३८ वक्रतुण्डविजयः

॥ श्रीगणेशाय नमः ।
मुद्गल उवाच ।

एवं ब्रुबन्तमत्यन्तं मत्सरं क्रोधसंयुतम् ।
वक्रतुण्डः प्रसन्नात्मा स्मयन्निव जगाद तम् ॥ १ ॥

वक्रतुण्ड उवाच ।

मा गर्वं कुरु दैत्येश नाहं देवो न मानुषः ।
नासुरो नैव नागश्च न गन्धर्वो न पर्वतः ॥ २ ॥

न नानायोनिजो जन्तुर्नाष्टावरणजस्तथा ।
ब्रह्मरूपोऽहमानन्दानन्दकारक एव च ॥ ३ ॥

त्वां हन्तुं मुनिदेवानां स्थापनार्थमिहागतः ।
हनिष्यामि त्वसन्देहाद देत्यनायक दुर्मते ॥ ४ ॥

शिथिलं वरपुण्यं ते साम्प्रतं पापसञ्चयात् ।
नानापापफलार्थस्य दाता तेऽहं समागतः ॥ ५ ॥

अकर्तुं कर्तुमीशं मामन्यथाकर्तुमादरात् ।
जानीहि मत्सर त्वं वै किं करिष्यसि तद्वद ॥ ६ ॥

जीवितुं चेच्छसि प्राज्ञ तदा मां शरणं व्रज ।
स्वस्थाने धर्मविद्वेषं त्यक्त्वा त्वं तु सुखी भव ॥ ७ ॥

देवादीनां च विद्वेषं त्यक्त्वा तिष्ठसि दैत्य चेत् ।
तदा त्वां न हनिष्यामि जानीहि त्वं मतं मम ॥ ८ ॥

मुद्गल उवाच ।

वक्रतुण्डवचः श्रुत्वा मत्सरो विस्मितोऽभवत् ।
उवाच तं प्रसन्नात्मा भक्तिभावेन यन्त्रितः ॥ ९ ॥

मत्सर उवाच ।

वक्रतुण्ड नमस्तुभ्यं वद मे सकलं प्रभो ।
संशयं छिन्धि तं पूर्वं हृदिस्थं गणनायक ॥ १० ॥

यदि त्वं सगुणो नासि निर्गुणोऽपि न वर्तसे ।
ब्रह्मरूपोऽसि सर्वेश तदाकारधरः कथम् ॥ ११ ॥

अन्यच्च त्वं महाभाग ब्रह्मभावेन संस्थितः ।
सुरासुरसमं ब्रह्म कथमेकं समाश्रितः ॥ १२ ॥

असुराणां निहन्ता त्वं सुराणां पालकोऽधुना ।
एतं मे संशयं ब्रह्मन् छेत्तुमर्हसि विघ्नप ॥ १३ ॥

मत्सरस्य वचः श्रुत्वा वक्रतुण्डः प्रतापवान् ।
उवाच तं महावीरं भावं दृष्ट्वा हृदि स्थितम् ॥ १४ ॥

[[८६]]

वक्रतुण्ड उवाच ।

शृणु मत्सर यत्पृष्टं त्वया बुद्धिविशारद ।
तत्सर्वं कथयिष्यामि संशयच्छेदनाय ते ॥ १५ ॥

अखिलं ब्रह्मरूपेण मया सृष्टं चराचरम् ।
लीलार्थं बन्धहीनेन स्वस्वधर्मयुतं परम् ॥ १६ ॥

पुरुषप्रकृतिभ्यां तत् पाल्यते ह्रियते मया ।
तयोर्हृदि स्थितेनैव चिन्तामणिस्वरूपिणा ॥ १७ ॥

सर्वेषां चित्तवृत्तेश्च चालकोऽहं न संशयः ।
मदाज्ञावशगं सर्वं वर्तते दैत्यपुङ्गव ॥ १८ ॥

यदा स्वधर्ममत्यन्तं त्यक्त्वा देवगणेश्वराः ।
दैत्यानां निधनार्थं च यतन्ते मूलनाशकाः ॥ १९ ॥

तदा दैत्यहृदिस्थोऽहं तपसि प्रेरकोस्म्यतः ।
दैत्याः कुर्वन्ति च तपो देवानां प्रजिघांसया ॥ २० ॥

