॥ श्रीगणेशाय नमः ॥
[[७५]]
मुद्गल उवाच ।
एवमुक्त्वा सुरान् विप्रान् सस्मार बलमुत्कटम् ।
तस्य स्मरणमात्रेण प्रादुर्भूता गणाः प्रभोः ॥ १ ॥
प्रमोदामोदकाद्याश्च वक्रतुण्डा गजाननाः ।
चतुर्बाहुधराः सर्वे नानाशस्त्रास्त्रपाणयः ॥ २ ॥
केचित् सिंहसमारूढाः केचिन्मूषकवाहनाः ।
केचिन्मयूरमारूढाः शेषारूढास्तथापरे ॥ ३ ॥
अश्वारूढास्तथान्ये च मुकुटैः सुविराजिताः ।
कटकैः कुण्डलैश्चैव नानाभूषणराजिताः ॥ ४ ॥
भयङ्कराश्च शत्रूणां भक्तेभ्यः सुखदायकाः ।
महात्मानो महाशब्दा ब्रह्माण्डस्फोटकारकाः ॥ ५ ॥
नानाक्रीडासमायुक्ताः सदा स्वानन्दभाविताः ।
गणेशनाममाहात्म्यं कथयन्तः परस्परम् ॥ ६ ॥
वक्रतुण्डं नमस्कृत्य स्थिताः प्राञ्जलयोऽभवन् ।
आज्ञां कुरु गणाध्यक्ष करवामस्तवेप्सितम् ॥ ७ ॥
अस्माकं स्मरणं देव किमर्थं कृतमादरात् ।
दासान् त्वदीयपादस्य करिष्यामोऽखिलान् जनान् ॥ ८ ॥
तेषां वचनमाकर्ण्य वक्रतुण्डः प्रतापवान् ।
उवाच तान् महाभागान् मेघगम्भीरनिस्वनः ॥ ९ ॥
वक्रतुण्ड उवाच ।
शृणुध्वं मोदकाद्याश्च मत्सरासुरदैत्यपम् ।
हनिष्यामि महावीर्यं तेन युद्धं भविष्यति ॥ १० ॥
अधुना दारुणं तत्र मया सह महाबलाः ।
एतदर्थं विशेषेण स्मरणं भवतां कृतम् ॥ ११ ॥
वक्रतुण्डवचः श्रुत्वा सर्वे हर्षसमन्विताः ।
गणा ऊचुः प्रणम्यैनं निबद्धकरसम्पुटाः ॥ १२ ॥
गणा ऊचुः ।
स्वामिन् वदसि यत्सर्वं तदाश्चर्यमयं बहु ।
मत्सरासुरनाशश्च एकेन क्रियतेऽधुना ॥ १३ ॥
त्वत्प्रसादात् सदा सर्वं सुलभं नो गणाधिप ।
आज्ञां कुरु महाभाग पश्य चैकस्य पौरुषम् ॥ १४ ॥
गणानां तद्वचो रम्यं श्रुत्वा प्राह गणाधिपः ।
वक्रतुण्डः प्रसन्नात्मा हर्षयन् सकलानिव ॥ १५ ॥
वक्रतुण्ड उवाच ।
भवद्भिः कथितं सर्वं तत्तथा न तदन्यथा ।
क्रीडार्थं निर्मितो दैत्यो मया मायाप्रभावतः ॥ १६ ॥
यदि क्षणेन तं दैत्यं नाशयामि प्रभावतः ।
तदा क्रीडा कथं देवा मया प्रक्रियते परा ॥ १७ ॥
अतस्तेन महाभागा युध्यध्वं मम सन्निधौ ।
अष्टावरणहीनेन हन्मि रूपेण तं क्षणात् ॥ १८ ॥
इति तस्य वचः श्रुत्वा गणा हर्षसमन्विताः ।
जगर्जुर्नादयन्तस्ते दिशो विदिश एव च ॥ १९ ॥
तद् दृष्ट्वा परमाश्चर्यं विस्मितास्ते सुरर्षयः ।
हर्षेण महता युक्ता मेनिरे मत्सरं हतम् ॥ २० ॥
ततः सर्वान् समादाय गणान् देवान् मुनीनपि ।
वक्रतुण्डो ययौ तां च पुरीमीर्ष्याह्वयां पराम् ॥ २१ ॥
