॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
श्रुत्वा कथां गणेशस्य हर्षश्चेतसि वर्धते ।
अतः कथय सर्वज्ञ चरित्रं वामनस्य यत् ॥ १ ॥
मुद्गल उवाच ।
कश्यपो मुनिशार्दूलः प्रजापतिसमोऽभवत् ।
अदितिस्तस्य पत्न्यासीत् ज्येष्ठा परमधार्मिका ॥ २ ॥
तस्यां च कश्यपाद्देवा इन्द्राद्या जज्ञिरे प्रभो ।
तेषां विरुद्धभावेन स्थिता दैत्या मुनेः सुताः ॥ ३ ॥
बलेन वरगर्वेण देवान् हन्तुं समुद्यताः ।
अभवन् विष्णुना ते वै नानारूपेण नाशिताः ॥ ४ ॥
न प्रापुः स्वर्गराज्यं ते सर्वमान्यं यदा तदा ।
काव्यं सकलनीतिज्ञं शरणं प्रययुः पुनः ॥ ५ ॥
तेषां सर्वं स वृत्तान्तं विदित्वा मुनिपुङ्गवः ।
दैत्यानुवाच सर्वज्ञः काव्यो वेदविदां वरः ॥ ६ ॥
काव्य उवाच ।
बलिदानवमुख्या वै शृणुध्वं मे वचो हितम् ।
यज्ञे देवाः समुत्पन्ना यज्ञाधारास्ततः सुराः ॥ ७ ॥
अतोऽश्वमेधयज्ञैश्च यजध्वं शतसङ्ख्यकैः ।
बलिरिन्द्रो महाबाहुर्भविता नात्र संशयः ॥ ८ ॥
द्वेषभावं च देवानां सदा सञ्छाद्य यत्नतः ।
तेन स्वर्गभुजो दैत्या यूयं सर्वत्र पूजिताः ॥ ९ ॥
[[१०३]]
भविष्यथ महाभागास्तस्मात् कुरुत मद्वचः ।
सर्वे हृष्टाश्च तं तत्र साधु साध्वब्रुवन् स्थिताः ॥ १० ॥
ततस्ते बलिराजं च मुख्यं कृत्वा महाबलाः ।
त्वरिता अश्वमेधेषु दीक्षितं चक्रुरादरात् ॥ ११ ॥
बलिर्विरोचनाज्जातो विष्णुभक्तिपरायणः ।
अधर्मे न रुचिस्तस्य जायते हि कदाचन ॥ १२ ॥
आदौ त्यक्त्वा गणेशानं विष्णुं स्मृत्वा महासुरः ।
आद्यं तं यज्ञमारेभे विष्णुभक्ततया खलः ॥ १३ ॥
तस्य चेष्टितमाज्ञाय विघ्नः परमहर्षितः ।
उवाच सदसि ह्यादौ पूजितो न गणाधिपः ॥ १४ ॥
भुक्तिमुक्तिप्रदाता यः सर्वसिद्धिकरो विभुः ।
सिद्धिमिच्छन्ति तं त्यक्त्वा तेऽसिद्धाः प्रभवन्ति हि ॥ १५ ॥
विष्णोर्बलेन दैत्यस्य भवेत् सिद्धिश्च कीदृशी ।
भक्षयिष्यामि तत्सर्वं कर्म तेन मखे कृतम् ॥ १६ ॥
इत्युक्त्वा स स्वयं विघ्न आययौ क्रोधसंयुतः ।
प्रविश्य देवराजस्य हृदये संस्थितोऽभवत् ॥ १७ ॥
यज्ञाः सङ्कल्पितास्तस्य विप्रैस्तु शतसङ्ख्यकाः ।
आद्ये यज्ञे समारब्धे इन्द्रश्चिन्तातुरोऽभवत् ॥ १८ ॥
शतयज्ञप्रभावेण बलिरिन्द्रो भविष्यति ।
ततः स शरणं विष्णुं जगाम सुरनायकः ॥ १९ ॥
