३६ सुन्दरप्रियविषयप्रियवधः

॥ श्रीगणेशाय नमः ॥

[[८१]]

दक्ष उवाच ।

वद ब्रह्मन्विशेषेण मम हर्षकरीं कथाम् ।
विस्तरेण महाभाग वक्रतुण्डप्रभावजाम् ॥ १ ॥

मुद्गल उवाच ।

न शक्यतेऽग्निपुत्रेण विस्तरेण पिनाकिना ।
शेषेण विधिना वक्तुं सङ्क्षपेण ब्रवीम्यतः ॥ २ ॥

दक्ष उवाच ।

किमुक्तं दैत्यपुत्राभ्यां शङ्करेण श्रुतं वद ।
श्रुत्वा तत् किं कृतं तेन महादेवेन मानद ॥ ३ ॥

दैत्याभ्यां किं कृतं तत्र तद्वद त्वं विशेषतः ।
श्रुत्वा त्वद्वदनाम्भोजात् कथां तृप्याम्यहं न च ॥ ४ ॥

सूत उवाच ।

एवमादरमाज्ञाय दक्षस्य प्रयतात्मनः ।
मुद्गलस्तमुवाचाथ हर्षयुक्तः स शौनक ॥ ५ ॥

मुद्गल उवाच ।

दैत्यपुत्रौ महावीर्यौ शङ्करं क्रोधसंयुतौ ।
यदूचतुश्च तत्सर्वं शृणु दक्ष प्रजापते ॥ ६ ॥

मत्सरपुत्रावूचतुः ।
तिष्ठ तिष्ठ महादेव पश्य पौरुषमावयोः ।
ज्ञातं त्वदीयं सामर्थ्यं न च गन्तुं त्वमर्हसि ॥ ७ ॥

अस्मदीया महासेना हता सर्वा सदाशिव ।
दैत्येन्द्राः पातिताः सर्वे त्वया शङ्कर तेजसा ॥ ८ ॥

पौरुषं दर्शितं पूर्णं सर्वदेवातिगं महत् ।
अधुना त्वां हनिष्यावो वक्रतुण्डस्य पश्यतः ॥ ९ ॥

त्वां हत्वा वक्रतुण्डं च हनिष्यावो न संशयः ।
पश्चात् सर्वान् सुरेन्द्रांश्च ततो मुनिगणान् सुरान् ॥ १० ॥

एवमुक्त्वा महादेवं धनुः सज्जं प्रचक्रतुः ।
तावुवाच महादेवः स्मयमान इदं वचः ॥ ११ ॥

शिव उवाच ।

भवद्भ्यां गदितं क्रूरं तत्सर्वं तथ्यमेव च ।
अधुनाऽयं समुत्पन्नो वक्रतुण्डो महाबलः ॥ १२ ॥

भूभारहरणार्थं वै भवतां नाशनाय च ।
अधुना स गतः कालो विपरीतेन कर्मणा ॥ १३ ॥

वक्रतुण्डप्रसादेन हनिष्यामि समत्सरम् ।
असुरं बलमत्यर्थं पापरूपं न संशयः ॥ १४ ॥

इत्युक्त्वा बाणवृष्टिं स चक्रे वै शङ्करः प्रभुः ।
महोग्रां कालरूपां वै प्रलयस्य प्रकाशिनीम् ॥ १५ ॥

तां च चिच्छिदतुर्दैत्यो स्वशरैरतिवगितैः ।
तौ मण्डपं क्षणेनैव चक्रतुः शरसम्भवम् ॥ १६ ॥

तद्बाणैरपि ते देवाश्छिन्ना भिन्नाः कृता मुने ।
शङ्करो विस्मितो भूत्वा शूलमुग्रं मुमोच ह ॥ १७ ॥

आगतं कालरूपं च शूलं दृष्ट्वा महासुरौ ।
महास्त्रं तौ पाशुपतं मोचयामासतुस्तदा ॥ १८ ॥

अनिवार्यं महोग्रं वै सर्वभस्मकरं परम् ।
जज्वाल तेजसा सर्वं ब्रह्माण्डं व्याकुलं ततः ॥ १९ ॥

