॥ श्रीगणेशाय नमः ॥
[[७९]]
मुद्गल उवाच ।
एवं परस्परं घोरं युद्धं कृत्वा महाबलाः ।
न जयं प्राप्नुवन्ति स्म कर्म चैव यथासुरम् ॥ १ ॥
तं दृष्ट्वा परमाश्चर्यं प्रह्लादः कुपितोऽभवत् ।
धनुः सज्जं महाघोरं कृत्वा बाणान् समाददे ॥ २ ॥
मन्त्रयन्ननलास्त्रेण चिक्षेप स शरान् बहून् ।
तेभ्यो जातो महानग्निः प्रलयानलसन्निभः ॥ ३ ॥
ददाह देवसेनां स प्रह्लादोऽसुरसत्तमः ।
भयभीताः सुराः सर्वे जज्वलुश्च समन्ततः ॥ ४ ॥
हाहाकारं प्रकुर्वन्तो दग्धास्ते जातवेदसा ।
मर्यादां रणभूमिं च तथा त्यक्त्वा पलायिताः ॥ ५ ॥
महाग्निः सर्वतस्तान् वै सुरान् वाहनसंयुतान् ।
प्रबलो दाहयामास प्रह्लादेन प्रचोदितः ॥ ६ ॥
तेन दैत्यगणाः सर्वे हर्षयुक्ता बभूविरे ।
प्रह्लादं पूजयन्तस्ते साधु साधु कृतं त्वया ॥ ७ ॥
सर्वान् पलायमानान् स सुरान् दृष्ट्वा पुरन्दरः ।
मेघास्त्रं योजयामास धनुषि क्रोधसंयुतः ॥ ८ ॥
एतस्मिन्नन्तरे तत्र प्रह्लादः समुपागतः ।
खड्गेन सहसेन्द्रस्य धनुश्चिच्छेद लाघवात् ॥ ९ ॥
तत इन्द्रः प्रकोपेन वज्रं तत्याज तं प्रति ।
वज्रेण निहतो भूमौ प्रह्लादः स पपात ह ॥ १० ॥
पतितं तं तथा दृष्ट्वा महिषासुर आगतः ।
गदया देवराजं तं जघान खलु मस्तके ॥ ११ ॥
गदया निहतः सोऽपि पपात रणमूर्धनि ।
मघवा मूच्छितोऽत्यन्तं मुखाद्रक्तं समुद्वमन् ॥ १२ ॥
ततोऽग्निः परमक्रुद्धो जज्वाल ज्वालयासुरम् ।
महिषो जलरूपोऽभूत् प्लावयामास तं क्षणात् ॥ १३ ॥
निस्तेजाश्चिन्तया युक्ताः शक्तिं चिक्षेप पावकः ।
तां खड्गेन महादैत्यः पातयामास भूतले ॥ १४ ॥
ततो महिषरूपेण शृङ्गाभ्यां दहनं पुनः ।
चकार मूर्च्छितं क्रुद्धः पपात महसां निधिः ॥ १५ ॥
ततो ययौ यमस्तं वै दण्डघातेन सोऽहनत् ।
जक्रे सम्मूर्च्छितं दैत्यं महिषं भयदायकम् ॥ १६ ॥
एतस्मिन्नन्तरे तत्र प्रतापी च विरोचनः ।
खड्गेन तं जघानाशु यमं सर्वभयङ्करम् ॥ १७ ॥
पपात खड्गाघातेन यमो यमवतां प्रभुः ।
वरुणस्तं बबन्धापि पाशेन च विरोचनम् ॥ १८ ॥
ततस्तं मोचयामास पाशं छित्वा महाबलः ।
अन्धक: खड्गाघातेन गदया वरुणं तथा ॥ १९ ॥
मूर्च्छितं च चकाराऽभूदुत्थितः स विरोचनः ।
ततो वायुः कुबेरश्च तावुभौ क्रोधमूच्छितौ ॥ २० ॥
वायुना खड्गघातेन मूर्च्छितस्त्वमितौजसा ।
अन्धकासुरनामाऽसौ पपात धरणीतले ॥ २१ ॥
शम्बरेण हतो वायुर्मुसलेन महाबलः ।
स पपात तदा भूमौ देवः सर्वधरोऽपि सन् ॥ २२ ॥
विरोचनेने बाणौघैस्ताडितो धनरक्षकः ।
मर्मभेदिभिरत्युग्रैः पपाताऽसौ महाबलः ॥ २३ ॥
एतस्मिन्नन्तरे तत्र विष्णुः स्वयमुपागतः ।
गदया तं जघानैव विरोचनमथो रिपुम् ॥ २४ ॥
भिन्नोरसं च दैत्येशं मृततुल्यं चकार ह ।
