॥ श्रीगणेशाय नमः ।
मुद्गल उवाच ।
दैत्यानां वचनं श्रुत्वा स दैत्यो मत्सरासुरः ।
मूर्च्छितः सहसा भूमौ पपात भयविह्वलः ॥ १ ॥
अनिश्वसन् दैत्यपस्तु तैराशु विधृतो नृपः ।
सावधानं प्रचक्रुस्तं प्रयत्नैः परमैस्ततः ॥ २ ॥
द्विमुहूर्तेन सम्बुद्धो मत्सरः प्रललाप ह ।
किं जातं भावि वा किं वा दैवेन विफलं कृतम् ॥ ३ ॥
तपसा त्वमरत्वं च पृथिवीराज्यमञ्जसा ।
मया प्राप्तं स्वसामर्थ्यादतुलं तद् वृथा कृतम् ॥ ४ ॥
अहो हि बलवद् दैवं प्रयत्नो निष्फलो मतः ।
अचिन्त्या मेऽभयप्राप्तिः पश्चात् सूर्योदयो यथा ॥ ५ ॥
मृता दैत्या असङ्ख्याश्च मदर्थं नात्र संशयः ।
मृतौ पुत्रौ महाकालौ कालस्य कथमद्य तौ ॥ ६ ॥
अधुना शोकसन्तप्तो मरिष्यामि न संशयः ।
मृतौ पुत्रौ महाकालौ किं कार्यं जीवितेन मे ॥ ७ ॥
ब्रह्माण्डाधिपतेः पुत्रौ कथं तो निधनं गतौ ।
कथं मिथ्या हि जातं मे वरदानं महत्तरम् ॥ ८ ॥
अहो पुत्रौ महावीर्यौ कथं मरणमापतुः ।
याभ्यां स्वभुजवीर्येण जिता विष्णुमुखाः सुराः ॥ ९ ॥
अहो पुत्रौ च मां त्यक्त्वा घोरे दुःखार्णवे परे ।
क्व गतौ वदतं वाक्यमभूतं निष्ठुरौ कथम् ॥ १० ॥
सखींश्च पितरं वृद्धं त्यक्त्वा मां सुन्दरप्रिय ।
विषयप्रिय मद्बलौ कथं मृत्युमुपस्थितौ ॥ ११ ॥
इति नानाविधं शौकं चक्रे दैत्येन्द्रपालकः ।
तं ते सभ्यवराः सर्वे सान्त्वयामासुरादरात् ॥ १२ ॥
वृद्धा ऊचुः ।
न रोदनं प्रकर्तव्यं त्वया दैत्येन्द्रनायक ।
रणे मृतौ महावीर्यौ कीर्तिं कृत्वा महत्तराम् ॥ १३ ॥
देहस्य मरणं नित्यं जन्म चैव तथा प्रभो ।
किं चित्रं तच्च सञ्जातं येन शोचसि दैत्यप ॥ १४ ॥
[[८४]]
आत्मनो मरणं नैव जन्मशास्त्रेषु कथ्यते ।
मायामोहं परित्यज्य स्वस्थो भव महामते ॥ १५ ॥
जन्तोरूर्ध्वक्रिया सर्वा कर्तव्या स्वजनैरपि ।
अतस्त्वं दैत्यराजेन्द्र सार्थकं त्वेतयोः कुरु ॥ १६ ॥
अथवा तौ परित्यज्य वक्रतुण्डं जहि प्रभो ।
अथवा शरणं याहि येनैव कुशलं भवेत् ॥ १७ ॥
वीरा रुदन्ति कुत्रापि नैव जानीहि दैत्यप ।
सपत्नान् हर्षसंयुक्तान् मा कुरुष्वाधुना परान् ॥ १८ ॥
एवं प्रबोधितो दैत्यो मत्सरः क्रोधसंयुतः ।
आदाय सकलं सैन्यं ययौ सङ्ग्राममण्डलम् ॥ १९ ॥
मत्सरासुरमायान्तं दृष्ट्वा शम्भ्वादयः सुराः ।
भयभीताश्च तं प्रोचुर्वक्रतुण्डं प्रणम्य ते ॥ २० ॥
स्वामिन् समागतो दैत्यो मत्सरः स प्रतापवान् ।
यस्याग्रे मशका देवास्तृणरूपा नरादयः ॥ २१ ॥
यस्याग्रे वशवर्तिन्यः श्रियः सर्वार्थदायिकाः ।
ब्रह्माण्डं कम्पते यस्य भयात्सोऽयं समागतः ॥ २२ ॥
यस्य राज्ये महाभागा जना दुःखविवर्जिताः ।
सर्वर्तुफलदा वृक्षा मेघाः कालप्रवर्षिणः ॥ २३ ॥
यस्याज्ञा वशगश्वासौ तपत्येव दिवाकरः ।
