॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
शृणु दक्ष महाश्चर्यं दैत्यस्य च विचेष्टितम् ।
ब्रह्माण्डाधिपतिर्जातो मत्सरः कर्मणा स्वयम् ॥ १ ॥
सुन्दरप्रियपुत्रं च कैलासाधिपतिं ततः ।
चक्रे वैकुण्ठनाथं तं पुत्रं स्वं विजयप्रियम् ॥ २ ॥
प्रह्लादं सत्यलोकेशं माहेन्द्रेशं विरोचनम् ।
एवं चक्रे च राजेशः स्वर्गाधीशान् स दैत्यपान् ॥ ३ ॥
स्वयं भूमिं समागम्य नगरं निर्ममे ततः ।
मत्सरावासकं नाम तत्रैव न्यवसन्मुदा ॥ ४ ॥
त्रैलोक्यं वशगं सर्वं चकार स्वेन तेजसा ।
शिवादयश्च देवेन्द्रा गृहे तस्य समास्थिताः ॥ ५ ॥
तान् समानाय्य दैत्येशो हर्षयुक्तेन चेतसा ।
उवाच मधुरं वाक्यं सामयुक्तं महासुरः ॥ ६ ॥
शृणु शम्भो महाभाग देवेन्द्रैः सह देवप ।
यत्रेच्छा गच्छ तत्र त्वं मदाज्ञां पालयन् सदा ॥ ७ ॥
एवमुक्त्वा स दैत्येन्द्रो मोचयामास शङ्करम् ।
देवैः सह महाभागो मत्सरो हर्षसंयुतः ॥ ८ ॥
शिवोऽपि देवसङ्घातैः पर्वतद्रोणिमाश्रितः ।
चिन्ताविष्टो महादेवः कालं पश्यंश्च संस्थितः ॥ ९ ॥
यत्र तत्र गुहायां ते देवा विष्णुपुरोगमाः ।
संस्थिता भयभीताश्च दिवसानतिचक्रमुः ॥ १० ॥
पृथिव्यां दैत्यराजेन ततो धर्मस्य खण्डनम् ।
कृतं सर्वत्र तेनैव हाहाकारोऽभवन् महान् ॥ ११ ॥
देवानां प्रतिमा यत्र तां भङ्क्त्वा चिक्षिपुर्जले ।
दैत्यास्तदाज्ञया दक्ष धर्मलोपं प्रचक्रिरे ॥ १२ ॥
मत्सरस्य च दैतेयाः प्रतिमाः सर्वभावतः ।
देशे देशे पुरे ग्रामे स्थापयामासुरञ्जसा ॥ १३ ॥
गृहे गृहे च देवानां प्रतिमां संस्थितां पराम् ।
तां भङ्क्त्वा जलमध्ये ते चिक्षिपुश्च प्रजापते ॥ १४ ॥
मत्सरप्रतिमां कृत्वा प्रतिगेहं ददुस्ततः ।
देत्याः सुदारुणा विश्वं त्रासयामासुरेव च ॥ १५ ॥
ब्राह्मणांश्च समानीय ताडयामास मत्सरः ।
ममैव मन्त्रसूक्तेन यज्ञादि क्रियतां द्विजाः ॥ १६ ॥
मम नाम्ना च गायत्रीं युक्तां जपत मा चिरम् ।
अग्निहोत्रादिकं कर्म कुरुध्वं मन्मतं तथा ॥ १७ ॥
अहमेवेश्वरो देवो ब्राह्मणादि जनस्य च ।
भजतां मम पादौ च दुर्लभं किं भविष्यति ॥ १८ ॥
धनधान्यादिकं सर्वं स्वर्गभोगादिसंयुतम् ।
दास्यामि नात्र सन्देहो मदधीनं जगत्सदा ॥ १९ ॥
[[७१]]
मम प्रीतिकरा येन दैत्या भोज्यैः प्रपूजिताः ।
तेन सन्तर्पितो नूनं वाञ्छितं पूरयाम्यहम् ॥ २० ॥
एवमादि स सर्वत्र नानाधर्मनिकृन्तनम् ।
कारयामास दुर्बुद्धिर्मत्सरो मत्सरान्वितः ॥ २१ ॥
केचिदृषिगणा दक्ष वनं व्याघ्रादिसंयुतम् ।
जग्मुस्तत्र क्रियाः सर्वाश्चक्रुर्धर्मपरायणाः ॥ २२ ॥
देहरक्षणसक्ताश्च मुनयो भ्रंशमागताः ।
सर्ववर्णपरिभ्रष्टा जना जाताः प्रजापते ॥ २३ ॥
यजनं याजनं तत्र स्वधर्मादिस्वभावजम् ।
कर्म सर्वं न चक्रुस्ते जनास्तद्भयभाविताः ॥ २४ ॥
न स्वाहा न स्वधा कुत्र न वषट्कार आभवत् ।
वर्णसङ्करकृल्लोकाः स्थिता भयसमन्विताः ॥ २५ ॥
एवं पापस्य वृद्धिश्च सञ्जाता भयदायिनी ।
ततो देवगणाः सर्वे उपोषणनिपीडिताः ॥ २६ ॥
