४५ दम्भासुरशान्तिकथनम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

शृणु दक्ष महाप्राज्ञ महद् दम्भस्य कौशलम् ।
त्यक्त्वाऽऽसुरस्वभावं स संस्थितो विगतज्वरः ॥ १ ॥

प्रातरुत्थाय दैत्यान् स सर्वानाकारयत् स्वयम् ।
उवाच तान् महातेजा वचनं शुक्रसन्निधौ ॥ २ ॥

दम्भासुर उवाच ।

शृणुध्वमसुराः सर्वे गुरुणाऽहं प्रबोधितः ।
शरणं वक्रतुण्डं च यामि तत्र न संशयः ॥ ३ ॥

सुराणामधिपो नाऽयं नायं दैत्याधिपः कदा ।
ब्रह्माकारेण सर्वत्र सिद्धिबुद्धिपतिः स्थितः ॥ ४ ॥

[[१०१]]

तस्य तद्वचनं श्रुत्वा कुपिता दानवास्तदा ।
ययुः स्वं स्वं गृहं सर्वे त्यक्त्वा दम्भासुरं खलाः ॥ ५ ॥

दम्भासुरः प्रसन्नात्मा काव्येन सहितः स्वयम् ।
शरणं गणनाथं च ययौ हर्षसमन्वितः ॥ ६ ॥

नगराद्बहिरागत्य ययौ देवस्य सन्निधिम् ।
दण्डवत्पतितः पृथ्व्यां कृताञ्जलिरुपस्थितः ॥ ७ ॥

तुष्टाव तं गणाध्यक्षं तद्दर्शनमहोत्सवः ।
यथान्यायं पूजयित्वा निबद्धकरसम्पुटः ॥ ८ ॥

दम्भासुर उवाच ।

नमस्ते ब्रह्मरूपाय ब्रह्माकारशरीरिणे ।
ब्रह्मणे ब्रह्मदात्रे च गणेशाय नमो नमः ॥ ९ ॥

नमस्ते त्रिदशेशाय दैत्यदानवपाय च ।
सर्वत्र योगरूपाय भावहीनाय ते नमः ॥ १० ॥

सिद्धिबुद्धिपते तुभ्यं नमः सिंहध्वजाय च ।
गणानां पतये तुभ्यं हेरम्बाय नमो नमः ॥ ११ ॥

एकदन्ताय देवाय ह्यनन्तविभवाय ते ।
विघ्नेशाय महाविघ्ननाशनाय नमो नमः ॥ १२ ॥

अपारगुणधाराय दैत्यदानवमर्दिने ।
मनोवाणीमयायैव सर्वरूपाय ते नमः ॥ १३ ॥

मनोवाणीविहीनाय योगिभ्यो योगदायिने ।
योगाय योगनाथाय विश्वपाय नमो नमः ॥ १४ ॥

मायाधाराय मायायाश्चालकाय नमो नमः ।
मायाहीनाय सर्वत्र समभावधराय ते ॥ १५ ॥

अव्यक्ताय नमस्तुभ्यं व्यक्तिमूलधराय च ।
निर्मोहाय समोहाय लम्बोदर नमो नमः ॥ १६ ॥

यं स्तोतुं न समर्थाश्च वेदाः साङ्गा महर्षयः ।
योगीन्द्रा ब्रह्मविष्ण्वाद्यास्तं किं स्तौमि परात् परम् ॥ १७ ॥

इत्युक्त्वा पतितः पृथ्व्यां दम्भो भक्तिसमन्वितः ।
तमुत्थाप्य गणाधीश ऊचिवान् भक्तिभावितः ॥ १८ ॥

गणेश उवाच ।

त्वया दम्भ कृतं स्तोत्रं मम सन्तोषवर्धनम् ।
यः पठेत् पाठयेत्तद्वा स सर्वं सुखमाप्नुयात् ॥ १९ ॥

पुत्रपौत्रकलत्रादि धनधान्यप्रदं भवेत् ।
आधिव्याधिहरं चैव सर्वोपद्रवनाशनम् ॥ २० ॥

एककालं द्विकालं वा त्रिकालं सततं तथा ।
यः पठेत् स नरोऽत्यन्तं मम प्रीतिकरो भवेत् ॥ २१ ॥

