३४ देवासुरयुद्धप्रसङ्गः

॥ श्रीगणेशाय नमः ॥

[[७७]]

मुद्गल उवाच ।

दैत्या भ्रमणयुक्तास्ते आययुर्ढुण्ढिसन्निधौ ।
यत्र देवगणैर्युक्तो वक्रतुण्डः प्रतापवान् ॥ १ ॥

दृष्ट्वा तं वक्रतुण्डं ते भयभीतास्तदाऽभवन् ।
महाकायं महावीर्यं नरनागस्वरूपिणम् ॥ २ ॥

नानावीरैः परिवृतं प्रलयाग्निसमैः परैः ।
देवैर्हर्षसमायुक्तैः संस्तुतं भक्तिभावितैः ॥ ३ ॥

मनसा दैत्यपाः सर्वे मेनिरे मृत्युमात्मनः ।
सत्याकाशभवा वाणी सोऽयं वक्राननो भवेत् ॥ ४ ॥

वक्रतुण्ड जय त्वं वै जय त्वं जय सर्वदा ।
देवैः प्रकथ्यते तस्माद्वक्रतुण्डोऽयमागतः ॥ ५ ॥

यदि युद्धं करिष्यामोऽनेन सार्धं महाद्भुतम् ।
युद्धे वयं मृताश्चेद्वा वृत्तान्तं को निवेदयेत् ॥ ६ ॥

अतो मत्सरदैत्येशं गमिष्यामो जवान्विताः ।
एवं निश्चययुक्तास्ते मत्सरं जग्मुरादरात् ॥ ७ ॥

स देवो वक्रतुण्डस्तु दूरतः पञ्चयोजनम् ।
ईर्ष्यापूरं परित्यज्य स्थितः कृत्वा सभां प्रभुः ॥ ८ ॥

दैत्यास्ते मत्सरं गत्वा वृत्तान्तं तं न्यवेदयन् ।
भोराजन् सत्यमेवेदं वचनं खसमुद्भवम् ॥ ९ ॥

नरकुञ्जररूपेण दृष्टो वक्राननः प्रभुः ।
देवैः समावृतो भूप विचारं कुरु सर्वथा ॥ १० ॥

तेषां वचनमाकर्ण्य मत्सरश्चिन्तयान्वितः ।
बभूव म्लानतुण्डश्च ज्ञात्वा शत्रुं महाबलम् ॥ ११ ॥

ततः क्रोधसमाविष्टस्तं हन्तुं कृतवान् मनः ।
आज्ञापयत् स दैत्येन्द्रान् सज्जिता भो भवन्त्विति ॥ १२ ॥

गमिष्यामि रिपुं हन्तुं वक्रतुण्डं महाबलम् ।
सदेवं सपरीवारं ततो हृदि सुखं भवेत् ॥ १३ ॥

आज्ञामात्रेण दैत्येशाः सन्नद्धाः समुपाययुः ।
हर्षेण महता युक्ता देवमर्दनलालसाः ॥ १४ ॥

चतुरङ्गं महत्सैन्यं निःसृतं नगराद्बहिः ।
तन्मध्ये मत्सरो वीरः शुशुभे रथसङ्गतः ॥ १५ ॥

आगतास्ते त्वराभाजो वक्रतुण्डः स्थितो यतः ।
तान् दृष्ट्वा देवसङ्घास्तं शशंसुर्गणनायकम् ॥ १६ ॥

स्वामिन् समागतो दैत्यः स्वयमेव महाप्रभो ।
यत्करिष्यसि देवस्त्वं त्वरया तत् कुरु प्रभो ॥ १७ ॥

अस्मान्नोचेच्च दैतेया हनिष्यन्ति महाबलाः ।
मरणं प्राप्तमस्माभिः कुत्र स्थातुं न शक्यते ॥ १८ ॥

देवानां वक्रतुण्डश्च श्रुत्वा वचनमादरात् ।
उवाच विस्मितो भूत्वा मा भयं कुरुत प्रियाः ॥ १९ ॥

स दैत्यं मत्सरं देवा हनिष्यामि न संशयः ।
पश्यन्तु कौतुकं युद्धे मदीयं परमाद्भुतम् ॥ २० ॥

इत्युक्त्वा वक्रतुण्डः स सिंहारूढोऽभवत्प्रभुः ।
पाशाङ्कुशकरो गर्जन्मेघनादसमस्वनः ॥ २१ ॥

तस्य शब्देन सन्त्रस्तं त्रैलोक्यं सचराचरम् ।
भयभीता दैत्यगणा बभूवुश्च प्रजापते ॥ २२ ॥

मत्सरो हृदि सन्त्रस्तो वचनं चेदमब्रवीत् ।
दृश्यते प्रबला सेना किं भविष्यति दैत्यपाः ॥ २३ ॥

