४७ वामनचरितम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

वरं लब्ध्वा स सम्पूज्य वक्रतुण्डं च वामनः ।
कश्यपं प्रणतो भूत्वा ययौ यज्ञं बलेरपि ॥ १ ॥

तं दृष्ट्वा सूर्यसङ्काशं वेदाध्ययनसंयुतम् ।
ह्रस्वाकृति मुनिश्रेष्ठं विस्मिता मुनयोऽभवन् ॥ २ ॥

बलिरुत्थाय तं नत्वा पूजयामास भक्तितः ।
पप्रच्छ किं ददे तुभ्यं मां तद् ब्रूहि महामुने ॥ ३ ॥

ततः शुक्रेण सर्वं तज्ज्ञातं तस्य प्रयोजनम् ।
गणेशपूजनं चादौ न कृतं दुष्टबुद्धिना ॥ ४ ॥

तेन विघ्नस्वरूपं च विष्णुरूपेण संस्थितम् ।
अधुना यादृशं भावि तथा भवतु तादृशम् ॥ ५ ॥

बलेर्वचनमाकर्ण्य वामनः प्राह तं ततः ।
देहि त्रिपदरूपां मे भूमिं दैत्यपते किल ॥ ६ ॥

ददौ बलिर्महाभक्त्या तां भूमिं सादरो यथा ।
तथा वामनदेवोऽपि गणेशं मनसाऽस्मरत् ॥ ७ ॥

विराड्रूपं ततो धृत्वा पादं चिक्षेप देवपः ।
एकेन सकलं स्वर्गं पादेनावृत्य सत्वरः ॥ ८ ॥

द्वितीयेन स भूमिं वै सर्वामावृत्य वामनः ।
उवाच दैत्यपं देहि तृतीयस्य स्थलं प्रभो ॥ ९ ॥

बलिर्विस्मयमापन्नो भ्रान्तः शोकाकुलो भवत् ।
किञ्चिन्नोवाच तं तत्र किं ददामीति विह्वलः ॥ १० ॥

ततो विष्णुः प्रकोपेन तं बबन्ध महासुरम् ।
विप्रस्य त्वमृणी जातो नरकं गच्छ दैत्यप ॥ ११ ॥

विष्णोर्वचनमाकर्ण्य बलिर्वै दुःखितोऽभवत् ।
नरकं विष्णुभक्ताय दत्ते वै विष्णुरद्भुतम् ॥ १२ ॥

अहो मोहो महान्मेऽभूद्येन वेदविवर्जितम् ।
कृतं कर्म विना पूज्यं गणेशं विघ्ननायकम् ॥ १३ ॥

तस्येदं हि फलं प्राप्तं विष्णुभक्तस्य विष्णुतः ।
अतस्तं शरणं यामि स रक्षिष्यति मां प्रभुः ॥ १४ ॥

एवं विचार्य तस्यैव मनसि ध्यानमादधे ।
ढुण्ढिं तुष्टाव दैत्येशः सर्वभावसमन्वितः ॥ १५ ॥

बलिरुवाच ।
नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे ।
अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ १६ ॥

सर्वाकाराय देवाय गम्यागम्यस्वरूपिणे ।
स्वानन्दपतये तुभ्यं हेरम्बाय नमो नमः ॥ १७ ॥

नमो ब्रह्मपते तुभ्यं गणाध्यक्षाय ते नमः ।
सिद्धिबुद्धिपते तुभ्यं नमो विश्वम्भराय ते ॥ १८ ॥

अपाराय नमस्तुभ्यं नानामायाश्रयाय च ।
मायामोहहरायैव गणेशाय नमो नमः ॥ १९ ॥

[[१०६]]

सर्वान्तर्यामिणे तुभ्यं चिन्तामणिसुरूपिणे ।
सततं ब्रह्मभूताय नमस्ते जगदादये ॥ २० ॥

अन्ते मध्ये च सर्वत्र संस्थिताय नमो नमः ।
आदिमध्यान्तहीनाय सिंहवाहाय ते नमः ॥ २१ ॥

अपराधानसङ्ख्यातान् मदीयान् जगदीश्वर ।
क्षन्त्वा पाहि गणाधीश पतन्तं नरके च माम् ॥ २२ ॥

त्वन्मायामोहयोगेन मोहितोऽहं न संशयः ।
तेन मत्सरभावेन त्वां त्यक्त्वा विष्णुमाश्रितः ॥ २३ ॥