तपसा वरलाभेन देवान् घ्नन्ति महाबलाः ।
ततस्ते सततं देवाः सत्ताहीना भवन्ति वै ॥ २१ ॥

ततोऽहं देवसङ्घानां विपरीतो न संशयः ।
भवामि चासुराणां वै सिद्धिदाता महासुर ॥ २२ ॥

यदि दैत्या महादुष्टास्त्यक्त्वा घ्नन्ति स्वधर्मकम् ।
देवान् मूलविहीनांश्च कर्तुमिच्छन्ति दानव ॥ २३ ॥

तदाऽहं देवरूपेण तेषां हृदि समास्थितः ।
छिद्रं प्रकाशयाम्यादौ हनने दैत्यरक्षसाम् ॥ २४ ॥

ततस्तेनैव देवेन्द्रा मार्गेण सुरविद्विषः ।
घ्नन्ति मत्सर ते सर्वं कथितं मे चरित्रकम् ॥ २५ ॥

यदि स्वहृदये देवा निश्चयं कु?र्वन्ते परम् ।
दैत्यानां तपसां विघ्नं कर्तव्यमिति साम्प्रतम् ॥ २६ ॥

तदाऽहं वरदाता च भवाम्यसुरनायक ।
दैत्येभ्यो नात्र सन्देहो देवगर्वप्रहारकः ॥ २७ ॥

यदि दैत्या महाभागा देवैर्जाता दुरासदाः ।
तदाऽहं दैत्यनाशाय भवामि तनुधारकः ॥ २८ ॥

यदा दैत्याश्च देवाश्च स्वस्वधर्मपरायणाः ।
तदाऽहं ब्रह्मभावेन स्थितस्तेषां हृदि ह्यहो ॥ २९ ॥

त्वया प्रपीडिता देवास्त्यक्त्वा धर्मं स्वभावजम् ।
अतस्त्वां हन्तुमायातो दैत्यराज महामते ॥ ३० ॥

इत्युक्त्वा निजरूपं तद्दर्शयामास विघ्नपः ।
बिन्दुमात्रे ब्रह्मणि स्वे संस्थितं सुन्दरं मुने ॥ ३१ ॥

वक्रतुण्डप्रसादेन तस्य दर्शनजेन च ।
फलेन दैत्यराजोऽपि दिव्यं चक्षुरवाप्तवान् ॥ ३२ ॥

तेनैव चक्षुषा तेन दैत्येन परमाद्भुतम् ।
दृष्टं रूपं गणेशस्य ब्रह्माकारं प्रजापते ॥ ३३ ॥

न न्यूनं नाधिकं तत्र न समं चात्मना न च ।
चतुष्पादमयं ब्रह्म पादहीनं स्वभावतः ॥ ३४ ॥

न देहो न च देह्यत्र सगुणो निर्गुणो न च ।
न मायामायिको भाति वक्रतुण्डो गजाननः ॥ ३५ ॥

देहं सगुणरूपं च निर्गुणं मस्तकं मुने ।
गजवक्त्रमयं तेन दृष्टं भिन्नं प्रभावतः ॥ ३६ ॥

तयोर्योगकरः साक्षाद् वक्रतुण्डः प्रतापवान् ।
संयुक्तोऽवयवाद्यैश्च ज्ञातो दैत्याधिपेन सः ॥ ३७ ॥

ततस्तं प्रणनामाथ भक्तियुक्तेन चेतसा ।
तुष्टाव परया भक्त्या बद्धाञ्जलिपुटोऽसुरः ॥ ३८ ॥

मत्सरासुर उवाच ।

नमामि वक्रतुण्डं च चतुष्पादं चतुःपरम् ।
चतुर्देहविहीनं च बिन्दुमात्रे व्यवस्थितम् ॥ ३९ ॥

साकारं च निराकारं मायारूपधरं प्रभुम् ।
नमामि मायिनं तं च मायाहीनस्वरूपकम् ॥ ४० ॥

[[८७]]

जगन्मयं च तद्धीनं सर्वकामप्रपूरकम् ।
ब्रह्मभूयप्रदं चैव नमामि गणनायकम् ॥ ४१ ॥

सिंहारूढं चतुर्बाहुं विघ्ननाशं नमामि च ।
सिद्धिबुद्धिपतिं चैव सिद्धिबुद्धिप्रदायकम् ॥ ४२ ॥