नत्वा स्तुत्वा महातेजाः प्रार्थयामास सादरम् ।
विष्णुं देववरं तत्र बलियज्ञविनाशने ॥ २० ॥
एतस्मिन्नन्तरे तत्र विघ्नः कालस्वरूपधृक् ।
बलवान् विष्णुमाविश्य संस्थितो हृदयेऽभवत् ॥ २१ ॥
बलेः प्रचेष्टितं पूर्णं कथितं वज्रपाणिना ।
तज्ज्ञात्वा सकलं विष्णुरिन्द्रं प्रोवाच सत्वरम् ॥ २२ ॥
विष्णुरुवाच ।
अदित्या कश्यपेनापि तपस्तप्तं सुदारुणम् ।
शतवर्षं मदर्थं च तस्मिन् काले सुराधिप ॥ २३ ॥
तयोरहं प्रसन्नात्मा वरदश्च पुराऽभवम् ।
ताभ्यां त्वं पुत्रतां याहि याचितं सर्वभावतः ॥ २४ ॥
ओमित्युक्तं मया तत्र तं वरं सफलं प्रभो ।
अधुनाऽहं करिष्यामि बलेर्यज्ञस्य नाशने ॥ २५ ॥
विस्मृता विष्णुनाऽत्यन्तं बलेर्भक्तिर्महाद्भता ।
स बलेनिग्रहार्थं च स्वयमवोद्यतोऽभवत् ॥ २६ ॥
स विष्णुः कश्यपाज्जातो ह्यदित्यां वामनः प्रभुः ।
बलेर्बलं निरीक्ष्यैव न शशाक प्रचालितुम् ॥ २७ ॥
मनसि क्षुभितो विष्णुः कश्यपं पितरं तदा ।
पप्रच्छ बलिनाशाय वदोपायं महामुने ॥ २८ ॥
षडक्षरं महामन्त्रं वक्रतुण्डस्य तं ददौ ।
ततोऽसौ च विदर्भेषु गत्वा तपसि संस्थितः ॥ २९ ॥
दशवर्षं महोग्रं स तपस्तेपे सुदारुणम् ।
निराहारतया दक्ष गणेशं हृदि चिन्तयन् ॥ ३० ॥
उग्रेण तपसा तस्य प्रत्यक्षः सिंहवाहनः ।
षडक्षरप्रभावेण तं ययौ भक्तवत्सलः ॥ ३१ ॥
चतुर्बाहुधरः पूर्णः सिद्धिबुद्धिसमन्वितः ।
एकदन्तो गजाकारमुखः पाशाङ्कुशादिधृक् ॥ ३२ ॥
सिन्दूरारुणदेहश्च शूर्पकर्णो महोदरः ।
कोटिसूर्यसमानेन तेजसा सुविराजितः ॥ ३३ ॥
तं दृष्ट्वा सहसोत्थाय वामनः प्रणनाम सः ।
खं १ अ ४३ पान १०४
बद्धाञ्जलिपुटो भूत्वा स्तोतुं समुपचक्रमे ॥ ३४ ॥
वामन उवाच ।
नमो विघ्नपते तुभ्यं भक्तविघ्नविनाशिने ।
अभक्तविघ्नादात्रे च गणेशाय नमो नमः ॥ ३५ ॥
वक्रतुण्डाय सर्वेश पालकाय नमो नमः ।
नानारूपधरायैव सर्वान्तर्यामिणे नमः ॥ ३६ ॥
सर्वं चराचरं स्वामिंस्त्वदाज्ञा वशवर्ति च ।
विभूतिभिर्महाराज कुरुषे सर्वमञ्जसा ॥ ३७ ॥
ब्रह्मा प्रजापतीनां त्वं यज्ञानां विष्णुरेव च ।
ईश्वराणां स्वयं शम्भुर्देवानां त्वं पुरन्दरः ॥ ३८ ॥
प्रकाशानां रविस्त्वं च चन्द्रोऽन्नेषु गणाधिप ।
यमो यमवतां त्वं वै वरुणो यादसां प्रभो ॥ ३९ ॥
वायुर्बलवतां त्वं च निधीनां धनपः स्वयम् ।