सकलं विघ्नसंयुक्तं जगदेतच्चराचरम् ।
शिवविष्ण्वादिभिः सार्धं तव मायाविमोहितम् ॥ २४ ॥

यदि त्वां शरणं ढुण्ढे शिवविष्ण्वादयः प्रभो ।
गच्छन्ति मोहहीना वै निर्विघ्नास्ते भवन्ति च ॥ २५ ॥

अन्यथा भ्रष्टरूपास्ते पदहीना भवन्ति च ।
अतस्त्वं सर्वदेवानां धारको नात्र संशयः ॥ २६ ॥

सत्तारूपा महाविघ्नास्तेषां स्वामी भवान् मतः ।
सर्वेषां स्थापकाश्चैव तथोत्थापनकारकाः ॥ २७ ॥

अधुना त्वत्प्रसादेन मया बुद्धं गजानन ।
अतस्त्वां शरणं यातो दीनोऽनाथश्च साम्प्रतम् ॥ २८ ॥

रक्ष रक्ष गणाध्याक्ष नरकान्मां दयानिधे ।
त्वत्स्मृत्या चैव भवति जनः सर्वार्थसिद्धिभाक् ॥ २९ ॥

एवं नानाविधैः स्तोत्रैस्तुष्टाव दनुजेश्वरः ।
तदैवाकाशजां वाणीं शुश्राव परमाद्भुताम् ॥ ३० ॥

मा भयं कुरु दैत्येन्द्र रक्षामि शरणागतम् ।
नरकात्ते भयं नास्ति मत्स्मृतेः करणात् कदा ॥ ३१ ॥

त्वया कृतमिदं स्तोत्रं नरकस्य हरं भवेत् ।
यः पठेच्छ्रावयेद्वापि नरकात्तस्य नोभयम् ॥ ३२ ॥

धर्मार्थकाममोक्षाणां साधनं प्रभविष्यति ।
मद्भक्तिवर्धनं चैव बले भवति निश्चितम् ॥ ३३ ॥

श्रुत्वाऽऽकाशभवां वाणीं बलिर्हृष्टो बभूव ह ।
तमेव गणपं चित्ते ध्यायंस्तत्रैव संस्थितः ॥ ३४ ॥

एतस्मिन्नन्तरे विघ्नो विष्णुं तत्याज वै यतः ।
ततो बुद्धिप्रकाशश्च विष्णोर्जातस्तु तत्क्षणात् ॥ ३५ ॥

वामनो मनसा तत्र ध्यायति स्म प्रजापते ।
मम भक्तो बलिः पूर्णस्तस्य प्राप्तं महद्भयम् ॥ ३६ ॥

विप्रस्य ऋणमुग्रं यत्तेनायं नारकी भवेत् ।
अहो मयातिमूर्खेण मम भक्तः प्रपीडितः ॥ ३७ ॥

वेदबाह्य कृतं कर्म बलिना मत्सरान् मखे ।
न पूजितो गणाध्यक्षः फलहीनोऽभवत्ततः ॥ ३८ ॥

अधुना भक्तरक्षार्थं किं करोमि विचारतः ।
गणेशं शरणं यामि ततः सौख्यं भविष्यति ॥ ३९ ॥

एवं विचार्य देवेशो गणेशं हृदि सोऽस्मरत् ।
स्मृतिमात्रेण तस्याऽग्रे प्रकटोऽभूद्गजाननः ॥ ४० ॥

तं दृष्ट्वा प्रणनामादौ पूजयामास भक्तितः ।
सर्वे देवगणास्तत्र मुनयस्तमपूजयन् ॥ ४१ ॥

एतस्मिन्नन्तरे तत्र बलिः प्रोवाच वामनम् ।
गणेशदर्शनेनैव प्राप्तबुद्धिर्महायशाः ॥ ४२ ॥

बलिरुवाच ।
ब्रह्मन् देहि तृतीयं ते पादं शिरसि चाशु मे ।
देहोऽयं दानरूपेण मया दत्तो न संशयः ॥ ४३ ॥

तच्छ्रुत्वा हर्षितो विष्णुस्तथेति स चकार ह ।
ब्राह्मणस्यर्णनिर्मुक्तं भक्तं कृत्वा च संस्थितः ॥ ४४ ॥

[[१०७]]

