॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
नगरे दम्भदैत्यस्य महोत्सवयुता बभुः ।
जनाः सर्वे महाभागाः कञ्चित्कालं प्रजापते ॥ १ ॥
एकदा दैत्यपाः सर्वे ययुस्तत्र महाबलम् ।
सुहुण्डश्च तथा हुण्डो रुक्मकेतुर्महाबलः ॥ २ ॥
मद्यपश्च सकोपश्च तथा क्रोधासुरो महान् ।
कामासुरो बलाढयश्च रासभासुर एव च ॥ ३ ॥
इत्याद्या बहवश्चान्ये दम्भं शोभासमन्वितम् ।
प्रणम्योचुर्महात्मान उत्सुका देवनाशने ॥ ४ ॥
दैत्येशा ऊचुः ।
किं स्थितोऽसि महाराज वयं दासाः समागताः ।
त्रिभुवनं प्रजेष्यामो देवमर्दनलालसाः ॥ ५ ॥
[[९५]]
तवाज्ञावशगाः सर्वे दैत्यदानवराक्षसाः ।
ब्रह्माण्डे न भवेत्तुल्यस्तव दम्भ बलेन वा ॥ ६ ॥
यशसा तेजसा चैव न समस्ते सुराधिप ।
आज्ञापय महाबाहो जेष्यामः सकलं जगत् ॥ ७ ॥
दैत्येशानां वचः श्रुत्वा दम्भदैत्यः प्रहर्षितः ।
उवाच तान् महाभागान् भावयुक्तेन चेतसा ॥ ८ ॥
दम्भासुर उवाच ।
सम्यगुक्तं महाभागा ममापि हृदये स्थितम् ।
भवद्भिः सहितोऽहं वै जेष्यामि सचराचरम् ॥ ९ ॥
एवमुक्त्वा स दैत्येशः शुक्रं तत्रानयन्मुने ।
मतं तस्य समादाय निर्जगाम ततः पुरात् ॥ १० ॥
अपारसेनया सार्धं चतुरङ्गसुयुक्तया ।
सर्वे पृथिव्यां राजानो जिता दैत्यैर्महाबलैः ॥ ११ ॥
पातालेषु च सर्वान् वै नागान् जित्वा दिवं ययुः ।
तत्रेन्द्रो देवदेवेन्द्रैर्युयुधे सोऽसुरैः सह ॥ १२ ॥
तेन दैत्यगणाः सर्वे भयभीताः समन्ततः ।
वज्रपातैर्महाघोरैश्चूर्णिता ज्वालितास्तथा ॥ १३ ॥
असुरा रणभूमिं च त्यक्त्वा सर्वे पलायिताः ।
ततो दम्भासुरस्तत्र युयुधे बलगर्वितः ॥ १४ ॥
चक्रपातेन देवेन्द्रं मूर्च्छितं च चकार ह ।
देवान् बाणार्दितान् सर्वान् कारयामास दैत्यपः ॥ १५ ॥
लब्ध्वा सञ्ज्ञां सुरेन्द्रो वै पलायत जिजीविषुः ।
ततो देवगणास्तं चान्वगुः सर्वे भयातुराः ॥ १६ ॥
दैत्य ऐरावतारूढो देवेन्द्रस्यासने स्थितः ।
अमराणां पुरीं गत्वा हर्षितो हर्षयन् स्वकान् ॥ १७ ॥
इन्द्रो देवगणैः सर्वैर्ब्रह्माणं शरणं ययौ ।
ब्रह्मणा सह विष्णुं च तेन सार्द्धं शिवं ययौ ॥ १८ ॥
शिवः क्रोधसमायुक्त आययौ रणमूर्धनि ।
जुहाव दैत्यराजं तं सङ्ग्रामाय महाबलम् ॥ १९ ॥
ततो दैत्येशसंयुक्तो दम्भदैत्यः समाययौ ।
क्रोधसंरक्तचक्षुस्तं सन्नद्धो बलसंयुतः ॥ २० ॥
ततः समभवद्युद्धं दारुणं रोमहर्षणम् ।
दैत्यानां चैव देवानां परस्परविनाशनम् ॥ २१ ॥
चत्वारिंशद्दिनान्यत्र तुमुलं नीतिसंयुतम् ।
