॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
देवेन्द्राणां वचः क्रूरं श्रुत्वा चिन्तातुरोऽभवत् ।
चर्तुमुखो विचारं स चकाराऽत्र तु शोभनम् ॥ १ ॥
नावाप देवरक्षार्थं बुद्धिं बुद्धिविशारदः ।
ततश्चिन्तां दुरन्तां वै जगाम कमलासनः ॥ २ ॥
जगाद देवमुख्यांस्तु भयेन कमलासनः ।
अहं यूयं च सर्वेपि प्रार्थयामो गजाननम् ॥ ३ ॥
स वै सर्वविचारज्ञः करिष्यति शुभं महत् ।
अतस्तत् ध्यानकौशल्यात् ध्यायेम च विनायकम् ॥ ४ ॥
एकाक्षरविधानेन वक्रतुण्डं यजामहे ।
शरणं सर्वदेवानां भविष्यति न संशयः ॥ ५ ॥
मुद्गल उवाच ।
ब्रह्मणो गिरमाकर्ण्य देवा मुनिगणैः सह ।
पूजयामासुरव्यग्रा वक्रतुण्डं विधानतः ॥ ६ ॥
ब्रह्माऽपि ध्यानसंयुक्तस्तोषयामास विघ्नपम् ।
पुरा दृष्टं तथा चित्ते सिद्धिबुद्धियुतं मुने ॥ ७ ॥
गतेषु शतवर्षेषु ब्रह्माऽपश्यच्च तं हृदि ।
साकारं गुणसंयुक्तं वदन्तं मञ्जुला गिरः ॥ ८ ॥
दृष्ट्वा विस्मितचित्तोऽसौ यावत्पृच्छति तं प्रभुम् ।
तावत् सोपि बहिर्यातः सिद्धिबुद्धिसमन्वितः ॥ ९ ॥
[[९७]]
ब्रह्माणं बोधयामास वक्रतुण्डो महाबलः ।
सुप्रसन्नतरो जातस्तपसा ध्यानशालिना ॥ १० ॥
वक्रतुण्ड उवाच ।
पश्य मां पुत्रभावेन पितामह गणाधिपम् ।
तव ध्यानात् समुत्पन्नं ध्यानजं प्रवदन्त्यतः ॥ ११ ॥
तपसा पूर्वकाले मां त्वया पुत्रत्वमादरात् ।
याचितं सफलं तच्च कृतं तव मयाऽधुना ॥ १२ ॥
वचनं वक्रतुण्डस्य श्रुत्वा ब्रह्मा मुदा युतः ।
बहिर्वीक्ष्य गणेशानं सिद्धिबुद्धिविराजितम् ॥ १३ ॥
प्रणनाम स साष्टाङ्ग वक्रतुण्डं गजाननम् ।
सिद्धिं बुद्धिं विधानेन पूजयामास यत्नतः ॥ १४ ॥
तद् दृष्ट्वा परमाश्चर्यं देवाः सर्वे समागताः ।
ऋषयस्तं महाभागाः प्रणेमुर्भक्तिभावतः ॥ १५ ॥
सुतं मानसिकं दृष्ट्वा सिद्धिं बुद्धिं तथात्मजे ।
ताभ्यां सह विनीतास्ते तुष्टुवुर्बद्धपाणयः ॥ १६ ॥
ब्रह्माऽपि पूजनं कृत्वा स्तोतुं सर्वैः समन्वितः ।
उद्यतोऽभून् महातेजा वक्रतुण्डं सभार्यकम् ॥ १७ ॥
सदेवर्षिब्रह्मोवाच ।
नमस्ते ब्रह्मभूताय वक्रतुण्डाय साक्षिणे ।
सिद्धिबुद्धियुतायैव गणेशाय नमो नमः ॥ १८ ॥
विघ्नेशाय नमस्तुभ्यं निर्गुणाय गुणात्मने ।
अनादये च सर्वज्ञ पालकाय नमोऽस्तु ते ॥ १९ ॥
नमस्ते सर्वरूपाय सर्वाध्यक्षाय धीमते ।
आदिमध्यान्तहीनाय साक्षाद्देवाय ते नमः ॥ २० ॥
अमेयशक्तये तुभ्यं मायिभ्यो मोहदाय च ।
अमायिने च मायाया आधाराय नमो नमः ॥ २१ ॥
सत्याय सत्यरूपाय सत्यपालक रक्षिणे ।
ज्ञानाय ज्ञानदात्रे च ज्ञानगम्याय ते नमः ॥ २२ ॥
लम्बोदराय देवाय गणानां पतये नमः ।
गणेशाय गुणाधार हेरम्बाय नमो नमः ॥ २३ ॥
त्वां स्तोतुं न समर्थाश्च वेदाः शास्त्रसमन्विताः ।
योगीन्द्रा देवमुख्याश्च तत्र कोऽहं गजानन ॥ २४ ॥
यथाबुद्धि प्रमोदेन संस्तुतोऽसि गणेश्वर ।
