॥ श्रीगणेशाय नमः ॥
[[८८]]
मुद्गल उवाच ।
मत्सरं शान्तिमापन्नं दृष्ट्वा देवर्षयस्तदा ।
प्रहृष्टमनसो जातास्तुष्टुवुस्तं गजाननम् ॥ १ ॥
देवर्षय ऊचुः ।
सदा ब्रह्मभूतं विकारादिहीनं विकारादिभूतं महेशादिवन्द्यम् ।
अपारस्वरूपं स्वसंवेद्यमेकं नमामः सदा वक्रतुण्डं भजामः ॥ २ ॥
अजं निर्विकल्पं कलाकालहीनं हृदिस्थं सदा साक्षिरूपं परेशम् ।
जनज्ञानकारं प्रकाशैर्विहीनं नमामः सदा वक्रतुण्डं भजामः ॥ ३ ॥
अनन्तस्वरूपं सदानन्दकन्दं प्रकाशस्वरूपं सदा सर्वगं तम् ।
अनादिं गुणादिं गुणाधारभूतं नमामः सदा वक्रतुण्डं भजामः ॥ ४ ॥
धरावायुतेजोमयं तोयभावं सदाकाशरूपं महाभूतसंस्थम् ।
अहङ्कारधारं तमोमात्रसंस्थं नमामः सदा वक्रतुण्डं भजामः ॥ ५ ॥
रविप्राणविष्णुप्रचेतोयमेशविधात्रश्विवैश्वानरेन्द्रप्रकाशम् ।
दिशां बोधकं सर्वदेवाधिरूपं नमामः सदा वक्रतुण्डं भजामः ॥ ६ ॥
उपस्थत्वगुक्तीक्षणस्थप्रकाशं कराङ्घ्रिस्वरूपं कृतघ्राणजिह्वम् ।
गुदस्थं श्रुतिस्थं महाखप्रकाशं नमामः सदा वक्रतुण्डं भजामः ॥ ७ ॥
रजोरूपसृष्टिप्रकाशे विधिं तं सदा पालने केशवं सत्त्वसंस्थम् ।
तमोरूपधारं हरं संहरं तं नमामः सदा वक्रतुण्डं भजामः ॥ ८ ॥
दिशाधीशरूपं सदाशास्वरूपं ग्रहादिप्रकाशं ध्रुवादिं खगस्थम् ।
अनन्तोडुरूपं तदाकारहीनं नमामः सदा वक्रतुण्डं भजामः ॥ ९ ॥
महत्तत्वरूपं प्रधानस्वरूपमहङ्कारधारं त्रयीबोधकारम् ।
अनाद्यन्तमायं तदाधारपुच्छं नमामः सदा वक्रतुण्डं भजामः ॥ १० ॥
सदा कर्मधारं फलैः स्वर्गदं तमकर्मप्रकाशेन मुक्तिप्रदं तम् ।
विकर्मादिना यातनाधारभूतं नमामः सदा वक्रतुण्डं भजामः ॥ ११ ॥
अलोभस्वरूपं सदा लोभधारं जनज्ञानकारं जनाधीशपालम् ।
नृणां सिद्धिदं मानवं मानवस्थं नमामः सदा वक्रतुण्डं भजामः ॥ १२ ॥
लतावृक्षरूपं सदा पक्षिरूपं धनादिप्रकाशं सदा धान्यरूपम् ।
प्रसूपुत्रपौत्रादिनानास्वरूपं नमामः सदा वक्रतुण्डं भजामः ॥ १३ ॥
खगेशस्वरूपं वृषादिप्रसंस्थं मृगेन्द्रादिबोधं मृगेन्द्रस्वरूपम् ।
धराधारहेमाद्रिमेरुस्वरूपं नमामः सदा वक्रतुण्डं भजामः ॥ १४ ॥
सुवर्णादिधातुस्थसद्रङ्गसंस्थं समुद्रादिमेघस्वरूपं जलस्थम् ।
जले जन्तुमत्स्यादिनानाविभेदं नमामः सदा वक्रतुण्डं भजामः ॥ १५ ॥
सदा शेषनागादिनागस्वरूपं सदा नागभूषं च लीलाकरं तैः ।
सुरारिस्वरूपं च दैत्यादिभूतं नमामः सदा वक्रतुण्डं भजामः ॥ १६ ॥