विचारं तत्र चक्रुस्ते मत्सरस्य विनाशने ।
न च किञ्चिद्भयोद्विग्ना नाशार्थं शेकुरोजसा ॥ २७ ॥
एतस्मिन्नन्तरे तत्र दत्तात्रेयः समाययौ ।
साक्षाद् ब्रह्ममयो योगी न्यस्तस्वपरविभ्रमः ॥ २८ ॥
मलिनो जडवल्लोके भ्रमति स्म पिशाचवत् ।
चेष्टितैश्चेष्टते नग्नो बालवद् द्वन्द्वकारकः ॥ २९ ॥
उन्मत्तवन्महाभागो भयं नैव प्रविन्दति ।
आत्रेयो गणराजस्य भक्तः परमशोभनः ॥ ३० ॥
तं दृष्ट्वा देवसङ्घास्ते समुत्तस्थुः सुसादराः ।
प्रणेमुः कार्यसिध्यर्थं पूजयामासुरञ्जसा ॥ ३१ ॥
पादसंवाहनं तस्य चक्रुः केचन भावतः ।
फलादिना च नैवेद्यमर्पयामासुरादरात् ॥ ३२ ॥
पप्रच्छुर्भुक्तवन्तं तं विनयेन समन्विताः ।
शम्भुविष्णुमुखाः सर्वे भयभीता महामुनिम् ॥ ३३ ॥
शिव उवाच ।
स्वामिंस्त्वं द्वन्द्वहीनश्च नित्यमानन्दभाक् परः ।
न्यस्तस्वपरभावश्च तथाऽपि जनवत्सलः ॥ ३४ ॥
गणेशस्य वरो भक्तः साक्षाद्गणपतिः स्वयम् ।
योगभावेन सम्पन्नो योगी योगविदां वरः ॥ ३५ ॥
तथापि दुःखितान् दृष्ट्वा मनस्ते कलिलं भवेत् ।
उपाधिहीनभावेन दुःखनाशं करोषि वै ॥ ३६ ॥
अतो वयं महाभाग पीडिता मत्सरेण वै ।
भ्रष्टस्थाना वने सर्वे चरामः श्वापदा इव ॥ ३७ ॥
अत्राऽपि धर्मलोपेन पीडिता वयमुत्कटम् ।
उपोषणपराः स्वामिन् मरिष्यामो महामते ॥ ३८ ॥
अत्र ते दर्शनं प्राप्तं पूर्वपुण्यबलेन भोः ।
तेन दुःखविहीनाश्च भविष्यामो न संशयः ॥ ३९ ॥
अतो मत्सरदैत्यस्य नाशोपायं वद प्रभो ।
येन सर्वं जगत्क्लिष्टं तत् सुखं कुरु मानद ॥ ४० ॥
एकस्य दोषयोगेन बहवः पीडिता यदि ।
अनुपाधितया योगी तं दोषं नाशयिष्यति ॥ ४१ ॥
शक्तश्चेत् स्वस्वभावेन सर्वेभ्यः सुखदायकः ।
अतस्त्वं रक्ष योगीश जगत् कृत्स्नं विशेषतः ॥ ४२ ॥
मुद्गल उवाच ।
शिवस्य वचनं श्रुत्वा देवान् दीनतमान् परान् ।
दृष्ट्वा स करुणायुक्तः प्रत्युवाच च हर्षयन् ॥ ४३ ॥
दत्तात्रेय उवाच ।
[[७२]]
शृणु शम्भो जगन्नाथ त्वं साक्षादीश्वरः शिवः ।
तवाधीनमिदं सर्वं त्वां ब्रुवे किं महामते ॥ ४४ ॥
तथापि वच्मि देवेश त्वदाज्ञासम्प्रचोदितः ।
येन त्वं देवसंयुक्तः सुखं विन्दसि शाश्वतम् ॥ ४५ ॥
त्वदीये हृदये शम्भो मत्सरः संस्थितोऽधुना ।
ईश्वरोऽहमिदं सर्वं मदधीनं प्रवर्तते ॥ ४६ ॥
न मत्समस्त्रिभुवने इति यन् मत्सरः स च ।
जहि तं योगमार्गेण हृदयस्थं महासुरम् ॥ ४७ ॥
श्रेष्ठं दृष्ट्वा महेर्ष्या ते जायते या महामते ।
जहि तां तपसा शम्भो गणेशस्य प्रसेवया ॥ ४८ ॥
एकाक्षरविधानेन मयाऽसौ सेवितः पुरा ।
तेनाऽहं च गणाधीशो न भिन्नौ मयि तिष्ठतः ॥ ४९ ॥
अतस्त्वं योगमार्गेण गणेशं सर्वसिद्धिदम् ।
एकाक्षरविधानेन तमाराधय यत्नतः ॥ ५० ॥
हृदिस्थं मत्सरं हत्वा पश्चात्तं जहि दानवम् ।
योगेन त्वं समर्थो हि भविताऽसि न संशयः ॥ ५१ ॥
एवमुक्त्वा महादेवं गतोऽसौ मुनिसत्तमः ।
यदृच्छया चरन् सन् वै सेवते गणनायकम् ॥ ५२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते दत्तात्रेयसङ्गमो नामैकत्रिंशोऽध्यायः ॥