४८ ऋचीकगृहस्थाश्रमवर्णनम्

॥ श्रीगणेशाय नमः ॥

[[१०८]]

शौनक उवाच ।

विश्वास-प्रस्तुतिः

त्वया प्रकथितं सूत
वक्रतुण्डस्य धीमतः ।
मत्सरासुर-नाशाख्यं
चरित्रं सर्व-सिद्धि-दम् ॥ १ ॥

मूलम्

त्वया प्रकथितं सूत वक्रतुण्डस्य धीमतः ।
मत्सरासुरनाशाख्यं चरित्रं सर्वसिद्धिदम् ॥ १ ॥

विश्वास-प्रस्तुतिः

स स्थितः कुत्र तत् क्षेत्र-
स्थानं ब्रूहि महात्मनः ।
आदौ तस्यावतारस्य
तिथिम् उत्सव-वर्धिनीम् ॥ २ ॥

मूलम्

स स्थितः कुत्र तत् क्षेत्रस्थानं ब्रूहि महात्मनः ।
आदौ तस्यावतारस्य तिथिमुत्सववर्धिनीम् ॥ २ ॥

सूत उवाच ।

विश्वास-प्रस्तुतिः

प्राची-दिग्-अन्त-संस्थाने
स्थापितो ऽसौ महर्षिभिः ।
देवैश् च गण-संयुक्तैर्
महोत्सव-परायणैः ॥ ३ ॥

मूलम्

प्राचीदिगन्तसंस्थाने स्थापितोऽसौ महर्षिभिः ।
देवैश्च गणसंयुक्तैर्महोत्सवपरायणैः ॥ ३ ॥

विश्वास-प्रस्तुतिः

भाद्र-शुक्ल-चतुर्थ्यां वै
प्रकटोऽभूत् स देवराट् ।
वक्र-तुण्डः प्रसन्नात्मा
सा तिथिः परमा मता ॥ ४ ॥

मूलम्

भाद्रशुक्लचतुर्थ्यां वै प्रकटोऽभूत्स देवराट् ।
वक्रतुण्डः प्रसन्नात्मा सा तिथिः परमा मता ॥ ४ ॥

विश्वास-प्रस्तुतिः

मध्याह्न-समये तस्य
पूजनं सुख-दायकम् ।
अपार-सिद्धिदं प्रोक्तम्,
आद्य्-अन्ते स्वल्प-सिद्धि-दम् ॥ ५ ॥

मूलम्

मध्याह्नसमये तस्य पूजनं सुखदायकम् ।
अपारसिद्धिदं प्रोक्तमाद्यन्ते स्वल्पसिद्धिदम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

द्वीपे द्वीपे च खण्डेषु
स्वस्व-पूर्व-दिगन्तरे ।
प्रतिमा वक्रतुण्डस्य स्थापिता मुनिभिःपुरा ॥ ६ ॥

मूलम्

द्वीपे द्वीपे च खण्डेषु
स्व-स्व-पूर्व-दिग्-अन्तरे ।
प्रतिमा वक्रतुण्डस्य
स्थापिता मुनिभिः पुरा ॥ ६ ॥

विश्वास-प्रस्तुतिः

तत्र क्षेत्रं समाख्यातं
दश-योजन-मात्रकम् ।
चतुर्-अस्रं महा-पुण्यं
भुक्ति-मुक्ति-प्रदं परम् ॥ ७ ॥

मूलम्

तत्र क्षेत्रं समाख्यातं दशयोजनमात्रकम् ।
चतुरस्रं महापुण्यं भुक्तिमुक्तिप्रदं परम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

मध्ये स संस्थितो देवो
वक्रतुण्डो गणेश्वरः ।
वामाङ्गे सिद्धिर् आद्या सा
बुद्धिर् वै दक्षिणाङ्गके ॥ ८ ॥

मूलम्

मध्ये स संस्थितो देवो वक्रतुण्डो गणेश्वरः ।
वामाङ्गे सिद्धिराद्या सा बुद्धिर्वै दक्षिणाङ्गके ॥ ८ ॥

विश्वास-प्रस्तुतिः

सम्मुखे सिंहरूपं च वाहनं तस्य शोभनम् ।
अष्टदिक्षु स्थितास्तस्य सिद्धयोऽष्टौ च शौनक ॥ ९ ॥

मूलम्

सम्मुखे सिंह-रूपं च
वाहनं तस्य शोभनम् ।
अष्ट-दिक्षु स्थितास् तस्य
सिद्धयो ऽष्टौ च शौनक ॥ ९ ॥