त्वां हन्तुं क्रोधसंयुक्त आगतोऽहं न संशयः ।
अधुना शरणं यातस्ततो हन्मि न निश्चितम् ॥ २२ ॥

वरं वरय मत्तस्त्वं यत्त्वच्चित्ते स्थितं परम् ।
स्तोत्रेण भक्तिभावेन सन्तुष्टोऽहं ददामि ते ॥ २३ ॥

गणेशवचनं श्रुत्वा दम्भो हर्षसमन्वितः ।
उवाच गणपं तत्र भक्तिनम्रात्मकन्धरः ॥ २४ ॥

दम्भासुर उवाच ।

यदि देवेश तुष्टोऽसि यदि देयो वरो हि मे ।
अचलां देहि ते भक्तिं तदा नाथ नमोऽस्तु ते ॥ २५ ॥

आज्ञां त्वं ज्ञापय विभो वृत्यर्थं मे च साम्प्रतम् ।
स्थानं देहि गणाध्यक्ष तत्र स्थास्यामि निश्चलः ॥ २६ ॥

दम्भस्य वचनं श्रुत्वा गणेशस्तमुवाच ह ।
सुप्रसन्नतया दक्ष भक्तं गम्भीरनिस्वनः ॥ २७ ॥

सिद्धिबुद्धिपतिरुवाच ।
भविता मयि भक्तिस्ते दृढा ह्यव्यभिचारिणी ।
तिष्ठ स्थाने स्वके त्वं वै दम्भ हर्षसमन्वितः ॥ २८ ॥

न त्वं न्यूनोऽसि मे क्वापि देवा नैवाधिका मताः ।
स्वस्वधर्मे स्थिताः सर्वे मम प्रीतिविवर्धनाः ॥ २९ ॥

स्वधर्मत्यागदोषेण क्रुद्धोऽहं नाशयामि तान् ।
अतस्त्वं निर्भयो भूत्वा चिरं तिष्ठ महासुर ॥ ३० ॥

यत्र मे स्मरणं नास्ति कार्यादौ दैत्यसत्तम ।
तत्र त्वं दम्भभावेन कार्यनाशं सदा कुरु ॥ ३१ ॥

कर्मादौ पूजनं यत्र मम नास्ति यदासुर ।
तदा तद्भ्रंशभावेन निष्फलं कुरु सर्वदा ॥ ३२ ॥

मम भक्तिसमायुक्ता ये नराः सततं प्रियाः ।
तान् पालय प्रयत्नेन दम्भ हीनस्वभावतः ॥ ३३ ॥

यत्र मे स्मरणं नास्ति पूजनं च महामते ।
आदौ तत्र च ते भागः कर्मरूपो मया कृतः ॥ ३४ ॥

एवमुक्त्वा स तं दम्भं गणेशोऽन्तर्दधे स्वयम् ।
देवाश्च मुनयः सर्वे जयेत्युक्त्वा ययुस्ततः ॥ ३५ ॥

स्वस्वस्थानेषु दीप्तास्ते स्थिता भयविवर्जिताः ।
पातालविवरे दैत्याः स्थिता निर्व्याकुलाः प्रभो ॥ ३६ ॥

एवं दम्भासुरं शान्तं स चकार गजाननः ।
ब्रह्मपुत्रत्वमापन्नस्तदप्युक्तं मया परम् ॥ ३७ ॥

य एतच्छ्रुणुयान्नित्यं श्रावयेद्वा समाहितः ।
स दम्भभयनिर्मुक्तो याति ब्रह्म सनातनम् ॥ ३८ ॥

यं यं चिन्तयते कामं तं तं प्राप्नोति मानवः ।
सर्वसम्पत्समायुक्तस्तिष्ठेद्वै विघ्नवर्जितः ॥ ३९ ॥

अधुना वामनस्थापि कथयामि समासतः ।
चरित्रं गणनाथस्य भक्त्या युक्तं महाद्भतम् ॥ ४० ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते दम्भासुरशान्तिकथनं नाम पञ्चचत्वारिंशोऽध्यायः ॥