वरं पाशधारं सदा भक्तपोषं महापौरुषं मायिनं सिंहसंस्थम् ।
चतुर्बाहुधारं सदा विघ्ननाशं नमामः सदा वक्रतुण्डं भजामः ॥ १७ ॥
गणेशं गणेशादिवन्द्यं सुरेशं परं सर्वपूज्यं सुबोधादिगम्यम् ।
महावाक्यवेदान्तवेद्यं परेशं नमामः सदा वक्रतुण्डं भजामः ॥ १८ ॥
अनन्तावतारैः सदा पालयन्तं स्वधर्मादिसंस्थं जनं कारयन्तम् ।
सुरैर्दैत्यपैर्वन्द्यमेकं समं त्वां नमामः सदा वक्रतुण्डं भजामः ॥ १९ ॥
[[८९]]
त्वया नाशितोऽयं महादैत्यभूपः सुशान्तेर्धरोऽयं कृतस्तेन विश्वम् ।
अखण्डप्रहर्षेण युक्तं च तं वै नमामः सदा वक्रतुण्डं भजामः ॥ २० ॥
न विन्दन्ति यं वेदवेदज्ञमर्त्या न विन्दन्ति यं शास्त्रशास्त्रज्ञभूपाः ।
न विन्दन्ति यं योगयोगीशकाद्या नमामः सदा वक्रतुण्डं भजामः ॥ २१ ॥
न वेदा विदुर्यं च देवेन्द्रमुख्या न योगैर्मुनीन्द्रा वयं किं स्तुमश्च ।
तथाऽपि स्वबुध्या स्तुतं वक्रतुण्डं नमामः सदा वक्रतुण्डं भजामः ॥ २२ ॥
मुद्गल उवाच ।
एवं स्तुत्वा वक्रतुण्डं स्थिता देवषर्यः प्रभो ।
बद्धाञ्जलिपुटाः सर्वे तूष्णीम्भावेन मानद ॥ २३ ॥
देवानां च मुनीनां स स्तुतिं श्रुत्वा गजाननः ।
उवाच तान् प्रसन्नात्मा हषर्यन् वचनं महत् ॥ २४ ॥
वक्रतुण्ड उवाच ।
शृणुध्वं मुनयः सर्वे देवा मे वचनं महत् ।
भवत्कृतमिदं स्तोत्रं मत्प्रीतेर्वधनं भवेत् ॥ २५ ॥
अनन स्तौति यो नित्यं मां तस्य परिपूरये ।
भोगान्नानाविधांश्चैव पुत्रपौत्रादिसम्पदः ॥ २६ ॥
यं यमिच्छति तं तं च दास्येऽहं नात्र संशयः ।
भुक्तिमुक्तिप्रदं चैतद्ब्रह्मभूयकरं भवेत् ॥ २७ ॥
नानासिद्धिप्रदं चैव हृदि बुद्धिप्रकाशकम् ।
सुरेन्द्रैर्वन्द्यतां याति यो मां स्तौति त्वनेन सः ॥ २८ ॥
सहस्रावर्तनान् मर्त्यः कारागृहगतं नरम् ।
मोचयेन्नात्र सन्देहो मत्प्रियः सर्वदा भवेत् ॥ २९ ॥
अपराधशतैर्युक्तो यो वै भवति मानवः ।
तस्यापराधसहनं करोमि स्तोत्रपाठतः ॥ ३० ॥
एकविंशतिवारं य एकविंशद्दिनानि वै ।
पठिष्यति सदा तस्मै चिन्तितं प्रददाम्यहम् ॥ ३१ ॥
एकविंशतिकाः श्लोका भवद्भिर्मत्प्रियात्मकैः ।
कृतास्तैर्मां स देवास्तु स्तुता वै मुनयोऽखिलाः ॥ ३२ ॥
तेन विघ्नविहीनाश्च स्वधर्मरुचयस्तथा ।
भविष्यथ महाभागा भुक्तिमुक्तिप्रदास्तथा ॥ ३३ ॥
वरं ब्रूत महाभागा येषां यन्मनसि स्थितम् ।
तद्दास्यामि न सन्देहः स्तोत्रसन्तोषितो ह्यहम् ॥ ३४ ॥