त्रिशूलं निष्फलं तेन महास्त्रेण कृतं क्षणात् ।
शिवस्य हृदये गत्वा पपात भयदायकम् ॥ २० ॥

मूर्च्छितः शङ्करस्तेन पतितो धरणीतले ।
हाहाकारश्च सर्वत्र देवसैन्ये ततोऽभवत् ॥ २१ ॥

पतितं शङ्करं दृष्ट्वा वक्रतुण्डो महाबलः ।
स्वां सेनां प्रेरयामास दैत्यमर्दनलालसः ॥ २२ ॥

गणेशदूतमुख्यास्तेष्वष्टौ तत्राययुः परे ।
स्वां स्वां सेनां समादाय महाकाया महाबलाः ॥ २३ ॥

प्रमोदश्चैष आमोदस्तथा ब्रह्मप्रियो मुने ।
योगप्रियश्च स्वानन्दभोक्ता ज्ञानमयश्च हि ॥ २४ ॥

सर्वगः सर्वविच्चैव क्रोधयुक्ताः समाययुः ।
तैः प्रेक्षिताः सुराः सर्वे गतमूर्च्छास्तदाऽभवन् ॥ २५ ॥

[[८२]]

श्रमहीनाः क्षतादिभ्यो हीना जाताः प्रभावतः ।
तेजसा द्विगुणाश्चैव हृष्टपुष्टा यथा मुने ॥ २६ ॥

एतस्मिन्नन्तरे तत्र कविना जीवितास्तथा ।
दैत्याः समुत्थिताः सर्वे नीरुजश्च महाबलाः ॥ २७ ॥

प्रह्लादप्रमुखा वीराश्चक्रुर्नादं समन्ततः ।
ब्रह्माण्डमखिलं तेन सनादमभवत् परम् ॥ २८ ॥

ततो देवगणाः सर्वे शङ्खनादं प्रचक्रिरे ।
तेन दैत्यगणा भीता बधिरा इव ते स्थिताः ॥ २९ ॥

शङ्खानां चैव भेरीणां दुन्दुभीनां स्वरैः परैः ।
वीराणां क्ष्वेडितेनैव हेषितैर्बृंहितस्वनैः ॥ ३० ॥

रथनेमिस्वनैः सर्वं व्याप्तमासीन्नभो मुने ।
परस्परं सम्पदं च वीक्ष्य वीक्ष्य च विस्मिताः ॥ ३१ ॥

एतस्मिन्नेव काले ते प्रमोदाद्या गणा ययुः ।
कुपिताः शस्त्रसंवृष्टिं चक्रिरे दैत्यमोहिनीम् ॥ ३२ ॥

तेषां शस्त्राणि सर्वाणि ह्यमोघानि महामुने ।
चिच्छिदुर्दैत्यराजानां मस्तकानि भुजादिकान् ॥ ३३ ॥

ब्रह्मप्रियो महाबाहुः शुक्रं धृत्वा प्रपश्यताम् ।
असुराणां गतो दूरं गुहायां चाक्षिपन् मुनिम् ॥ ३४ ॥

गतं शुक्रं तदा दृष्ट्वा दैत्याः सर्वे भयातुराः ।
हाहाकारं प्रचक्रुस्ते किं भविष्यति विह्वलाः ॥ ३५ ॥

रक्षिता गुरुरत्युग्रः पश्यतां नो महासुराः ।
नीतश्च मरणं तस्माच्छ्रेष्ठं किं न मृता वयम् ॥ ३६ ॥

अधुना क्व गमिष्यामस्तस्माद्युद्ध्यामहे वयम् ।
मरिष्यामोऽथ वा मोचयिष्यामस्तं स्वतेजसा ॥ ३७ ॥

परस्परं चेति दैत्या उक्त्वा मरणनिश्चयाः ।
उदायुधाश्च सर्वे ते युयुधुर्देवसैनिकैः ॥ ३८ ॥

व्यङ्गा देवाः कृतास्तैस्ते पतिता रणमूर्धनि ।
हाहाकारश्च सर्वत्र देवसैन्ये प्रवर्तितः ॥ ३९ ॥