अनन्तलीलया युक्तं लीलाहीनं नमामि तम् ।
अव्यक्तं व्यक्तरूपं वै नमामि स्वहृदि स्थितम् ॥ ४३ ॥

वेदान्तवेद्यं सज्योतिर्ज्योतिषामपि भासकम् ।
नमामि सच्चिदानन्ददेहरूपं गजाननम् ॥ ४४ ॥

योगिनां हृदि संस्थं च योगिभ्यो योगदायकम् ।
भावाभावमयं देवं नमामि भववर्जितम् ॥ ४५ ॥

सर्वत्र पक्षहीनं तं सर्वपक्षधरं प्रभुम् ।
नमामि वक्रतुण्डाख्यं ब्रह्मब्रह्माधिपं विभुम् ॥ ४६ ॥

अहो भाग्यमहो भाग्यं येन दृष्टो गजाननः ।
सर्वाकारनिराकारहीनोऽयं वक्रतुण्डकः ॥ ४७ ॥

शरणं ते प्रपन्नोऽस्मि पाहि मां भक्तवत्सल ।
प्रवणं त्वत्पदे नित्यं संसारोत्तारणैषिणम् ॥ ४८ ॥

एवं स्तुत्वा वक्रतुण्डं पादयोर्निपपात ह ।
पुनः पुनः प्रणम्याऽसौ बद्धाञ्जलिपुटः स्थितः ॥ ४९ ॥

स दृष्ट्वा तादृशं दैत्यं भक्तियुक्तं गजाननः ।
जगाद तं महाभागं भक्तेशो भावतोषितः ॥ ५० ॥

वक्रतुण्ड उवाच ।

मत्सर त्वद्विनाशाय कुपितोऽहं न संशयः ।
शरणागतनाशं च नेच्छामि वृणु वाञ्छितम् ॥ ५१ ॥

इदं त्वया कृतं स्तोत्रं मत्प्रीतर्वर्धनं महत् ।
महैश्वर्यायुरारोग्यदायकं धनधान्यदम् ॥ ५२ ॥

पुत्रपौत्रकलत्रादिनानासम्पत्करं परम् ।
धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ ५३ ॥

मुद्गल उवाच ।

वक्रतुण्डवचः श्रुत्वा मत्सरो भक्तिसंयुतः ।
जगाद वचनं तत्र वक्रतुण्डं कृताञ्जलिः ॥ ५४ ॥

मत्सर उवाच ।

प्रसन्नो यदि सर्वेश मह्यं देयो वरो यदि ।
सुदृढां च तदा भक्तिं त्वदीयां देहि विघ्नप ॥ ५५ ॥

अन्यं त्वं मे वरं देहि त्वद्भक्तास्ते च मे प्रियाः ।
स्थानं देहि तथा वृत्तिं योगक्षेमकरीं प्रभो ॥ ५६ ॥

मत्सरस्य वचः श्रुत्वा वक्रतुण्डस्तमब्रवीत् ।
अचला पदि मे भक्तिरद्य ते सम्भविष्यति ॥ ५७ ॥

स्वस्वधर्मरतान् जन्तूंस्तान् रक्षस्व च मत्सर ।
मदीयान् प्रवरान् भक्तांस्तान पालय च यत्नतः ॥ ५८ ॥

मदीयमूर्तिपूजा च यत्रादौ स्मरणं भवेत् ।
सर्वारम्भेषु तत्र त्वं मा विघ्नं कुरु दैत्यप ॥ ५९ ॥

अन्यत्र सर्वभावेषु कर्मज्ञानादिकर्तृषु ।
आसुरेणैव वर्तस्व फलं ग्राह्यं त्वयाऽसुर ॥ ६० ॥

तेषां हृदि समाविश्य कुरु राज्यं महामते ।
मद्भक्त्यादिषु भावेषु दासवत्त्वं सदा भव ॥ ६१ ॥

एवमुक्तो महादैत्यस्तथेति तमुवाच ह ।
प्रणिपत्य गणेशानं हर्षयुक्तेन चेतसा ॥ ६२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते वक्रतुण्डविजयो नामाष्टत्रिंशोऽध्यायः ॥