मुद्गल उवाच ।
एवमुक्ताः सुराः सर्वे मुनयस्तं प्रणम्य च ।
प्रहृष्टमानसा ऊचुर्वक्रतुण्डं महाबलम् ॥ ३५ ॥
देवर्षय ऊचुः ।
यदि प्रसन्नतां यातो वक्रतुण्ड ददासि चेत् ।
त्वदीयामचलां भक्तिं देहि नाथ दयानिधे ॥ ३६ ॥
यदि प्राप्ता त्वदीया च भक्तिर्जन्तोस्तदा प्रभो ।
किं दुर्लभं भवेत्तस्य हस्तगाः सर्वसिद्धयः ॥ ३७ ॥
अतो भक्तिं महाभाग देहि नो विघ्ननायक ।
तया तृप्ता भविष्यामस्त्वत्पादप्रवणा वयम् ॥ ३८ ॥
तेषां वचनमाकर्ण्य देवदेवो गजाननः ।
जगाद भावगम्भीरं ज्ञाता विज्ञजनप्रियः ॥ ३९ ॥
वक्रतुण्ड उवाच ।
मदीया भक्तिरचला भविष्यति न संशयः ।
भवतां भावयुक्तानां भो भो देवर्षयः खलु ॥ ४० ॥
अन्तर्दधे स उक्तैवं वक्रतुण्डो गणेश्वरः ।
पश्यतां मुनिदेवानां स्वानन्दस्थो बभूव ह ॥ ४१ ॥
ततो देवर्षयः सर्वे खिन्नाः स्वस्वपदं ययुः ।
ध्यायन्तश्च तमेवैते वक्रतुण्डं सुसिद्धिदम् ॥ ४२ ॥
[[९०]]
मत्सरोऽपि ततः सर्वैर्दैत्यैः परिवृतो ययौ ।
स्वं पदं पालयन् शीघ्रं सुशान्तो ह्यभवत् सदा ॥ ४३ ॥
तं त्यक्त्वा दैत्यसङ्घास्ते ययुः स्वं स्वं गृहं मुने ।
एवं मत्सरमाहात्म्यं वक्रतुण्डेन कारितम् ॥ ४४ ॥
स एव वक्रतुण्डस्तु सृजत्यवति च प्रभुः ।
हरते भावहीनः सन् नाद्यमध्यान्तगः स्वयम् ॥ ४५ ॥
एवं नानावतारेण स्वस्वधर्मरतान् सुरान् ।
असुरान् मानवादींश्च कुरुते वक्रतुण्डकः ॥ ४६ ॥
अवतारा अनन्ताश्च वक्रतुण्डस्य भो विभो ।
चरित्रमखिलं तेषां कथितुं शक्यते न वै ॥ ४७ ॥
ब्रह्मणा षण्मुखेनाऽपि विष्णुना शङ्करेण च ।
शेषेण मुनिभिश्चैव वेदैः काहं च तत्र वै ॥ ४८ ॥
दिवोदासशमार्थाय स एवं वक्रतुण्डकः ।
शिवपुत्रत्वमापन्नो ढुण्ढिराजेति नामतः ॥ ४९ ॥
वामनस्य वरं दातुं स एव गणनायकः ।
प्रकटोऽभून् महातेजास्तस्याग्रे भक्तपालकः ॥ ५० ॥
एवं नानावतारैश्च भक्तरक्षणलालसः ।
करोति भक्तसंरक्षां जानीहि त्वं प्रजापते ॥ ५१ ॥
ब्रह्मणा सृष्टिकार्यार्थं व्याकुलेन स न स्मृतः ।
वक्रतुण्डस्ततो दैत्यो मत्सरः प्रविवेश तम् ॥ ५२ ॥
तेनासुरस्वभावेन पीडितो विधिरद्भुतम् ।
विघ्नयुक्तोऽभवत्तत्र सृष्टिं कर्तुं न स क्षमः ॥ ५३ ॥
पुरातनं वचः स्मृत्वा पुनस्तं शरणं ययौ ।
विधिर्विघ्नविहीनः स ससर्ज सकलं जगत् ॥ ५४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते वक्रतुण्डान्तर्धानं नामैकोनचत्वारिंशोऽध्यायः ॥