विश्वास-प्रस्तुतिः

गणा अष्टौ तथा ज्ञेयाश्
चतुर्दिक्षु क्रमेण ते ।
शिवो विष्णू रविः शक्तिर्
भक्ति-युक्ताः स्थिता इमे ॥ १० ॥

मूलम्

गणा अष्टौ तथा ज्ञेयाश्चतुर्दिक्षु क्रमेण ते ।
शिवो विष्णू रविः शक्तिर्भक्तियुक्ताः स्थिता इमे ॥ १० ॥

विश्वास-प्रस्तुतिः

ब्रह्माद्या देवताः सर्वास्
तत्-पश्चात् पूर्वतः स्थिताः ।
गङ्गाद्याः सरितः सर्वा
दक्षिणे संस्थिताः प्रभो ॥ ११ ॥

मूलम्

ब्रह्माद्या देवताः सर्वास्तत्पश्चात् पूर्वतः स्थिताः ।
गङ्गाद्याः सरितः सर्वा दक्षिणे संस्थिताः प्रभो ॥ ११ ॥

विश्वास-प्रस्तुतिः

क्षेत्राणि काशिकादीनि
पश्चिमे संस्थितानि च ।
वसिष्ठाद्या मुनि-श्रेष्ठाः
संस्थितास्तत्र चोत्तरे ॥ १२ ॥

मूलम्

क्षेत्राणि काशिकादीनि पश्चिमे संस्थितानि च ।
वसिष्ठाद्या मुनिश्रेष्ठाः संस्थितास्तत्र चोत्तरे ॥ १२ ॥

विश्वास-प्रस्तुतिः

शेषाद्या नाग-भूपाश् च
गन्धर्वाः पर्वतास् तथा ।
सिद्धा अप्सरसश् चैव
विद्याध्राः किन्नरा गणाः ॥ १३ ॥

मूलम्

शेषाद्या नागभूपाश्च गन्धर्वाः पर्वतास्तथा ।
सिद्धा अप्सरसश्चैव विद्याध्राः किन्नरा गणाः ॥ १३ ॥

विश्वास-प्रस्तुतिः

नाना-जातिषु ये श्रेष्ठा
अभवंस् तत्र संस्थिताः
न वक्तुं शक्यते स्वामिन्
मया वर्ष-शतैर् अपि ॥ १४ ॥

मूलम्

नानाजातिषु ये श्रेष्ठा अभवंस्तत्र संस्थिताः ।
न वक्तुं शक्यते स्वामिन् मया वर्षशतैरपि ॥ १४ ॥

विश्वास-प्रस्तुतिः

सेवार्थं वक्र-तुण्डस्य
लालसा-धारिणः प्रभोः ।
हृष्टाः प्रमुदितास् तत्र
परस्-पर-हिते रताः ॥ १५ ॥

मूलम्

सेवार्थं वक्रतुण्डस्य लालसाधारिणः प्रभोः ।
हृष्टाः प्रमुदितास्तत्र परस्परहिते रताः ॥ १५ ॥

विश्वास-प्रस्तुतिः

वक्र-तुण्ड-चरित्राणि
कथयन्ति परस्परम् ।
हृष्ट-रोमाण एवं ते
भवन्तो भावतः पुनः ॥ १६ ॥

मूलम्

वक्रतुण्डचरित्राणि कथयन्ति परस्परम् ।
हृष्टरोमाण एवं ते भवन्तो भावतः पुनः ॥ १६ ॥

विश्वास-प्रस्तुतिः

समुद्रे स्नान-कर्तारस्
तत्र तीर्थानि चक्रिरे
स्व-स्व-नाम्नाङ्कितान्य् एव
स्वल्प-देह-धरा मुने ॥ १७ ॥

मूलम्

समुद्रे स्नानकर्तारस्तत्र तीर्थानि चक्रिरे ।
स्वस्वनाम्नाङ्कितान्येव स्वल्पदेहधरा मुने ॥ १७ ॥

विश्वास-प्रस्तुतिः

गणेश-तीर्थं तत्रैव
वक्रतुण्डस्य हर्षदम् ।
कृत-कृत्या भवन्त्य् अत्र
स्नानमात्रेण जन्तवः ॥ १८ ॥

मूलम्

गणेशतीर्थं तत्रैव वक्रतुण्डस्य हर्षदम् ।
कृतकृत्या भवन्त्यत्र स्नानमात्रेण जन्तवः ॥ १८ ॥

