४४ दम्भासुरविचारः

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

देवेन्द्रे प्रस्थिते तत्र गणेशस्यैव सन्निधौ ।
दम्भासुरः कविं विप्रमाह्वयामास सन्निधौ ॥ १ ॥

समागतं महाबुद्धिं शुक्रं मुनिवरं प्रभो ।
प्रणनाम ससाष्टाङ्गं बद्धाञ्जलिपुटः स्थितः ॥ २ ॥

तं काव्यः स्थापयामास काञ्चनोत्तर आसने ।
पप्रच्छ मामाह्वयसे किमर्थमिति दानवम् ॥ ३ ॥

शुक्रस्य वचनं श्रुत्वा भयहर्षसमन्वितः ।
उवाच तं महाभागं भक्तियुक्तेन चेतसा ॥ ४ ॥

दम्भासुर उवाच ।

स्वामिन् योद्धुं समायातः सिद्धिबुद्धिपतिः प्रभुः ।
ब्रह्मणो मानसः पुत्रस्तपसा तेन निर्मितः ॥ ५ ॥

परिपृच्छामि तत्र त्वां सर्वज्ञं मुनिसत्तमम् ।
येन तं सर्वभावेन जानामि खलु तत्त्वतः ॥ ६ ॥

[[४४]]

का सिद्धिः का तथा बुद्धिस्तयोः कोऽसौ पतिः प्रभो ।
किं सामर्थ्यधरो भाति वद सर्वं च मेऽग्रतः ॥ ७ ॥

दम्भस्य वचनं श्रुत्वा शुक्रस्तं पुनरब्रवीत् ।
येन तत्त्वे प्रविज्ञाते गणेशे जायते मतिः ॥ ८ ॥

शुक्र उवाच ।

शृणु दैत्येन्द्र तस्यापि महिमानं महाद्भुतम् ।
येन त्वं गाणपत्ये च तत्त्वे प्रनिपुणो भवेः ॥ ९ ॥

सिद्धिर्मोहकरी माया सर्वत्रैव प्रदृश्यते ।
सिध्यर्थं सर्वलोकाश्च यत्नवन्तो भवन्त्यतः ॥ १० ॥

इहलोके स्वभोगार्थी सिद्धिमिच्छति दानव ।
परलोकस्य सिध्यर्थं जनस्तत्प्रसमाकुलः ॥ ११ ॥

ब्रह्मभूयपदप्राप्तिमिच्छेद्वै सिद्धिरूपिकाम् ।
इह ब्रह्मपरप्राप्तिस्त्रिविधा मोहसञ्ज्ञिता ॥ १२ ॥

माया गणपतेः प्रोक्ता भ्रान्तिरूपा महामते ।
वामभागस्थया देव्या क्रीडतेऽसौ गजाननः ॥ १३ ॥

भ्रामयन् ब्रह्मविष्ण्वादीन् योगिनो मानवादिकान् ।
ब्रह्मभूतस्वरूपत्वात् स्वाधीनः सततं मतः ॥ १४ ॥

द्वितीया बुद्धिरूपा च माया तस्य महात्मनः ।
तां शृणुष्व महादैत्य येन त्वं सर्वविद्भवेः ॥ १५ ॥

यत्किञ्चिद् दृश्यते सर्वं मनोवाणीमयं जगत् ।
मनोवाणीविहीनं यत् सर्वं बुद्धिमयं बभौ ॥ १६ ॥

क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् ।
चित्तं पञ्चविधं प्रोक्तं बुद्धिरूपं तदेव च ॥ १७ ॥

पञ्चानां बहवो भेदा वक्तुं तान् नैव शक्यते ।
एवमेकाप्यनेकाऽसौ बुद्धिः सर्वत्र दृश्यते ॥ १८ ॥

मोहधारकरूपां ता सुभ्रान्तां बुद्धिमादरात् ।
ज्ञानरूपां हृदिस्थां तु ब्रह्माकारां प्रविद्धि हि ॥ १९ ॥

बुद्धियुक्तनरेणैव परत्रेह प्रलभ्यते ।
बुध्या ब्रह्ममयो योगो युज्यते ज्ञानिभिः परः ॥ २० ॥

एतादृशी महाभागा दक्षिणाङ्गधराऽसुर ।
तस्य योगेश्वरस्याऽपि गणेशस्य महात्मनः ॥ २१ ॥

क्रीडार्थं रचिते माये स्वस्याङ्गात्तेन दैत्यप ।
ब्रह्मरूपं च तं विद्धि योगेन लभते नरः ॥ २२ ॥

स्वानन्दाख्यं परं ब्रह्म तदेव नगरं मतम् ।
तत्र नित्यं वसति यः सिद्धिबुद्धिसमन्वितः ॥ २३ ॥

ब्रह्मणाराधितं ब्रह्म पुत्रभावार्थमादरात् ।
तदेव गणराजोऽयमागतो ब्रह्मणः सुतः ॥ २४ ॥