शोणितौघा महानद्यो जाताः प्रेतसमाकुलाः ॥ २२ ॥
ततो दम्भः स्वयं क्रुद्धो बाणैर्देवानमर्दयत् ।
चकार देवराजांस्तान् मूर्च्छितान् धरणिं गतान् ॥ २३ ॥
ततः शम्भुस्त्रिशूलेन तं जघान महाबलम् ।
पपात मूर्च्छया दैत्यः क्षणादुत्थितवान् पुनः ॥ २४ ॥
तत्याज बलवांश्चकं पातयामास शङ्करम् ।
मूर्च्छितं प्रहरार्द्धं च दम्भदैत्यः प्रतापवान् ॥ २५ ॥
दृष्ट्वाऽद्भुतं महावीर्यं दैत्यराजस्य शङ्करः ।
पलायत ससञ्ज्ञः सन् वने वै देवसंयुतः ॥ २६ ॥
देवेन्द्रान् गच्छतो दृष्ट्वा जहसुर्दैत्यनायकाः ।
आनन्देन समायुक्ता विविशुस्त्वमरावतीम् ॥ २७ ॥
ततः स सत्यलोके च वैकुण्ठे दैत्यनायकान् ।
कैलासे चामरावत्यां स्थापयामास यत्नतः ॥ २८ ॥
नानादेवपुरे रम्ये स्थापयामास दानवान् ।
आययौ शोभनायां स स्वपुर्यां बलसंयुतः ॥ २९ ॥
चकार राज्यमुन्मत्तस्त्रैलोकस्य महाबलः ।
ततः कर्मविनाशार्थमाज्ञापयत दैत्यपान् ॥ ३० ॥
[[९६]]
तदाज्ञया ययुः सर्वे दैत्याः परमदारुणाः ।
ब्राह्मणादीन् बबन्धुस्ते ताडयामासुरोजसा ॥ ३१ ॥
यज्ञवाटान् बभञ्जुस्ते यज्ञवृक्षादिकान् खलाः ।
तीर्थानि लोपयामासुर्देवतायतनानि च ॥ ३२ ॥
एवं नानाविधैर्यत्नैः कर्मलोपं प्रचक्रिरे ।
केचिद्भ्रष्टा द्विजास्तत्र मृताः केचित्तदाऽभवन् ॥ ३३ ॥
केचिद्वनं ययुस्तत्र सिंहव्याघ्रादिसङ्कुलम् ।
सन्ध्यादिभिर्विहीनास्ते द्विजास्तत्राऽभवन् किल ॥ ३४ ॥
न स्वाहा न स्वधा तत्र न वषट्कार एव च ।
न वर्णाश्रमधर्मश्च दम्भे राज्यं प्रकुर्वति ॥ ३५ ॥
वर्णसङ्कररूपा वै प्रजा जाता महीतले ।
तदा देवगणाः सर्वे भयभीता बभूविरे ॥ ३६ ॥
कर्मभोगकरा देवा नष्टे कर्मणि शौनक ।
मृतप्राया मृताः सर्व इव ब्रह्माणमब्रुवन् ॥ ३७ ॥
देवा ऊचुः ।
शरणं त्वदृते देव कं याम कमलासन ।
त्वं धाता त्वं विधाता च सर्वेषां प्राणधारकः ॥ ३८ ॥
त्वं गतिः सर्वदेवानां त्वमेव ब्रह्मभावितः ।
अतोऽस्मान् रक्ष देवेश दम्भासुरभयात् परात् ॥ ३९ ॥
कर्महीनं कृतं तेन त्रैलोक्यं सचराचरम् ।
देवाः कर्मान्नभोक्तारो महाबुद्धे कृतास्त्वया ॥ ४० ॥
कर्माभावेन जगति मरिष्यामो न संशयः ।
अतस्त्वं सर्वदेवांश्च रक्षस्व प्रपितामह ॥ ४१ ॥
त्वयैव चाभयं दत्तं पालिताश्च त्वया वयम् ।
अधुना क्षुधयाऽऽविष्टा मरिष्यामस्त्वदग्रतः ॥ ४२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथम खण्डे वक्रतुण्डचरिते दम्भासुरविजयो नाम द्विचत्वारिंशोऽध्यायः ॥