तेन मे सफलं सर्वं जातं लम्बोदराधुना ॥ २५ ॥
ब्रह्माण्डानामनन्तानां कारकस्त्वं न संशयः ।
कथं मे पुत्रतां यातः सिद्धिबुद्धिसमन्वितः ॥ २६ ॥
सिद्धिबुद्धियुतं ब्रह्म हृदि ध्यातं विशेषतः ।
तदेव बहिरायातं तारितुं मां न संशयः ॥ २७ ॥
इत्युक्त्वा ब्राह्मणैः सार्धं जातकर्मादिकां क्रियाम् ।
चकार च स्वयं ब्रह्मा परमानन्दसंयुतः ॥ २८ ॥
एकादशदिने तस्य सिद्धिबुद्धिपतिस्त्विति ।
नाम संस्थापयामास द्विजैः सह पितामहः ॥ २९ ॥
बालक्रीडनभावेन क्रीडति स्म विनायकः ।
सावित्री स्तनपानं सा कारयामास भावतः ॥ ३० ॥
दिने दिनेऽथ बालोऽसौ ववृधे शुक्लचन्द्रवत् ।
आनन्दं जनयन् मातुः पितुश्च चरितैः स्वकैः ॥ ३१ ॥
सिद्धिबुद्धियुतो दक्ष वर्षद्वयवयाः स्थितः ।
एकदा तं विधातारं पप्रच्छ विनयान्वितः ॥ ३२ ॥
सिद्धिबुद्धिपतिरुवाच ।
तात किं वनवासं त्वं करोषि मुनिभिः सह ।
देवैः परमदुःखार्तो मम किं भाससे प्रभो ॥ ३३ ॥
तस्य तद्वचनं श्रुत्वा ब्रह्मा हर्षसमन्वितः ।
जगाद गणपं सर्वं वृत्तान्तं दैत्यसम्भवम् ॥ ३४ ॥
[[९८]]
तच्छ्रुत्वा कोपदीप्तोऽसौ वक्रतुण्डस्तमब्रवीत् ।
हर्षयन् देवविप्रादीन् मेघगम्भीरनिस्वनः ॥ ३५ ॥
वक्रतुण्ड उवाच ।
दम्भासुरं महावीर्यं हनिष्यामि न संशयः ।
देवेभ्यो ब्राह्मणेभ्यश्च स्वपदानि ददाम्यहम् ॥ ३६ ॥
एवमुक्त्वा समारूढः सिंहं शस्त्रधरः प्रभुः ।
सिद्धिबुद्धियुतस्तत्र जगामासुरवेश्मनि ॥ ३७ ॥
नगरप्रान्तभागे स संस्थितो जगदीश्वरः ।
तं देवमुनयः सर्वे ययुर्हर्षसमन्विताः ॥ ३८ ॥
दूतमिन्द्रं गणेशश्च प्रेषयामास सत्वरः ।
स्वधर्मे तिष्ठ दैत्येन्द्र नो चेद्धन्मि न संशयः ॥ ३९ ॥
इन्द्रो गत्वा महादैत्यं सामपूर्वमिदं वचः ।
उवाच सर्वभावज्ञो भावपूर्वं सुरद्विषम् ॥ ४० ॥
इन्द्र उवाच ।
ब्रह्मणः पुत्रतां यातं पूर्णं ब्रह्म सनातनम् ।
सिद्धिबुद्धिपतिं विद्धि मानसं ध्यानयोगतः ॥ ४१ ॥
स एव मुनिभिर्देवैरागतः पुरसन्निधौ ।
मां दूतं प्रेषयामास सामार्थं तव सन्निधौ ॥ ४२ ॥
स्वधर्मे त्वं समातिष्ठ देवाः सन्तु हविर्भुजः ।
वर्णाश्रमयुता लोकास्तिष्ठन्तु विगतज्वराः ॥ ४३ ॥
इन्द्रस्य वचनं श्रुत्वा कुपितोऽतितरां मुने ।
दम्भासुर उवाचाऽथ तमिद्रं प्रदहन्निव ॥ ४४ ॥
दम्भासुर उवाच ।
किं करोमि समायातो दूतरूपेण मे गृहे ।
नो चेत्त्वां बन्धयित्वा तु कारागारे क्षिपाम्यहम् ॥ ४५ ॥
इन्द्र गच्छ महाभाग वद तं गणनायकम् ।
पञ्चमे दिवसे त्वां च योधयामि न संशयः ॥ ४६ ॥
तत इन्द्रः समायातः सिद्धिबुद्धिपतिं प्रति ।
कथयामास वृत्तान्तं विस्तरेण यथायथम् ॥ ४७ ॥
श्रुत्वा गणपतिः प्रीतस्तमुवाच महामतिम् ।
समीचीनं त्वया तत्र कृतं देवपते यथा ॥ ४८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते दम्भासुरदूतसंवादो नाम त्रिचत्वारिंशोऽध्यायः ॥