॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
शृणु दक्ष महाप्राज्ञ चेष्टितं परमं महत् ।
यत्कृतं सर्वदेवैस्तत् कथयामि समासतः ॥ १ ॥
गते मुनौ महाभागे शिवो हर्षसमन्वितः ।
गणेशं हृदि सञ्चिन्त्य ब्रह्मादींश्च वचोऽब्रवीत् ॥ २ ॥
शृणु विष्णो विधे देवाः शृणुध्वं सर्वतापसाः ।
ऋषयः संस्थिता अत्र वचनं हितकारकम् ॥ ३ ॥
आत्रेयेण च दत्तेनं कथितं दुःखनाशनम् ।
अत एकाक्षरेणैव प्रसादयत विघ्नपम् ॥ ४ ॥
शम्भोर्वचनमाकये मुनयो देवनायकाः ।
साधुसाध्वब्रुवन् सर्वे प्रसन्नाश्च तथाऽभवन् ॥ ५ ॥
तत एकाक्षरेणैव मन्त्रेण गणपं मुने ।
देवाश्च मुनयः सर्वे सेवयामासुरादरात् ॥ ६ ॥
महोग्रतपसा युक्ताः स्थितास्तत्र शिवादयः ।
आराधयंस्तु देवेशं गणेशं सर्वनायकम् ॥ ७ ॥
पद्मासनगताः केचिद्वीरासनगताः परे ।
स्वस्तिकासन आसीना एवं नानासने स्थिताः ॥ ८ ॥
निराहारतया केचित् स्थितास्तत्र प्रजापते ।
पत्रवायुभुजश्चान्ये प्राणायामपरायणाः ॥ ९ ॥
जलभक्ष्याः स्वपादाग्रस्थिताः केचिद् दृढासनाः ।
केचिन्मानसपूजाभिः पूजयामासुरञ्जसा ॥ १० ॥
[[७३]]
केचित् पुष्पोपहाराद्यैर्यत्नतः समपूजयन् ।
प्रदक्षिणापराः केचिदेवं नानाविधानतः ॥ ११ ॥
तपन्तो गणपं चैव मन्त्रेण विधिपूर्वकम् ।
एकचित्तेन सर्वे ते तोषयामासुरञ्जसा ॥ १२ ॥
एवं वर्षसहस्रेण दिव्येन तपसा स्वयम् ।
प्रसन्नोऽभून् महातेजा वक्रतुण्डः प्रतापवान् ॥ १३ ॥
देवानां च ऋषीणां च ययौ चाग्रे गणाधिपम् ।
तेजसा पुञ्ज एवाऽसौ साक्षाद् ब्रह्ममयो बभौ ॥ १४ ॥
सिंहगो गजवक्त्रश्च शूर्पकर्णो महोदरः ।
चतुर्बाहुश्च पाशेनाङ्कुशेन वरदेन च ॥ १५ ॥
अभयेन समायुक्तो वामाङ्गे सिद्धिधारकः ।
दक्षिणाङ्गे च बुद्धिं वै दधानो भगवान् परः ॥ १६ ॥
नाभिशेषो मुकुटवान् कुण्डली कटकान्वितः ।
चिन्तामणिलसद्वक्षा व्यालयज्ञोपवीतवान् ॥ १७ ॥
नानाभूषणशोभाढ्यस्तेजसा ज्वलदद्भुतः ।
पुष्करं पुष्करे धृत्वा भ्रामयन् समुपाययौ ॥ १८ ॥
तं दृष्ट्वा देवविप्रास्ते भयभीताः समन्ततः ।
उदितं किमिदं तेजः प्रलयानलसन्निभम् ॥ १९ ॥
अथवा गणराजोऽयं किं वा स्वामी समागतः ।
अथवा प्रलयो भावी अकाले दैवनिर्मितः ॥ २० ॥
इति तर्कसमायुक्तान् देवान् मुनिसमन्वितान् ।
उवाच वक्रतुण्डस्तान् मेघगम्भीरनिस्वनः ॥ २१ ॥
वक्रतुण्ड उवाच ।
भो भो मुनिगणा देवाः स एवाऽहं समागतः ।
यं ध्यायथ महाभागास्तं जानीत गणेश्वरम् ॥ २२ ॥
तपसा मन्त्रराजेन मम ध्यानेन सर्वशः ।
परितुष्टो वरं दातुमागतोऽहं न संशयः ॥ २३ ॥
मुद्गल उवाच ।
वक्रतुण्डवचः श्रुत्वा हर्षिता अमरर्षयः ।
प्रणेमुः प्रार्थयामासुः सौम्यभावं प्रविह्वलाः ॥ २४ ॥
तेषां प्रार्थितमाकर्ण्य सौम्यतेजा अभूत् प्रभुः ।
यथा तं मुनयो देवा अपश्यन् स्वेन चक्षुषा ॥ २५ ॥
सौम्यभावेन संयुक्तं वक्रतुण्डं सुरेश्वराः ।
मुनयस्तं प्रणम्योचुर्धन्या धन्या वयं प्रभो ॥ २६ ॥
अपूजयन् प्रयत्नेन भावेन स्नेहतस्तथा ।
उपचारैः षड्दशभिर्यथाविधि महेश्वराः ॥ २७ ॥
यथाविधि प्रणम्यैव तुष्टुवुः कृतमङ्गलाः ।
बद्धाञ्जलिपुटाः सर्वे भक्तिनम्रात्मकन्धराः ॥ २८ ॥
साश्रुनेत्राः सरोमाञ्चास्तद्दर्शनमहोत्सवाः ।
यथाज्ञानं यथान्यायं वक्रतुण्डं महौजसम् ॥ २९ ॥
देवर्षय ऊचुः ।