विश्वास-प्रस्तुतिः

यात्रामात्रेण तत्रैव
जन ईप्सितम् आप्नुयात्
क्षेत्रे मरणतो जन्तुर्
ब्रह्म-भूतश् च जायते ॥ १९ ॥

मूलम्

यात्रामात्रेण तत्रैव जन ईप्सितमाप्नुयात् ।
क्षेत्रे मरणतो जन्तुर्ब्रह्मभूतश्च जायते ॥ १९ ॥

विश्वास-प्रस्तुतिः

दूरे स्थित्वा नरो यस्तु
स्मरणं प्रकरोति चेत् ।
तस्यापि शुक्ल-गत्या सा
मुक्तिर् भवति शाश्वती ॥ २० ॥

मूलम्

दूरे स्थित्वा नरो यस्तु स्मरणं प्रकरोति चेत् ।
तस्यापि शुक्लगत्या सा मुक्तिर्भवति शाश्वती ॥ २० ॥

विश्वास-प्रस्तुतिः

वक्रतुण्डस्य ये भक्ता
यत्र कुत्र स्थिता मुने ।
ब्रह्मभूता न सन्देहः
पावना दर्शनान् नृणाम् ॥ २१ ॥

मूलम्

वक्रतुण्डस्य ये भक्ता यत्र कुत्र स्थिता मुने ।
ब्रह्मभूता न सन्देहः पावना दर्शनान्नृणाम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

सङ्क्षेपेण मया तस्य
स्थानं ते कथितं मुने ।
विस्तरेण न शेषोऽपि
ब्रह्म-विष्णु-महेश्वराः ॥ २२ ॥

मूलम्

सङ्क्षेपेण मया तस्य स्थानं ते कथितं मुने ।
विस्तरेण न शेषोऽपि ब्रह्मविष्णुमहेश्वराः ॥ २२ ॥

विश्वास-प्रस्तुतिः

वेदाः सस्मृतयः सर्वे
स्कन्दो योगिन एव च ।
अयुतायुत-वर्षैस् ते
कथितुं न क्षमाः कदा ॥ २३ ॥

मूलम्

वेदाः सस्मृतयः सर्वे स्कन्दो योगिन एव च ।
अयुतायुतवर्षैस्ते कथितुं न क्षमाः कदा ॥ २३ ॥

विश्वास-प्रस्तुतिः

मुद्गलेन यथा प्रोक्तं
दक्षाग्रे तन् मया तथा ।
कथितं भावयुक्तेन
किम् अन्यच् छ्रोतुम् इच्छसि ॥ २४ ॥

मूलम्

मुद्गलेन यथा प्रोक्तं दक्षाग्रे तन्मया तथा ।
कथितं भावयुक्तेन किमन्यच्छ्रोतुमिच्छसि ॥ २४ ॥

शौनक उवाच ।

विश्वास-प्रस्तुतिः

सूत सूत महाभाग धन्यं क्षेत्रसमुद्भवम् ।
माहात्म्यं श्रुतमस्माभिर्ब्रह्मसायुज्यदायकम् ॥ २५ ॥

मूलम्

सूत सूत महाभाग धन्यं क्षेत्रसमुद्भवम् ।
माहात्म्यं श्रुतमस्माभिर्ब्रह्मसायुज्यदायकम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

अधुना ब्रूहि धर्मज्ञ यद्दक्षेण च संश्रुतम् ।
मुद्गलात्तेन कथितमग्रे यत् कीदृशं च तत् ॥ २६ ॥

मूलम्

अधुना ब्रूहि धर्मज्ञ यद्दक्षेण च संश्रुतम् ।
मुद्गलात्तेन कथितमग्रे यत् कीदृशं च तत् ॥ २६ ॥

[[१०९]]

सूत उवाच ।

विश्वास-प्रस्तुतिः

क्षेत्रस्य चरितं श्रुत्वा दक्षो हर्षसमन्वितः ।
उवाच मुद्गलं विप्रं भक्तिनम्रात्मकन्धरः ॥ २७ ॥

मूलम्

क्षेत्रस्य चरितं श्रुत्वा दक्षो हर्षसमन्वितः ।
उवाच मुद्गलं विप्रं भक्तिनम्रात्मकन्धरः ॥ २७ ॥

