात् ।
केचित्ततो महत्सैन्यं निर्ममे तत्र धेनुका ॥ २९ ॥

ततो युद्धमभूद्धोरं सैन्ययोरुभयोर्महत् ।
नष्टं सैन्यं च सम्पूर्णं विश्वामित्रस्य तत्क्षणात् ॥ ३० ॥

सोऽपि भग्नो गृहं गत्वा राज्यं न्यस्य ययौ वनम् ।
प्रधानेषु तपस्तेपे शङ्करस्य महात्मनः ॥ ३१ ॥

शतवर्षेषु पूर्णेषु प्रसन्नश्च ददौ शिवः ।
अस्त्रविद्यां सुसम्पूर्णां तां प्राप्य स्वगृहं ययौ ॥ ३२ ॥

पुनर्वसिष्ठमागम्य शस्त्रास्त्रैर्बलसंयुतः ।
विश्वामित्रो ममार्दासावग्न्यस्त्रेण तदाश्रमम् ॥ ३३ ॥

वसिष्ठस्तं ततस्तत्र योधयामास शौनक ।
ब्रह्मदण्डधरः श्रीमान् सर्वास्त्राणि व्यमर्दयत् ॥ ३४ ॥

ब्रह्मदण्डेन तस्यापि कृतस्तेन पराजयः ।
विश्वामित्रः पलायिष्ट भयभीतः समन्ततः ॥ ३५ ॥

ततः सुसान्त्वितो विप्रो वसिष्ठो ब्राह्मणैस्तदा ।
स्वाश्रमं प्रविवेशाथ विश्वामित्रो गृहं ययौ ॥ ३६ ॥

अहो ब्राह्मं बलं दीप्तं क्षात्रं तुच्छं विशेषतः ।
ब्रह्मदण्डेन सर्वाणि ममास्त्राणि हतानि च ॥ ३७ ॥

एवं स निश्चयं कृत्वा राज्यं त्यक्त्वा ययौ वनम् ।
ब्राह्मणत्वप्रसिद्धयर्थं तताप परमं तपः ॥ ३८ ॥

गायत्रीमन्त्रजाप्येन पुरश्चरणमार्गतः ।
निराहारेण राजर्षिस्तापयामास विष्टपम् ॥ ३९ ॥

एवं दशसहस्राणि वर्षाणि जपतो ययुः ।
ततो जगाद तं ब्रह्मा वरं ब्रूहि महामते ॥ ४० ॥

स वव्रे ब्राह्मणत्वं मे देहि देव नमोऽस्तु ते ।
तदा ब्रह्मा पुनः प्राह तपस्वेति च गाधिजम् ॥ ४१ ॥

दशवारं विधौ तत्र समागत्य च तं मुनिम् ।
अन्यं वरं ददाने स न जग्राह स बुद्धिमान् ॥ ४२ ॥

तपःप्रभावतस्तस्य व्याप्तमासीद्दिगन्तरम् ।
देवाद्या अभवन्सर्वे तदाज्ञावशवर्तिनः ॥ ४३ ॥

स्वप्रतापेन राजर्षिर्ब्राह्मणान् प्राह गाधिजः ।
अहं ब्रह्मर्षिमुख्यो वै जातस्तु तपसो बलात् ॥ ४४ ॥

भयभीताश्च ते सर्वे तथेत्यूचुः प्रणम्य तम् ।
वसिष्ठो मुनिवर्यः स तं राजर्षिं जगाद ह ॥ ४५ ॥

विश्वामित्रः सङ्क्षुभितो वसिष्ठहननाय च ।
नानायत्नांश्चकारापि न ममार महामुनिः ॥ ४६ ॥

ततोऽतिदुःखितो भूत्वा संस्थितः स्वाश्रमे मुनिः ।
विश्वामित्रो महाभागस्तपस्तेजोविराजितः ॥ ४७ ॥

तमाययौ महातेजा याज्ञवल्क्यः प्रतापवान् ।
ब्रह्मणोऽङ्गसमुत्पन्नः साक्षाद्योगीश्वरो महान् ॥ ४८ ॥

तं ननाम यथान्यायं पूजयामास भक्तितः ।
विश्वामित्रो महातेजा उवाच प्रकृताञ्जलिः ॥ ४९ ॥

अद्य मे सफलं जन्म तपःस्वाध्याय एव च ।
येन ते दर्शनं जातं ब्रह्मभूतस्य मानद ॥ ५० ॥

[[११२]]

किमर्थमागतो ब्रह्मस्तद्वदस्व महामुने ।
तवाज्ञां कर्तुमिच्छामि दासोऽहं शाधि मां प्रभो ॥ ५१ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते याज्ञवल्क्यविश्वामित्रसमागमो नामैकोनपञ्चाशत्तमोऽध्यायः ॥