॥ श्रीगणेशाय नमः ॥
ब्रह्मोवाच ।
नमस्ते वक्रतुण्डाय गणेशाय महात्मने ।
अनन्तानन्तपाराय विघ्नेशाय नमो नमः ॥ १ ॥
नमो भक्तिप्रियायैव भक्तसंरक्षकाय ते ।
अभक्तकामनाशाय सर्वदात्रे नमो नमः ॥ २ ॥
निर्गुणाय निरूपाय निर्मलाय गुणात्मने ।
अनन्ताननधाराय सिंहवाहाय ते नमः ॥ ३ ॥
अनादिरूपकायैव नमः सर्वप्रियङ्कर ।
वेदान्तवेद्यदेहाय गजवक्त्राय ते नमः ॥ ४ ॥
अनन्तोदरसंस्थाय नानाभोगकराय ते ।
मायाधाराय मायाया मोहकाय नमो नमः ॥ ५ ॥
अमेयशक्तये तुभ्यमनाधाराय दंष्ट्रिणे ।
चतुर्बाहुयुतायैव स्वानन्दपतये नमः ॥ ६ ॥
सिद्धिबुद्धिप्रदायैव सिद्धिबुद्धिधराय च ।
ब्रह्मभूताय देवाय विघ्नहर्त्रे नमोऽस्तु ते ॥ ७ ॥
वक्रतुण्ड प्रसन्नस्त्वं मह्यं देहि तदानघ ।
त्वदीयामचलां भक्तिं यया बन्धो न विद्यते ॥ ८ ॥
त्वदाज्ञया प्रवृत्तोऽहं तत्र सामर्थ्यमद्भुतम् ।
सृष्टौ देहि गणाधीश विघ्नहीनं च मे सदा ॥ ९ ॥
अहं स्रष्टा च सर्वेषां त्वया प्रोक्तो गजानन ।
अतस्त्वं पुत्रभावेन गृहे मे तिष्ठ मायया ॥ १० ॥
त्वं साक्षाद्ब्रह्मभूतश्चेद्यदि पुत्रो भविष्यसि ।
तदाहं बन्धनान्मुक्तो भविष्यामि च राजसात् ॥ ११ ॥
तव माता पिता स्वामिन् बन्धयुक्तौ कृतौ यदि ।
तदा वेदादिकं सर्वं मिथ्याभूतं भविष्यति ॥ १२ ॥
नामग्रहणमात्रेण ब्रह्मभूयप्रदो भवान् ।
किं पुनः पुत्रभावेन त्वं चेत् स्थास्यसि मे गृहे ॥ १३ ॥
अन्यच्च लालनं कुर्यां सेवनं पूजनं तथा ।
निरन्तरं प्रपश्येयं भवेयमतुलस्ततः ॥ १४ ॥
ब्रह्मणो वचनं तस्य श्रुत्वा गणपतिः स्वयम् ।
जगाद तं महाभागं हर्षयन् सर्वभाववित् ॥ १५ ॥
वक्रतुण्ड उवाच ।
त्वया यत् प्रार्थितं ब्रह्मन् तदस्तु सकलं किल ।
सृष्टिकतृर्त्वसामर्थ्यमद्भुतं ते भविष्यति ॥ १६ ॥
निर्विघ्नं सर्वकार्येषु मत्स्मृत्या प्रभविष्यति ।
यं यमिच्छसि तं तं त्वं कामं प्राप्स्यसि सर्वदा ॥ १७ ॥
तव पुत्रो भविष्यामि तारको माययांशतः ।
वाञ्छितं पूरयिष्यामि भक्तिभावेन तोषितः ॥ १८ ॥
त्वया कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति ।
मम प्रीतिकरं ब्रह्मन् ब्रह्मभूयप्रदं तथा ॥ १९ ॥
[[९३]]
इत्युक्त्वान्तर्दधे दक्ष वक्रतुण्डः प्रतापवान् ।
ब्रह्माऽपि विमना भूत्वा तत्र वै संस्थितोऽभवत् ॥ २० ॥
