४० ब्रह्मणस्तपश्चरणम्

॥ श्रीगणेशाय नमः ॥

दक्ष उवाच ।

धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वया श्रावितं महत् ।
चरित्रं वक्रतुण्डस्य ब्रह्मभूयकरं महत् ॥ १ ॥

श्रुत्वा श्रुत्वा न मे तृप्तिर्जायतेऽमृततो यथा ।
इच्छामि तत्पुनः श्रोतुं पूजितो विधिना कथम् ॥ २ ॥

विस्तरेण च मे ब्रूहि कथां पापापनोदिनीम् ।
श्रोतुः प्रष्टुश्च वक्तुश्च त्रयाणां सर्वसिद्धिदाम् ॥ ३ ॥

सूत उवाच ।

दक्षस्य वचनं श्रुत्वा मुद्गलस्तमुवाच ह ।
उत्फुल्लनयनो हर्षाद्गाणेशेन्द्रः स शौनक ॥ ४ ॥

मुद्गल उवाच ।

शृणु दक्ष महाभाग धन्योऽसि न च संशयः ।
येन ते गणराजस्य कथायां प्रीतिरद्भुता ॥ ५ ॥

अल्पपुण्यवतो ढुण्ढिकथाया अवधारणे ।
श्रवणे च तथा प्रीतिर्जायते न कदाचन ॥ ६ ॥

अतस्तेहं प्रवक्ष्यामि त्वदादरसुतोषितः ।
सङ्क्षेपेण कथां दिव्यां गणेशस्य महात्मनः ॥ ७ ॥

प्रलयादौ गणेशेन सृष्टाः पञ्च सुराधिपाः ।
तेषां तपःप्रभावेण प्रसन्नो वरदोऽभवत् ॥ ८ ॥

वरस्यैव प्रभावेण समर्थास्ते बभूविरे ।
स्वस्वकार्ये प्रवृत्ताश्च सावधानेन चेतसा ॥ ९ ॥

[[९१]]

सृष्टिप्रकरणे ब्रह्मा प्रवृत्तो जगतोऽभवत् ।
न सस्मार गणेशानं विस्मृत्यादौ तदर्चनम् ॥ १० ॥

तेन भ्रान्तोऽभवत् सद्यो मानसे गर्वमादधे ।
त्रिलोके नैव मत्तुल्यः स्रष्टाऽहं नात्र संशयः ॥ ११ ॥

सृजामि सकलं विश्वं तदा विष्णुश्च पाति वै ।
रुद्रः संहरते तच्च शक्तिर्मोहं करोति च ॥ १२ ॥

सूर्यः कर्मप्रकाशं च करोति जगति प्रभुः ।
न सृष्टं चेन् मया विश्वं देवत्वं तु निरर्थकम् ॥ १३ ॥

ममाज्ञादौ गणेशेन कृता सृष्टौ विशेषतः ।
मदीयां पात्रतां दृष्ट्वा तस्मान्नान्योऽस्ति मत्समः ॥ १४ ॥

इति गर्वेण मनसि मोहितोऽभूत् पितामहः ।
ततो विघ्नगणास्तत्र प्रबभूवुरनेकशः ॥ १५ ॥

सृष्टिं विरचयन्तं तं ब्रह्माणं प्राप्य दारुणः ।
नानारूपा महावीर्यास्ताडयामासुरोजसा ॥ १६ ॥

त्रिनेत्राः पञ्चनेत्राश्च पृष्ठनेत्रा महाबलाः ।
दशतुण्डा सहस्रं च मुखानि दधतः परे ॥ १७ ॥

एवं नानास्वरूपास्ते विधिं धृत्वा प्ररेमिरे ।
बालक्रीडनकं कृत्वा दुःखयुक्तं महाबलाः ॥ १८ ॥

एवं स परवान् ब्रह्मा गर्वं सर्वं प्रमुच्य वै ।
जगाम शरणं देवं गणेशं विघ्ननायकम् ॥ १९ ॥

गतगर्वो हृदि स्मृत्वा तुष्टाव गणनायकम् ।
तेन विघ्नगणाः सर्वेऽन्तर्धानं तत्र चक्रिरे ॥ २० ॥

मुक्तो विघ्नैस्तदा ब्रह्मा तताप परमं तपः ।
षडक्षरेण मन्त्रेण वक्रतुण्डमतोषयत् ॥ २१ ॥

वायुभक्षोऽभवद्ब्रह्मा पादाङ्गुष्ठाग्रसंस्थितः ।
चकार तेजसा वृत्तिं गणेशे निश्चलां ततः ॥ २२ ॥

एवं दिव्यसहस्रं स तपस्तेपे सुदारुणम् ।
ततो भूतानि सर्वानि व्याकुलाणि तदाऽभवन् ॥ २३ ॥

ततस्तस्योग्रतपसा प्रसन्नो वक्रतुण्डकः ।
आययौ भक्तराजं तं भक्तिभावेन तोषितः ॥ २४ ॥

तेजोरूपी महाकायो वक्रतुण्डश्चतुर्भुजः ।
सिंहारूढस्त्रिनेत्रश्च पाशाङ्कुशधरो विभुः ॥ २५ ॥

वरदाभयहस्तश्च पृथुवक्षा महोदरः ।
सिद्धिबुद्धियुतश्चिन्तामणिना च विराजितः ॥ २६ ॥

नानालङ्कारसंयुक्तः शेषनाभिर्गजाननः ।
सिन्दूरारुणदेहश्च नानावस्त्रधरः प्रभुः ॥ २७ ॥

तं दृष्ट्वा भयभीतोऽसौ विधाता स्तौति तं परम् ।
गणेशं हृदि सञ्चिन्त्य नानास्तोत्रैर्विधानतः ॥ २८ ॥

वक्रतुण्डः स्तुवन्तं तमुवाच घननिस्वनः ।
वरं वृणु विधातस्त्वं दास्यामि तु न संशयः ॥ २९ ॥

इति तस्य वचः श्रुत्वा ब्रह्मा तं प्रणनाम च ।
उवाच सौम्यरूपेण वरं देहि गजानन ॥ ३० ॥

ब्रह्मणो गिरमाकर्ण्य सौम्यतेजा गजाननः ।
उवाच तं महाभागं भक्तिभावेन तोषितः ॥ ३१ ॥

वक्रतुण्ड उवाच ।

स्वानन्दनगरे संस्थं सदैतादृशरूपकम् ।
मृत्युलोके स्थितस्त्वं च कथं द्रक्ष्यसि मानद ॥ ३२ ॥

तपसा भक्तिभावेन तोषितोऽहं त्वया विधे ।
तेन सौम्यस्वरूपेण त्वदग्रे संस्थितोऽभवम् ॥ ३३ ॥

त्वं तु मत्तो वरान् ब्रूहि दास्येऽहं वाञ्छितान् परान् ।
मयि प्रसन्नतां याते दुर्लभं न भविष्यति ॥ ३४ ॥

[[९२]]

गणेशवचनं श्रुत्वा ब्रह्मा तं प्रणनाम च ।
बद्धाञ्जलिपुटो भूत्वा स्तोतुं तमुपचक्रमे ॥ ३५ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते ब्रह्मणस्तपश्चरणं नाम चत्वारिंशोऽध्यायः ॥