मातुः पितुश्च बन्धं च पुत्रौ हरति यत्त्विति ।
तदर्थं पुत्रभावेन ब्रह्मणा प्रार्थितो विभुः ॥ २५ ॥

धर्मसंरक्षणार्थाय त्वां हनिष्यति निश्चितम् ।
अतस्त्वं शरणं गच्छ प्रभुमिच्छसि जीवितुम् ॥ २६ ॥

मुद्गल उवाच ।

काव्यस्य मुनिमुख्यस्य वचनं ब्रह्मदायकम् ।
वेदान्तसारसम्भूतं श्रुत्वा दम्भ उवाच ह ॥ २७ ॥

दम्भ उवाच ।

स्वामिन् श्रुतं मया वाक्यं त्वदीयं योगसंयुतम् ।
परं तु संशयं छिन्धि हृदिस्थं कथयामि ते ॥ २८ ॥

एतादृशं परं ब्रह्म गाणेशं चेन् महामुने ।
धर्माधर्मावतस्तस्मात् सम्भूतौ नात्र संशयः ॥ २९ ॥

योगरूपेण सर्वत्र गणेशस्तिष्ठति प्रभो ।
धर्मस्य रक्षणं सोऽपि किं करोति विकारतः ॥ ३० ॥

अधर्मस्य तथा नाशं किमर्थं प्रकरोति सः ।
एतं संशयजातं मे छेत्तुमर्हसि साम्प्रतम् ॥ ३१ ॥

[[१००]]

काव्य उवाच ।

शृणु दम्भ गणेशस्य चेष्टितं सर्वदं परम् ।
येन ते संशयः सर्वो नाशं यास्यति तत्क्षणात् ॥ ३२ ॥

इदं सृष्टं गणेशेन नानाभेदमयं जगत् ।
तत्र स्वस्वपदे चैव स्थापिता जन्तवोऽभवन् ॥ ३३ ॥

अधर्मस्य च धर्मस्य व्यवस्था तेन सा कृता ।
तत्र लोभन वै धर्ममधर्मो जयते यदा ॥ ३४ ॥

सुराणां वै तदा तेजः क्षीणं भवति सर्वतः ।
असुराणां महत्तेजो वर्धते च दिने दिने ॥ ३५ ॥

यदाऽयं गणराजस्तु देवानां पक्षवर्धनः ।
असुराणां विनाशाय स्वयं भवति चोद्यतः ॥ ३६ ॥

हत्वा देवगणैः सर्वैरसुराणां बलं महत् ।
स्वस्थाने स्थापयत्येव धर्मं सर्वप्रयत्नतः ॥ ३७ ॥

धर्मेण सकलं दैत्य ह्यधर्मस्य बलं हतम् ।
तदा दैत्यादिकानां तु मूलच्छेदो भविष्यति ॥ ३८ ॥

देवानामुदितं तेजो भवेद्यदि महाद्भुतम् ।
दैत्याय वरदस्तर्हि भवेच्चानेकरूपवान् ॥ ३९ ॥

असुरैर्वरसंयुक्तैर्धर्मे क्षीणे समन्ततः ।
अधर्मस्य स संस्थां वै यथापूर्वमकल्पयत् ॥ ४० ॥

एवं लोभसमायुक्ताः सुरा दैत्या भवन्ति चेत् ।
तदा तेषां विनाशाय गणेशो यततेऽसुर ॥ ४१ ॥

नास्ति तस्य विचारेण स्वः परः क्वचिदेव च ।
क्रीडार्थं स्वात्मभावेषु स्थापयत्येव वै जनान् ॥ ४२ ॥

मुद्गल उवाच ।

शुक्रस्य वचनं रम्यं श्रुत्वा दम्भः प्रतापवान् ।
गणेशं मनसा ध्यायन् संस्थितो नगरे स्वके ॥ ४३ ॥

एकान्तेऽसौ महातेजा विचारं प्रचकार ह ।
अयं गणेशनामा वै पूर्णं ब्रह्म सनातनम् ॥ ४४ ॥

तमेव शरणं गच्छन् यशस्वी स भविष्यति ।
सर्वेषु समरूपेण स्थितोऽयं नात्र संशयः ॥ ४५ ॥

त्यक्त्वा सिद्धिपतिं सिद्धिमिच्छेद्यो दुर्मतिः परम् ।
असिद्धिर्भविता तस्य सुहृद्भिर्नात्र संशयः ॥ ४६ ॥

बुद्धेः पतिं गणेशं यस्त्यक्त्वा कुशलमिच्छति ।
तस्याऽकुशलमवं च भविता दुष्टभावतः ॥ ४७ ॥

सिद्धिबुद्धिविहीनं तु ना किञ्चिद् दृश्यते मया ।
अतस्तं शरणं यामि सुरासुरसमं विभुम् ॥ ४८ ॥

इति निश्चितसङ्कल्पो दम्भः सुष्वाप निर्भयः ।
गणेशं हृदि विन्यस्य भक्तिभावेन भावितम् ॥ ४९ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते दम्भासुरविचारो नाम चतुश्चत्वारिंशोऽध्यायः ॥