ततस्तं मुनिभिर्देवैः सहितोऽसौ जनार्दनः ।
तुष्टाव प्राञ्जलिं बध्वा गणेशं सर्वसिद्धिदम् ॥ ४५ ॥

वामन उवाच ।

नमस्ते गणनाथाय सर्वेषां पतये नमः ।
नानागणविभक्ताय जगत्कर्त्रे नमोऽस्तु ते ॥ ४६ ॥

विघ्नानां पतये तुभ्यं नमश्चन्द्रार्धधारिणे ।
त्रिनेत्राय नमस्तुभ्यं भक्तसंरक्षकाय च ॥ ४७ ॥

अमेयमायया देव तवेदं रचितं जगत् ।
तव मायाविमोहेन मोहितान् रक्ष विघ्नप ॥ ४८ ॥

तव मायाप्रभावं च को जानाति गजानन ।
वयं योगिगणाश्चान्ये न तं वेत्तुं क्षमाः कदा ॥ ४९ ॥

अतोऽपराधं जातं मे क्षन्तुमर्हसि मानद ।
तव भक्ता वयं नाथ देवदेव नमोऽस्तु ते ॥ ५० ॥

बलिस्त्वयं मदीयश्च भक्तः परमभाविकः ।
मच्छ्रेष्ठत्वेन देवेश जातोऽसौ मत्सरान्वितः ॥ ५१ ॥

तेन वेदविरुद्धं च कृतं कर्म महाद्भुतम् ।
त्वां विना यज्ञमारेभे फलहीनोऽभवत्क्रतुः ॥ ५२ ॥

अधुना मुनिभिर्देवैः सहितोऽहं गजानन ।
प्रार्थयामि तदर्थं त्वां सफलं कुरु दानवम् ॥ ५३ ॥

त्वं विनायकनामाऽसि त्वया यत्कृतमादरात् ।
तदेव मान्यतां याति वेदादिषु न संशयः ॥ ५४ ॥

वयं नायकसंयुक्ता वेदबाह्यं यदा प्रभो ।
कुर्मश्चेद्वै पदभ्रष्टाः क्रियन्ते च त्वया तदा ॥ ५५ ॥

यज्ञस्य फलसंयुक्तमतो भक्तं कुरु प्रभो ।
इत्युक्त्वा पादयोस्तस्य पपात गणपस्य सः ॥ ५६ ॥

तमुत्थाप्य गणाधीशो जगाद वचनं हरिम् ।
किं करोमि पुरा चैवं वरदोऽहं बभूव ते ॥ ५७ ॥

त्वदीयहस्ततो दैत्यं नरके पातयाम्यहम् ।
इति क्रोधसमाविष्टोऽधुना स्मरति मां खलः ॥ ५८ ॥

कायेन मनसा वाचा दैत्यो मां शरणं गतः ।
त्वं च प्रार्थयसे विष्णो वाञ्छितं च करोमि ते ॥ ५९ ॥

अधुना मां पुरस्कृत्य एतं यज्ञं समापय ।
तेनाऽयं सकलानां च यज्ञानां फलमश्नुते ॥ ६० ॥

अपराधस्य माहात्म्यं किञ्चित्पश्यतु केशव ।
इन्द्रे निवृत्तेस्मिन्नेष इन्द्रः पश्चाद् भविष्यति ॥ ६१ ॥

पाताले स्थापयस्वैनं नात्र कार्या विचारणा ।
अधुना फलहीनत्वं जनार्दन कृतं मया ॥ ६२ ॥

गणेशवचनं श्रुत्वा सर्वे हर्षसमन्विताः ।
साधु साधु महाराज गजानन कृतं त्वया ॥ ६३ ॥

इत्युक्तस्तं पुरस्कृत्य यज्ञं चक्रे बलिस्ततः ।
अन्तिमं भावयुक्तः सन् कृतकृत्योऽभवद्यथा ॥ ६४ ॥

गणेशोऽन्तर्दधे तत्र देवाः स्वं स्वं पदं ययुः ।
एवं वामनमाहात्म्यं कथितं ते प्रजापते ॥ ६५ ॥

यःशृणोति नरो भक्त्या वाञ्छितं लभते ध्रुवम् ।
श्रावयेच्छ्रुणुयाद्वा यस्तस्य सर्वं न दुर्लभम् ॥ ६६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते वामनचरितं नाम सप्तचत्वारिंशोऽध्यायः ॥