वक्रतुण्डप्रसादेन निर्ममे सकलं जगत् ।
चराचरमयं सर्वं यथायोग्यं चकार ह ॥ २१ ॥
सृष्ट्वा त्रिभुवनं सर्वं कृतकृत्य इवाऽभवत् ।
स्थितः स्वसुखनिष्ठः सन् वक्रतुण्डं स संस्मरन् ॥ २२ ॥
एकदा वायुवेगेन कम्पितः स प्रजापतिः ।
तस्मात् पुरुषरूपेण दम्भश्च प्रकटोऽभवत् ॥ २३ ॥
तत्पुरः पुरुषश्रेष्ठश्चतुर्बाहुधरः खलः ।
गदाचक्रत्रिशूलास्त्रधनुर्बाणधरो बभौ ॥ २४ ॥
रूपेण तेजसा पूर्णो वीर्येण ह्यतुलः परः ।
महाकायो महाबाहुः स्थितः पर्वतसन्निभः ॥ २५ ॥
तं दृष्ट्वा विस्मितो ब्रह्मा पप्रच्छ च नरं ततः ।
कस्य त्वं कुत आयातः किं कार्यं तेऽत्र वर्तते ॥ २६ ॥
वद मे पृच्छते सर्वं महाबलपराक्रम ।
धन्योऽसि रूपलावण्ययुक्तः परमशोभनः ॥ २७ ॥
ब्रह्मणो वच आकर्ण्य मेघगम्भीरया गिरा ।
उवाच तं विधातारं स्मयमान इदं वचः ॥ २८ ॥
पुरुष उवाच ।
विधेऽहं त्वां प्रजानामि प्रभावान् मे च मानद ।
तवाङ्गकम्पसम्भूतं मां जानीहि प्रजापते ॥ २९ ॥
देहि मे नाम योग्यं त्वं पुत्रोऽहं ते च सुव्रत ।
स्थानं देहि तथा वृत्तिं योगक्षेमकरीं पराम् ॥ ३० ॥
वचस्तस्य समाकर्ण्य तमूचे पद्मसम्भवः ।
हास्यं कृत्वा महाबाहुः प्रीणयन् वाक्यमादरात् ॥ ३१ ॥
ब्रह्मोवाच ।
किं मां जानासि पुत्र त्वं दम्भेन प्रब्रवीषि रे ।
अतस्त्वं दम्भनामा वै भविष्यसि महाखलः ॥ ३२ ॥
यत्र तत्र गतिस्ते वै भविष्यति महासुर ।
भोगान्नानाविधान् भुङ्क्ष्व यथारुचि यथासुखम् ॥ ३३ ॥
एवमुक्तो महाबाहुस्तं जगाम प्रणम्य सः ।
प्रदक्षिणीकृत्य विधिं क्षितिमण्डलमादरात् ॥ ३४ ॥
तत्रागत्य विचारं स कृतवान् मानसे खलः ।
ब्रह्मणाऽसत्कृतोऽहं वै तस्य गर्वं हराम्यहम् ॥ ३५ ॥
विचार्य सहसा दम्भो जगाम शरणं कविम् ।
तेनोपदिष्टमन्त्रेण ब्रह्माणं समतोषयत् ॥ ३६ ॥
एकपादेन तिष्ठन् सन्निराहारपरायणः ।
तताप तप उग्रं वै वर्षाणामयुतं गतम् ॥ ३७ ॥
तस्यैव तपसा सर्वं व्याकुलं सचराचरम् ।
न स्थातुमशकत् स्थाने भयभीतं बभूव ह ॥ ३८ ॥
तत् दृष्ट्वा परमाश्चर्यं ब्रह्मा देवगणैः सह ।
आययौ तं वरं दातुं तपसा तोषितः प्रभुः ॥ ३९ ॥
काष्ठवत्तं स्थितं वीक्ष्य विस्मितः कमलासनः ।
जगाद तं महाभागं हर्षयन्निव भाषया ॥ ४० ॥
ब्रह्मोवाच ।
वरं वृणु महाभाग यं यं मनसि संस्थितम् ।