भययुक्तं वचस्तस्य श्रुत्वा तं दैत्यपा जगुः ।
वयं योत्स्यामहे स्वामिन् पश्य त्वं युद्धजं महः ॥ २४ ॥

इत्युक्त्वा मत्सरं सर्वे प्रह्लादप्रमुखाः सुराः ।
वक्रतुण्डं ययुर्वीरा नादयन्तस्त्रिविष्टपम् ॥ २५ ॥

[[७८]]

बाणवृष्टिं महोग्रां ते चक्रुः क्रोधसमन्विताः ।
ववर्षुरस्त्रशस्त्राणि वर्षाकाले घना इव ॥ २६ ॥

तैरस्त्रैर्दैत्यराजैश्च हता सेना दिवौकसाम् ।
देवा विष्णुमुखास्तत्र युयुधुस्तान समागतान् ॥ २७ ॥

घोरयुद्धं ततस्तेषां देवासुरविनाशनम् ।
अभवद्दारुणं क्रूरं द्रष्टुं नैव प्रशक्यते ॥ २८ ॥

देवाश्च दानवाश्चैव युयुधुः शस्त्रपाणयः ।
मरणे निश्चयं कृत्वा परस्परजयेप्सवः ॥ २९ ॥

केचिद्बाणमयीं वृ?ष्टिंः चक्रुः शक्तीस्तु केचन ।
चिक्षिपुर्भिन्दिपालांश्च खड्गैर्वै चिच्छिदुः परे ॥ ३० ॥

बबन्धुरपरे पाशैर्भल्लैर्वा विव्यधुः परे ।
गदायुद्धं महाघोरं चक्रिरे वीरसत्तमाः ॥ ३१ ॥

मुद्गरैश्च महावीरा मारयामासुरोजसा ।
मल्लयुद्धं परे चक्रुर्नादयन्तो दिशो दश ॥ ३२ ॥

सैन्यस्य रजसा सर्वं व्याप्तमासीद् दिगन्तरम् ।
नाभूत् स्वपरबोधोऽपि पुरोगान् जघ्निरे तदा ॥ ३३ ॥

शस्त्रैः शस्त्राणि संवार्य तथास्त्रैरस्त्रसञ्चयम् ।
बाणैर्बाणान् समारुष्टाश्चिच्छिदुस्ते परस्परम् ॥ ३४ ॥

शस्त्रे भग्ने च ते वीरा मल्लयुद्धं सुदारुणम् ।
चक्रिरे क्रोधसंयुक्ता मण्डलानि प्रबभ्रमुः ॥ ३५ ॥

हस्तेन हस्तमापीड्य पादैः पादान् प्रगृह्य च ।
कूर्परं कूपरेणैव मर्दयामासुरोजसा ॥ ३६ ॥

मस्तकं मस्तकेनैव जानुभ्यां जानुनी तथा ।
ललाटेन ललाटं च स्फालयामासुरञ्जसा ॥ ३७ ॥

एवं युद्धे प्रवृत्ते वै मृताः कैचित्तु मूर्च्छिताः ।
भग्नाः केऽपि क्षता अन्ये नानाशस्त्रप्रहारतः ॥ ३८ ॥

शोणितौघवहा घोरा नदी जाता दुरत्यया ।
रक्तेन सर्वतस्तत्र रेणवो मज्जितास्ततः ॥ ३९ ॥

तेन प्रकाशितास्तत्र दिशः स्वपरबोधिकाः ।
ततोऽभूत्तुमुलं युद्धं यथायोग्यं प्रजापते ॥ ४० ॥

रथिनो रथिभिः सार्धं गजिनो गजिभिस्तथा ।
अश्वारूढा हयारूद्वैः पदाताश्च पदातिभिः ॥ ४१ ॥

श्रेष्ठा युयुधिरे श्रेष्ठैर्महाबलसमन्वितैः ।
प्रबोध्य जघ्निरे केचिद्वीराः समरशालिनः ॥ ४२ ॥

परस्परमभिन्दंस्ते शस्त्रास्त्रैर्मर्मभेदिभिः ।
सर्वे शुशुभिरे चैव पुष्पिताः किंशुका इव ॥ ४३ ॥

कदाचिज्जयिनो देवाः कदाचिद्दानवास्तथा ।
न रात्रौ विश्रमं चक्रुः क्रोधयुक्ताः परस्परम् ॥ ४४ ॥

एवं पञ्चदिनं युद्धमभवत्तत्र दारुणम् ।
न जयं प्राप्नुयुर्देवा दैत्याचाऽपि प्रजापते ॥ ४५ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते देवासुरयुद्धप्रसङ्गो नाम चतुस्त्रिंशोऽध्यायः ॥