नमस्ते वक्रतुण्डाय गजवक्त्राय ते नमः ।
एकदन्ताय देवाय सर्वाधिपतये नमः ॥ ३० ॥
निर्गुणाय निरूपाय चतुर्बाहुधराय ते ।
सिंहवाहाय नागानां पत्युर्नाभौ धराय च ॥ ३१ ॥
अनन्ताय ह्यपाराय दुर्लक्ष्याय नमो नमः ।
पाशाङ्कुशधरायैव नागयज्ञोपवीतिने ॥ ३२ ॥
वरदाभयहस्ताय सिद्धिबुद्धिवराय च ।
ब्रह्मभूताय भक्तानां ब्रह्मभूयकराय ते ॥ ३३ ॥
नमस्ते शम्भुरूपाय विष्णुरूपाय ते नमः ।
सूर्यरूपाय धात्रे च नमः शक्तिमयाय च ॥ ३४ ॥
दैत्यदानवरूपाय देवरूपधराय च ।
नमः पक्षिस्वरूपाय शुकरूपाय ते नमः ॥ ३५ ॥
ग्रहनक्षत्ररूपाय लतावृक्षस्वरूपिणे ।
पर्वताय नमस्तुभ्यं सरित्सागररूपिणे ॥ ३६ ॥
[[७४]]
जलजन्तुस्वरूपाय सर्परूपाय ते नमः ।
वेदाधिकाशीतिलक्षयोनिसंस्थाय ते नमः ॥ ३७ ॥
चराचरमयायैव नमो नानाप्रभेदिने ।
कर्माकर्मस्वरूपाय नमः खलु विकर्मणे ॥ ३८ ॥
ज्ञानयोगाय देवाय स्वात्मरूपधराय ते ।
स्वसंवेद्यस्वरूपाय सदा योगमयाय ते ॥ ३९ ॥
नानाधारप्रधाराय शब्दब्रह्ममयाय ते ।
मायारूपाय मायायै मायाहीनाय ते नमः ॥ ४० ॥
मायिभ्यो मोहदात्रे च सर्वकाराय ते नमः ।
स्थूलसूक्ष्मादिभेदाय भेदहीनाय ते नमः ॥ ४१ ॥
भेदाभेदमयायैवानन्तपाराय ते नमः ।
भक्तेभ्यो वरदात्रे च भक्तसंरक्षकाय ते ॥ ४२ ॥
नमो नमः परेशायाव्ययाय च नमो नमः ।
गणेशाय नमस्तुभ्यं योगाधीशाय ते नमः ॥ ४३ ॥
यं स्तोतुं न समर्थाश्च वेदाः साङ्गाश्च योगिनः ।
तं किं स्तुमो गणेशानं वक्रतुण्डस्वरूपिणम् ॥ ४४ ॥
मायादुःखं च सर्वेषां मनसि ज्ञानकारकम् ।
ब्रह्म तस्मात्तथा वक्रं ज्ञानहीनं बुधैः स्मृतम् ॥ ४५ ॥
माया च ब्रह्मतुण्डं यद् द्वयोर्योगे भवेत्परम् ।
योगशान्तिश्च सर्वेषां योगिनां हृदि संस्थिता ॥ ४६ ॥
मायादेहस्वरूपा ते ब्रह्म वक्रं स्मृतं मुखम् ।
उभयोर्योगभावे त्वं वक्रतुण्डः प्रकथ्यते ॥ ४७ ॥
तं वक्रतुण्डं पश्याम: साक्षाद् योगमयं परम् ।
धन्या वयं गणाध्यक्षं स्तुत्वा तं प्रणताः स्तवैः ॥ ४८ ॥
धन्यं जन्म त्वक्षि धन्यं धन्याः सम्पद एव च ।
ज्ञानं धन्यं तपश्चैव येन दृष्टो गजाननः ॥ ४९ ॥
प्रसन्नो यदि देवेश यदि देयो वरः शुभः ।
तदा त्वदीयपादाब्जे भक्तिरस्तु सदा च नः ॥ ५० ॥
प्रार्थयामो वरं चैतं यतस्त्वं चिन्तितार्थदः ।
मत्सरासुरनाशं च वक्रतुण्ड कुरु प्रभो ॥ ५१ ॥
जगत्स?र्वं वयं चैव पीडितास्तेन विघ्नप ।
सर्वेषामुपकारार्थं जहि दैत्यं महाबलम् ॥ ५२ ॥
स्तुत्वैवं प्रार्थयित्वा तं प्रणतास्ते सुरर्षयः ।
तानुत्थाप्य स्वयं साक्षाद्वक्रतुण्ड उवाच ह ॥ ५३ ॥
वक्रतुण्ड उवाच ।
भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं परम् ।
भविष्यति महाभागा ईप्सितार्थप्रदं महत् ॥ ५४ ॥
मत्सरासुरनाशं च करिष्यामि सुरर्षयः ।
भवतां भक्तियोगेन प्रसन्नः पूर्णतां गतः ॥ ५५ ॥
पञ्चभूतमयं स?र्वं त्रिगुणं जगदुच्यते ।
अष्टावरणसंयुक्तं ब्रह्माण्डं हि सुरर्षयः ॥ ५६ ॥
अष्टावरणसंयुक्ता देवाः सर्वे च मानवाः ।
नागाश्चराचरं स?र्वं तस्य तेभ्यो भयं नहि ॥ ५७ ॥
अतो मत्सरदैत्यस्य नाशश्च कठिनो महान् ।
तथापि भवतां देवाः करिष्यामि प्रियं द्विजाः ॥ ५८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते वक्रतुण्डप्रादुर्भावो नाम द्वात्रिंशोऽध्यायः ॥