दक्ष उवाच ।

विश्वास-प्रस्तुतिः

ढुण्ढिराजावतारस्य चरितं वद विस्तरात् ।
वक्रतुण्डः स्वयं साक्षात् कथं शङ्करदेहजः ॥ २८ ॥

मूलम्

ढुण्ढिराजावतारस्य चरितं वद विस्तरात् ।
वक्रतुण्डः स्वयं साक्षात् कथं शङ्करदेहजः ॥ २८ ॥

मुद्गल उवाच ।

विश्वास-प्रस्तुतिः

शृणु दक्ष महाभाग कथयामि पुरातनम् ।
इतिहासं गणेशस्य गुणयुक्तं महाद्भुतम् ॥ २९ ॥

मूलम्

शृणु दक्ष महाभाग कथयामि पुरातनम् ।
इतिहासं गणेशस्य गुणयुक्तं महाद्भुतम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

याज्ञवल्क्यमुनीन्द्रेण कथितं कौशिकाय यत् ।
तदहं सम्प्रवक्ष्यामि ब्राह्मणत्वप्रकाशकम् ॥ ३० ॥

मूलम्

याज्ञवल्क्यमुनीन्द्रेण कथितं कौशिकाय यत् ।
तदहं सम्प्रवक्ष्यामि ब्राह्मणत्वप्रकाशकम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

भार्गवो मुनिमुख्यो य ऋचीकस्तपसि स्थितः ।
बहुकाले व्यतिक्रान्ते तपसा जीर्णतां ययौ ॥ ३१ ॥

मूलम्

भार्गवो मुनिमुख्यो य ऋचीकस्तपसि स्थितः ।
बहुकाले व्यतिक्रान्ते तपसा जीर्णतां ययौ ॥ ३१ ॥

विश्वास-प्रस्तुतिः

वृद्धत्वं परिपूर्णं च प्राप्तं तस्य महात्मनः ।
वनेषु मृगयूथानि स पश्यन् विस्मितोऽभवत् ॥ ३२ ॥

मूलम्

वृद्धत्वं परिपूर्णं च प्राप्तं तस्य महात्मनः ।
वनेषु मृगयूथानि स पश्यन् विस्मितोऽभवत् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

मृगीसंसक्तचित्तश्च मृगः स्वाधीनतां गतः ।
पुत्रपौत्रादिसंयुक्तो बभ्राम वनगोचरः ॥ ३३ ॥

मूलम्

मृगीसंसक्तचित्तश्च मृगः स्वाधीनतां गतः ।
पुत्रपौत्रादिसंयुक्तो बभ्राम वनगोचरः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

एकैकाश्रितचित्तास्ते क्रीडां चक्रुः परस्परम् ।
दृष्ट्वा भृगुवरस्तत्र सकामः सम्बभूव ह ॥ ३४ ॥

मूलम्

एकैकाश्रितचित्तास्ते क्रीडां चक्रुः परस्परम् ।
दृष्ट्वा भृगुवरस्तत्र सकामः सम्बभूव ह ॥ ३४ ॥

विश्वास-प्रस्तुतिः

उवाच स्वयमेवेदं धन्यं गार्हस्थ्यमेव च ।
इत्थं विचार्य विप्रस्तु ययौ गाधिं नराधिपम् ॥ ३५ ॥

मूलम्

उवाच स्वयमेवेदं धन्यं गार्हस्थ्यमेव च ।
इत्थं विचार्य विप्रस्तु ययौ गाधिं नराधिपम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

स दृष्ट्वा सहसोत्थाय मुनिं गाधिरपूजयत् ।
भुक्त्वाऽयाचत तत्कन्यां भार्यार्थं नृपसत्तमम् ॥ ३६ ॥

मूलम्

स दृष्ट्वा सहसोत्थाय मुनिं गाधिरपूजयत् ।
भुक्त्वाऽयाचत तत्कन्यां भार्यार्थं नृपसत्तमम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

राजा वृद्धं समालोक्य तं जगाद महामुनिम् ।
श्यामकर्णयुताश्वानां सहस्रं देहि मे मुने ॥ ३७ ॥

मूलम्

राजा वृद्धं समालोक्य तं जगाद महामुनिम् ।
श्यामकर्णयुताश्वानां सहस्रं देहि मे मुने ॥ ३७ ॥

विश्वास-प्रस्तुतिः

शुल्कं ग्राह्यं मया चैवं निश्चयः प्राक्कृतो मुने ।
अतस्त्वां प्रार्थये विप्र पश्चात्कन्यां ददामि ते ॥ ३८ ॥