अग्निर्वै दाहकानां त्वं रक्षसां निर्ऋतिः स्वयम् ॥ ४० ॥
नागानां शेषरूपोऽसि योगिनां शुक्र एव च ।
कुमाराणां त्वं च सनत्कुमारोऽसि न संशयः ॥ ४१ ॥
गुहः सेनापतीनां त्वं मृगाणां सिंहवेषभृत् ।
एवं नानास्वरूपैस्त्वं जगद्रक्षणतत्परः ॥ ४२ ॥
त्वां स्तोतुं कः समर्थः स्याद्योगरूपं सनातनम् ।
वेदाः शेषश्च वेधा च शक्ता न स्तवनेऽभवन् ॥ ४३ ॥
तत्र मन्दमतिः क्वाहं पारं गन्तुं तव स्तुतेः ।
तथापि च यथाबुद्धि संस्तुतोऽसि च विघ्नप ॥ ४४ ॥
तव दर्शनमात्रेण कृतकृत्योऽस्मि साम्प्रतम् ।
धन्यं जन्म मदीयं वै येन दृष्टो गजाननः ॥ ४५ ॥
धन्यौ माता पिता मेऽद्य स्थलं धन्यं तपोऽपि च ।
षडक्षरश्च मन्त्रोऽयं धन्यो येन त्वमागतः ॥ ४६ ॥
एवमुक्त्वा ननर्ताऽसौ भक्तिभावपरिप्लुतः ।
रोमाञ्चितशरीरोऽभूदानन्दाश्रु सृजन्मुहः ॥ ४७ ॥
देहभावं परित्यज्य वामनो हर्षसंयुतः ।
तदेकनिष्ठतां प्राप्तो महाभागः प्रजापते ॥ ४८ ॥
तं तादृशं गणाधीशो दृष्ट्वा प्रेमपरिप्लुतम् ।
जगाद परमात्माऽसौ वामनं भक्तवत्सलः ॥ ४९ ॥
गणेश उवाच ।
शृणु वामन मे वाक्यं वरं वृणु हृदीप्सितम् ।
तव भक्त्या तपोयुक्त्या स्तुत्या वै तुष्टिमागतः ॥ ५० ॥
दास्यामि सकलं तुभ्यं यद्यपि स्यात् सुदुष्करम् ।
धन्योऽसि बालभावेऽपि भक्तिस्ते मे परापदि ॥ ५१ ॥
त्वया कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति ।
यः पठेच्छ्रावयेद्वापि तस्य सिद्धिर्भविष्यति ॥ ५२ ॥
यं यं चिन्तयते कामं तं तं दास्यामि दुर्लभम् ।
अन्ते मोक्षं महाविष्णो स्वानन्दे प्रददाम्यहम् ॥ ५३ ॥
इति तस्य वचः श्रुत्वा वक्रतुण्डस्य शोभनम् ।
वामनः प्रणतो भूत्वा तं जगाद गजाननम् ॥ ५४ ॥
प्रसन्नो यदि देवेश देहि भक्तिं दृढां च ते ।
बलिं देवरिपुं ढुण्ढे मत्साध्यं कुरु दैत्यपम् ॥ ५५ ॥
यदाहं त्वां स्मरिष्यामि तदात्मानं प्रदर्शय ।
यथा न मां भवेद्विघ्नो वरं देहि गजानन ॥ ५६ ॥
तथेति तमथोक्त्वाऽसौ गणेशोऽन्तर्दधे स्वयम् ।
वामनस्तत्र देवेशं स्थापयामास हर्षतः ॥ ५७ ॥
[[१०५]]
अदोषाख्यं महाक्षेत्रं विदर्भे स्थानमुत्तमम् ।
वक्रतुण्डस्य सम्भूतं नराणां सर्वसिद्धिदम् ॥ ५८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते वामनवरप्रदानं नाम षट्चत्वारिंशोऽध्यायः ॥