न शीतं प्रबलं तत्र मत्सरे राज्यभोगिनि ॥ २४ ॥
न रोगाः प्रचरन्तीह भयभीताः सम्मततः ।
न च चोरादिसन्त्रस्तं जगद्राज्यं प्रशासति ॥ २५ ॥
यस्य पूजा च सर्वत्र जगति क्रियते जनैः ।
यज्ञादि सर्वमखिलं भुक्तं येन महात्मना ॥ २६ ॥
कालो बिभेति यं दृष्ट्वा तदाज्ञा पालकोऽभवत् ।
कर्मखण्डनमप्यत्र कृतं येन सुरारिणा ॥ २७ ॥
न स्वाहा न स्वधा यत्र न वषट्कार एव च ।
न वेदाध्ययनाचारो मत्सरे राज्यकर्तरि ॥ २८ ॥
न स्नानादिक्रिया यत्र न स्वधर्मः स्वभावजः ।
न वर्णाश्रमयोर्धर्मो मत्सरे राज्यकर्तरि ॥ २९ ॥
देवाः श्वापदतुल्या वै भ्रमन्ति वनगोचराः ।
अन्नवस्त्रादिसंहीनाः कृता दैत्येन्द्रकेण भोः ॥ ३० ॥
मुनयस्तपसा हीनाः शापसामर्थ्यहीनकाः ।
कृता मत्सरदैत्येन सोऽयं स्वामिन् समागतः ॥ ३१ ॥
देवाङ्गनाश्च तत्कन्या नागकन्या महात्मना ।
भुक्ता नानाविधा भोगाः सोऽयं मत्सर आगतः ॥ ३२ ॥
नरकन्याः पशोःकन्या मुनिकन्या: समाहृताः ।
बलेन न समं यस्य ब्रह्माण्डे सोऽयमागतः ॥ ३३ ॥
यस्याष्टावरणैर्मृत्युर्न भवेच्च कदाचन ।
सोऽयं समागतो दैत्यः पश्य पश्य गणाधिप ॥ ३४ ॥
इत्येवं ब्रुवतो देवान् वक्रतुण्डो महाबलः ।
मा भयं कुरुत प्राज्ञा हनिष्यामीति सोऽब्रवीत् ॥ ३५ ॥
सिंहारूढो महाबाहुरेकदन्तविराजितः ।
पाशाङ्कुशधरो भूत्वा ययौ सङ्ग्राममण्डलम् ॥ ३६ ॥
प्रमोदामोदकाद्यैश्च संवृतं युद्धलालसम् ।
तं दृष्ट्वा क्रोधसंयुक्तो मत्सरः प्राह भर्त्सयन् ॥ ३७ ॥
मत्सरासुर उवाच ।
किमर्थमागतस्त्वं मे वक्रतुण्ड रणेऽग्रतः ।
अद्यैव त्वां हनिष्यामि मा मुखं दर्शयस्व रे ॥ ३८ ॥
मूढोऽसि येन सङ्ग्रामं कर्तुमागत एव च ।
न मे मृत्युर्भवेदष्टावरणैर्देहधारिभिः ॥ ३९ ॥
[[८५]]
शम्भुविष्णुमुखैर्देवैः प्रेरितस्त्वं न बुध्यसे ।
मोहभावेन संयातो मत्सरेण युयुत्सुना ॥ ४० ॥
हन्मि त्वामेकबाणेन ससैन्यं नात्र संशयः ।
पदाघातेन मे भूमिर्विशीर्णा जायते खल ॥ ४१ ॥
तलप्रहारसंयुक्ताः पर्वताश्चूर्णतां गताः ।
तस्याऽग्रे कथमायातः कालेन प्रेरितोऽथवा ॥ ४२ ॥
शब्दगर्जनमात्रेण कम्पते सचराचरम् ।
तस्याग्रे त्वं सुसङ्ग्रामं किं करिष्यसि तद्वद ॥ ४३ ॥
ब्रह्माण्डं सकलं युद्धे जितं येन प्रभावतः ।
तदा त्वं कुत्र गुप्तः सन् स्थितोऽसि भयभावितः ॥ ४४ ॥
समीचीनमिदं मूढाऽधुना खल कृतं त्वया ।
दृष्टेः समीपगो जातो हतो मम भविष्यसि ॥ ४५ ॥
शरणं याहि मे दुष्ट जीवितुं यदि चेच्छसि ।
मदाज्ञावशगो भूत्वा वने तिष्ठ यथासुखम् ॥ ४६ ॥
मूढभावेन संयातं त्वां न हन्मि च निर्बलम् ।
प्रेरकान् मुनिदेवांस्ते तान् हनिष्यामि निश्चितम् ॥ ४७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरसमागमो नाम सप्तत्रिंशोऽध्यायः ॥