अन्धकं चक्रघातेन पातयामास केशवः ॥ २५ ॥
[[८०]]
शम्बरं बाणजालैः सम्पातयामास भूतले ।
कुपितो माधवस्तत्र चक्रं तत्याज दारुणम् ॥ २६ ॥
चक्रेण क्षुरधारेण हता दैत्याः सहस्रशः ।
गदया मूर्च्छिताः केचिन् मुख्या ये तत्र संस्थिताः ॥ २७ ॥
एतस्मिन् समरे वीरः प्रह्लादः सम्बभूव ह ।
सावधानो महाभागस्तं ययौ क्रोधदीपितः ॥ २८ ॥
बाणवृष्टिं चकाराऽसौ महोग्रां देवनाशिनीम् ।
तया ताञ्च्छिन्नभिन्नाङ्गान् देवांश्चक्रे धरातले ॥ २९ ॥
गदया देवदेवेशं केशवं युयुधे भृशम् ।
खड्गेन मूर्च्छितं चक्रे गरुडं दैत्यनायकः ॥ ३० ॥
ततश्च कुपितो विष्णुस्तं हन्तुं चक्रमाददे ।
बहुधा भ्रामयामास तत्त्याज ह्यस्त्रमुत्तमम् ॥ ३१ ॥
तन्मस्तकानि दैत्यानां चक्रं चिच्छेद सर्वतः ।
बाहूदरभुजांश्चैव चकार शकलीकृतान् ॥ ३२ ॥
सहसाऽसुरराजं च प्रह्लादं हन्तुमाययौ ।
चक्रं तेजोमयं दिव्यं समीपे ज्वलनप्रभम् ॥ ३३ ॥
प्रह्लादस्त्वरयास्त्रं च महाधनुषि सन्दधे ।
नारायणात्मकं चैव हृदि स्मृत्वा जनार्दनम् ॥ ३४ ॥
मुमोच तन् महास्त्रं वै तेजोरूपममोघकम् ।
अनिवार्यं जगद्भस्मकारकं कुपितः परः ॥ ३५ ॥
नारायणास्त्रवेगेन चक्रं प्रतिहतं ततः ।
देवान् सर्वान् ददाहापि महास्त्रं सर्वतः परम् ॥ ३६ ॥
हृदये सहसागत्य पतितं केशवस्य तत् ।
मूर्च्छितं मृततुल्यं तं चकार च जनार्दनम् ॥ ३७ ॥
ततो मदयुता दैत्या जगर्जुर्हर्षसंयुताः ।
प्रशशंसुर्महाभागं प्रह्लादं तेजसान्वितम् ॥ ३८ ॥
नारायणास्त्रसन्दग्धान् देवर्षीन् वीक्ष्य शङ्करः ।
क्षुभितो देवरक्षार्थं पिनाकं स्वकरे दधौ ॥ ३९ ॥
महास्त्रं तत् पाशुपतं सन्दधे क्रोधसंयुतः ।
बलेन मोचयामास त्वरावान् शङ्करोऽभवन् ॥ ४० ॥
महास्त्रं वै पाशुपतं तथा नारायणात्मकम् ।
उभे अस्त्रे संयुगे ते युयुधाते विहायसि ॥ ४१ ॥
देवा मुनिगणास्तत्र हर्षयुक्ता बभूविरे ।
प्रशशंसुर्महादेवं देवदेवं च शङ्करम् ॥ ४२ ॥
ततः पशुपतिः क्रुद्धस्त्रिशूलं सन्दधे मुने ।
तत्याज दैत्यसेनायां कुर्वाणं प्रलयं परम् ॥ ४३ ॥
त्रिशूलं च करोति स्म मृतान् दैत्यान् सहस्रशः ।
प्रह्लादहृदयेकस्मात् पपात यमसन्निभम् ॥ ४४ ॥
तेनाऽसौ पतितो भूमौ वाताहत इव द्रुमः ।
दैत्यसैन्ये महानासीत्तदा कोलाहलः परः ॥ ४५ ॥
ततस्त्रिशूलवेगेन शितेन सहसाऽसुराः ।
मूर्च्छिताश्च कृताः केचित् केचिद्वै मारिता मुने ॥ ४६ ॥
सर्वेऽसुरगणास्तत्र पतिता रणमूर्धनि ।
ततो मत्सरपुत्रौ द्वौ शङ्करं जग्मतुः प्रभो ॥ ४७ ॥
सुन्दरप्रियनामा च विषयप्रिय एव यः ।
ऊचतुः शङ्करं तत्र क्रोधयुक्तौ महासुरौ ॥ ४८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते शिवविजयो नाम पञ्चत्रिंशोऽध्यायः ॥