यत्र राज्यं च कुरुते मत्सरः स प्रतापवान् ।
ब्रह्माण्डस्य महावीरो नानाभोगसमन्वितः ॥ २२ ॥
देवाङ्गनापरिवृतः सदा तिष्ठति दैत्यपः ।
मद्यादिपानसंयुक्तो नानावीरपालितः ॥ २३ ॥
यद्यन्मनसि तेनापि चिन्तितं सफलं सदा ।
तत्तद्भवति सर्वं स्म तपसा वरदानतः ॥ २४ ॥
[[७६]]
न बुबोध गतं कालं कालेनेव च वञ्चितः ।
धन्योऽहम्मन्यमानो न मत्समो मानसेऽपरः ॥ २५ ॥
एकस्मिन् दिवसे तत्र सभायां संस्थितोऽभवत् ।
वीरैः परिवृतो नाना नृत्यं पश्यन् विनोदतः ॥ २६ ॥
तत्राकाशात्तदा वाणी बभूव भयदायिका ।
आगतो मत्सरं हन्तुं वक्रतुण्डो महाबलः ॥ २७ ॥
श्रुत्वाऽऽकाशभवां वाणीं मूर्च्छितो मत्सरासुरः ।
पतितः शुष्ककण्ठश्च कम्पमानाङ्गविह्वलः ॥ २८ ॥
तं तथा पतितं दृष्ट्वाऽसुराः सर्वे भयातुराः ।
केनोक्तं परुषं वाक्यं हन्मस्तं त्वद्य निश्चितम् ॥ २९ ॥
ततः केचिन्नभोमार्गे बभ्रमुर्यत्र तत्र ते ।
ददृशुस्तं न तत्रापि सभायां पुनराययुः ॥ ३० ॥
सर्वैः कृतः स दैत्येशः सावधानो यथा पुरा ।
उपविष्टः सभामध्ये हृदयेन विदूयता ॥ ३१ ॥
उवाच हि स्वतो वाचं मत्सरो भयविह्वलः ।
वचनं किमिदं सत्यमनृतं वा भविष्यति ॥ ३२ ॥
कालस्य कालरूपोऽहं मम मृत्युः कथं भवेत् ।
असत्या नभसो वाणी न ज्ञाता न श्रुताऽपि च ॥ ३३ ॥
अष्टावरणसंयुक्तं ब्रह्माण्डं सर्वमञ्जसा ।
अष्टावरणयुक्तेभ्यो मम मृत्युर्न जायते ॥ ३४ ॥
कोऽसौ वक्राननो जन्तुः कथितः कुत्र वर्तते ।
तं हनिष्यामि दृश्यश्चेत् क्षणमात्रान्न संशयः ॥ ३५ ॥
इति श्रुत्वा वचस्तस्य मत्सरस्य दुरात्मनः ।
ऊचुः प्रह्लादमुख्यास्तं विनयेन समन्विताः ॥ ३६ ॥
प्रल्हादादय ऊचुः ।
मा कुरुष्व महाभाग चिन्तां शत्रुनिषूदन ।
तव मृत्युः कथं भावी पश्चात् सूर्योदयः कथम् ॥ ३७ ॥
अस्माकं शत्रुभावेन स्थिता देवाः सहेश्वराः ।
जितास्तदपि सर्वे ते छिद्रदर्शिन एव च ॥ ३८ ॥
तैश्च माया कृता च स्यादीदृशी वाऽसुरोत्तम ।
अन्यथा ते महामृत्युः कथं भवति मानद ॥ ३९ ॥
नेयमाकाशवाणी भोस्तस्माद्देवान् सहेश्वरान् ।
हनिष्यामोऽद्य दैत्येश शत्रुहीनास्तदा वयम् ॥ ४० ॥
तेषां वचनमाकर्ण्य मत्सरश्चैव हर्षितः ।
सत्यमुक्तं भवद्भिर्यद्गन्तव्यं विद्विषां वधे ॥ ४१ ॥
मत्सराज्ञां समादाय निःसृता दैत्यपुङ्गवाः ।
विचिन्वन्ति स्म सर्वत्र देवान् सर्वान् प्रयत्नतः ॥ ४२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरविचारणं नाम त्रयस्त्रिंशोऽध्यायः ॥