ततो ब्रह्मप्रियाद्या ये कुपिताः शस्त्रधारिणः ।
परशुप्रमुखैः शस्त्रैस्त्रिशूलाङ्कुशपाशकैः ॥ ४० ॥

शस्त्रैर्दैत्यान्निजघ्नुस्तान् कालरुद्रा इव प्रजाः ।
तैरस्त्रैर्दैत्यसेनायाः कदनं कृतमञ्जसा ॥ ४१ ॥

बहवश्व मृता दैत्या मूर्च्छिताश्चापरेऽवनौ ।
पेतुस्ते सर्वशो वीरा प्रह्लादप्रमुखा मुने ॥ ४२ ॥

ततो दैत्यकुमारौ तावागतौ रणमूर्धनि ।
ऊचतुस्तान् गणांस्तत्र प्रमोदाद्यान् महासुरौ ॥ ४३ ॥

दैत्यपुत्रावूचतुः ।
प्रमोदामोदकाद्याश्च भवद्भिर्बलमञ्जसा ।
हतं सर्वं च दैत्यानां दैत्यश्रेष्ठाः प्रमूर्च्छिताः ॥ ४४ ॥

अधुना मरणं प्राप्तं समीपे वः प्रदृश्यताम् ।
शस्त्रैस्तीक्ष्णैर्हनिष्यावो वक्रतुण्डयुतान् खलान् ॥ ४५ ॥

एवमुक्त्वा स्वबाणांस्तौ ववर्षतुरथासुरौ ।
ततस्तयोर्बलं वीक्ष्य द्वौ वीरौ समुपस्थितौ ॥ ४६ ॥

सर्वगः सर्वविच्चैव सबलौ धृतकार्मुकौ ।
बाणवृष्टिं तु संवार्य बाणांश्चिक्षिपतुः परान् ॥ ४७ ॥

अमोघाः सर्वबाणास्ते जग्मुः कालयमोपमाः ।
दैत्यान् सर्वान् प्रचकुस्ते छिन्नभिन्नात्मकान् मुने ॥ ४८ ॥

मृता मुमूर्षवः केचित्पतिता धरणीतले ।
अकस्माद्रक्तसम्भूता नदी तत्र प्रवर्तिता ॥ ४९ ॥

तयोर्बलं निरीक्ष्यैव कम्पितौ दैत्युपुङ्गवौ ।
अग्न्यस्त्रं धनुषि श्रेष्ठं दधतुः क्रोधसंयुतौ ॥ ५० ॥

यावन् मुमुचतुस्तावत् परशू यमसन्निभो ।
आगतौ च शिरश्छेदं दैत्ययोश्चक्रतुः क्षणात् ॥ ५१ ॥

[[८३]]

मत्सरस्य सुतौ वीक्ष्य मृतौ सर्वे भयातुराः ।
मत्सरं शरणं जग्मुरूचुर्वृत्तान्तमञ्जसा ॥ ५२ ॥

दैत्या ऊचुः ।
शृणु दैत्येश वृत्तान्तं रणभूमिसमुद्भवम् ।
महाभयङ्करं घोरं कथितुं शक्यते न च ॥ ५३ ॥

प्रह्लादप्रमुखाः सर्वे घातिता रणमूर्धनि ।
मृततुल्या मृता वा किमस्माभिर्ज्ञायते न च ॥ ५४ ॥

तव पुत्रौ महावीर्यौ मृतौ सङ्ग्राममण्डले ।
कृत्वा युद्धं महाघोरं परशुभ्यां महामते ॥ ५५ ॥

अकस्माद्वक्रतुण्डस्य गणौ द्वौ समुपस्थितौ ।
ताभ्यां चैव हतौ वीरौ स्वल्पकालेन दैत्यप ॥ ५६ ॥

वक्रतुण्डसमश्चैव न भूतो न भविष्यति ।
इति स्वान्ते च सञ्ज्ञाय देवं तं शरणं व्रज ॥ ५७ ॥

नोचेद्दैत्यगणाः सर्वे नाशं यास्यन्ति निश्चितम् ।
मा गर्वं कुरु दैत्येश दैत्यान् रक्ष महामते ॥ ५८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते सुन्दरप्रियविषयप्रियवधो नाम षट्त्रिंशोऽध्यायः ॥