मूलम्

शुल्कं ग्राह्यं मया चैवं निश्चयः प्राक्कृतो मुने ।
अतस्त्वां प्रार्थये विप्र पश्चात्कन्यां ददामि ते ॥ ३८ ॥

विश्वास-प्रस्तुतिः

श्रुत्वा मुनिर्गतः सद्यो वरुणस्य गृहं प्रति ।
गृहीत्वाऽश्वसहस्रं च तस्मात्तं प्रययौ ददौ ॥ ३९ ॥

मूलम्

श्रुत्वा मुनिर्गतः सद्यो वरुणस्य गृहं प्रति ।
गृहीत्वाऽश्वसहस्रं च तस्मात्तं प्रययौ ददौ ॥ ३९ ॥

विश्वास-प्रस्तुतिः

राजा कन्यां ददौ तस्मै भार्गवाय महात्मने ।
विधिवद्भयभीतः स तां प्रगृह्य ययौ वनम् ॥ ४० ॥

मूलम्

राजा कन्यां ददौ तस्मै भार्गवाय महात्मने ।
विधिवद्भयभीतः स तां प्रगृह्य ययौ वनम् ॥ ४० ॥

विश्वास-प्रस्तुतिः

राजपत्नी सुतां प्राह त्वदीयं भाग्यमीदृशम् ।
अस्माभिः किं प्रकर्तव्यं वनवासं सुते कुरु ॥ ४१ ॥

मूलम्

राजपत्नी सुतां प्राह त्वदीयं भाग्यमीदृशम् ।
अस्माभिः किं प्रकर्तव्यं वनवासं सुते कुरु ॥ ४१ ॥

विश्वास-प्रस्तुतिः

विलप्य द्रव्यवस्त्रादीन् दत्वा पुत्रीकरे तदा ।
स्वगेहं सा जगामापि वने प्रस्थाप्य तां मुने ॥ ४२ ॥

मूलम्

विलप्य द्रव्यवस्त्रादीन् दत्वा पुत्रीकरे तदा ।
स्वगेहं सा जगामापि वने प्रस्थाप्य तां मुने ॥ ४२ ॥

विश्वास-प्रस्तुतिः

राजपुत्री महाभागा ऋचीकं प्राप्य संस्थिता ।
सेवामनलसत्वेन कृत्वा तद्भक्तितत्परा ॥ ४३ ॥

मूलम्

राजपुत्री महाभागा ऋचीकं प्राप्य संस्थिता ।
सेवामनलसत्वेन कृत्वा तद्भक्तितत्परा ॥ ४३ ॥

विश्वास-प्रस्तुतिः

तां दृष्ट्वा शीलसंयुक्तां प्रसन्नो मुनिसत्तमः ।
तदर्थं तपसा स्वेन निर्ममे नगरं वने ॥ ४४ ॥

मूलम्

तां दृष्ट्वा शीलसंयुक्तां प्रसन्नो मुनिसत्तमः ।
तदर्थं तपसा स्वेन निर्ममे नगरं वने ॥ ४४ ॥

विश्वास-प्रस्तुतिः

चातुर्वर्ण्यसमायुक्तं हेमरत्नविभूषितम् ।
दासीदासादिसंयुक्तं नानाविभवदं परम् ॥ ४५ ॥

मूलम्

चातुर्वर्ण्यसमायुक्तं हेमरत्नविभूषितम् ।
दासीदासादिसंयुक्तं नानाविभवदं परम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

स्वयं तपःप्रभावेण यौवनं रूपमादधे ।
रेमे तया यथान्यायं देवेन्द्रेण समः प्रभो ॥ ४६ ॥

मूलम्

स्वयं तपःप्रभावेण यौवनं रूपमादधे ।
रेमे तया यथान्यायं देवेन्द्रेण समः प्रभो ॥ ४६ ॥

विश्वास-प्रस्तुतिः

निःस्पृहो भोगरागेषु दृष्ट्वा स्त्रीसुखमल्पकम् ।
मानसे धारयामास व्यर्थं पत्नीभवं सुखम् ॥ ४७ ॥

मूलम्

निःस्पृहो भोगरागेषु दृष्ट्वा स्त्रीसुखमल्पकम् ।
मानसे धारयामास व्यर्थं पत्नीभवं सुखम् ॥ ४७ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते ऋचीकगृहस्थाश्रमवर्णनं नाम अष्टचत्वारिंशोऽध्यायः ॥

[[११०]]