ईप्सितं पूरयिष्यामि नात्र कार्या विचारणा ॥ ४१ ॥
ब्रह्मणो वचनं श्रुत्वा दम्भः परमहर्षितः ।
तं प्रणम्य प्रतुष्टाव बद्धाञ्जलिपुटो बली ॥ ४२ ॥
दम्भ उवाच ।
नमस्ते सृष्टिकर्त्रे वै सृष्टिपात्रे प्रजापते ।
सृष्टिहर्त्रे त्रिरूपाय ब्रह्मविष्णुशिवात्मने ॥ ४३ ॥
त्वया ततमिदं सर्वं त्वदाधारं महाप्रभो ।
त्वयि सुप्ते जगन्नष्टं भविष्यति न संशयः ॥ ४४ ॥
[[९४]]
चराचमयो भूत्वा क्रीडसि त्वं पितामह ।
एकानेकप्रभेदेन त्वं स्थितोऽसि जगत्प्रभो ॥ ४५ ॥
अणुभ्योऽणुतरस्त्वं च महद्भ्यश्च महान् किल ।
कस्त्वां स्तोतुं समर्थः स्याद् ब्रह्माकारेण संस्थितम् ॥ ४६ ॥
महद्भाग्यं विभो मेऽद्य येन ते दर्शनं परम् ।
प्राप्तं सकलपापघ्नमग्रे शुभकरं तथा ॥ ४७ ॥
यदि प्रसन्नतां यातो यदि देयो वरो महान् ।
तदा मे वाञ्छितं सर्वं पूरयस्व प्रजापते ॥ ४८ ॥
राज्यं त्रैलोक्यस्य तथा मह्यं देहि पितामह ।
पञ्चभूतात्मकेभ्यश्च मृत्युर्न च कदा भवेत् ॥ ४९ ॥
सङ्ग्रामे मत्समः कश्चिन्नान्यः स्यान् मां कुरु प्रभो ।
अखण्डैश्वर्यसंयुक्तमारोग्यादिसमन्वितम् ॥ ५० ॥
इति तस्य वचः श्रुत्वा ब्रह्मा तं प्रत्युवाच ह ।
तपसा तोषितस्तस्मै दातुमुत्सुकतां गतः ॥ ५१ ॥
ब्रह्मोवाच ।
त्वया यत्प्रार्थितं दम्भ तत्सर्वं प्रभविष्यति ।
अन्यद्यच्चिन्तितं तत्ते सिद्धरूपं भविष्यति ॥ ५२ ॥
इत्युक्त्वान्तर्दधे ब्रह्मा दम्भः संहर्षितोऽभवत् ।
स्वगृहं प्रजगामासौ महाबलपराक्रमः ॥ ५३ ॥
नगरं शोभनं नाम कारयामास दर्पितः ।
पृथिव्यां सर्वशोभाढ्यं वासं तत्र चकार ह ॥ ५४ ॥
ततो दैत्यगणाः सर्वे शुक्रेन प्रेरिता मुने ।
आययुस्तत्र दम्भस्य नगरे हर्षिता भृशम् ॥ ५५ ॥
शुक्रः समागतस्तत्र मुनिभिर्ब्रह्मवादिभिः ।
दैत्यराज्यं स दम्भायाऽभवद्दातुं स उद्यतः ॥ ५६ ॥
शुभे लग्ने मुहूर्ते च सोऽभिषेकमकारयत् ।
ब्राह्मणैर्दैत्यराजानां राजा दम्भो बभूव ह ॥ ५७ ॥
महोत्सवं हर्षितास्ते चक्रुः सर्वे समागताः ।
हृष्टपुष्टजनाकीर्णं नगरं शुशुभे भृशम् ॥ ५८ ॥
सर्वे स्वस्वगृहे जग्मुस्ततो हर्षसमन्विताः ।
मुख्याश्च संस्थितास्तत्र देत्याः परमदारुणाः ॥ ५९ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते दम्भासुरराज्याभिषेको नाम एकचत्वारिंशोऽध्यायः ॥