३० शिवादिपराजयः

॥ श्रीगणेशाय नमः ॥

[[६८]]

मुद्गल उवाच ।

गणानां च पिशाचानां वचनं दारुणं महत् ।
श्रुत्वा शिवः स्वयं तत्र युद्धार्थं दंशितोऽभवत् ॥ १ ॥

ब्रह्मा विष्णुश्च कामश्च वसवो धनदोऽभवत् ।
चन्द्रः सूर्यस्तथा वह्निसमीराद्याश्च दंशिताः ॥ २ ॥

कालाग्निरुद्रमुख्या ये भैरवो भूतनायकः ।
कृत्वा युद्धक्षमं वेषं स्थिताः शङ्करसन्निधौ ॥ ३ ॥

अष्टभैरवमुख्याश्च वीरभद्रादयोऽभवन् ।
नन्दी भृङ्गी पुष्पदन्तमहाकालरवाः स्थिताः ॥ ४ ॥

महाकालीमुखास्तत्र देव्यः शस्त्रधराऽऽययुः ।
एवं नानाविधैः सैन्यैर्वृतः शम्भुर्महेश्वरः ॥ ५ ॥

वृषारूढो महातेजा आययौ युद्धलालसः ।
यत्र दैत्याः स्थितास्तत्र कार्तिकेयादिभिर्युतः ॥ ६ ॥

शङ्करं सैन्यसंयुक्तं नानायुद्धविशारदम् ।
नानाशस्त्रधरं दृष्ट्वा दैत्येशाश्चिक्षिपुः शरान् ॥ ७ ॥

तद् दृष्ट्वा कुपिता देवाः शस्त्रास्त्रैस्तानताडयन् ।
एवं परस्परं युद्धमभवद्दारुणं महत् ॥ ८ ॥

देवानां चैव दैत्यानामन्योन्यजयकाङ्क्षिणाम् ।
शस्त्रास्त्रनिचयैर्बाणैरन्धकारः प्रवर्तितः ॥ ९ ॥

सैन्यानां रजसा व्याप्तमाकाशं सर्वतो बभौ ।
न प्राज्ञायत तत्रैव स्वीयो वाऽपर एव च ॥ १० ॥

घण्टानां शङ्खतूर्याणां वीराणां रथिनां तथा ।
बृंहितानां हेषितानां शब्दैस्तद्वधिरीकृतम् ॥ ११ ॥

देवान् दृष्ट्वा सुरा जघ्नुर्दैत्यान् देवास्तथापरे ।
असम्बन्धं महायुद्धं चक्रिरे सुरदानवाः ॥ १२ ॥

शस्त्रैः शस्त्राणि संवार्य तथास्त्रैरस्त्रसञ्चयम् ।
मल्लयुद्धं महावीराश्चक्रुस्तत्र मदान्विताः ॥ १३ ॥

सङ्ग्रामे तुमुले तत्र प्रवृत्ते घोररूपिणि ।
मृता मुमूर्षवः केचिच्छिन्नभिन्नास्तथाऽभवन् ॥ १४ ॥

नानाजन्तुशरीरेभ्यः प्रवृत्ता रक्तसम्भवा ।
नदी बभौ महाघोरा मांसकर्दमशालिनी ॥ १५ ॥

रक्ता चास्थि?वलाका च केशशैवालशोभिता ।
चापसर्पाशिरःपद्माकबन्धद्रुमवाहिनी ॥ १६ ॥

भल्लकाष्ठा महाघोरा चामरैस्तृणकैर्युता ।
छत्रावर्ता दुर्गमा च ?चर्मपद्दिशदर्दुरा ॥ १७ ॥

भीरुभीतिकरा चैव वीरहर्षप्रवर्धिनी ।
तां दृष्ट्वा दैत्यराजास्ते क्रोधयुक्ताः समाययुः ॥ १८ ॥

तैः समन्ताद्बलं भग्नं देवानां सर्वमञ्जसा ।
बाणजालैर्दिशो व्याप्ता गन्तुं मार्गो न विद्यते ॥ १९ ॥

पलायनपरा देवाः सर्वे दशदिशोऽगमन् ।
तद् दृष्ट्वा देवराजास्तान् वारयामासुरोजसा ॥ २० ॥

द्वन्द्वयुद्धं च तत्रासीत्परस्परविनाशनम् ।
देवानां मुख्यदैत्यानां किञ्चित्तेषां वदामि ते ॥ २१ ॥

नमुचिः कामदेवेन युयुधे बलसंयुतः ।
शम्बरो वायुना सार्द्ध शुम्भो देव्या महाबलः ॥ २२ ॥

चन्द्रेणाऽपि निशुम्भश्च गुहेन च विरोचनः ।
कालभैरवदेवेन कालभैरवदानवः ॥ २३ ॥

महिषासुरदैतेयः कालाग्न्यारूपहरेण च ।
प्रह्लादो विष्णुना सार्धं विप्रचित्तिश्च भानुना ॥ २४ ॥

अन्धकासुरनामा च वीरभद्रेण संयुतः ।
अग्निना चैव दुर्बुद्धिर्युयुधे बलसंयुतः ॥ २५ ॥

विषयप्रिय एवाऽसौ ब्रह्मणा युयुधे भृशम् ।
शम्भुना युयुधे तत्र सुन्दरप्रिय एव सः ॥ २६ ॥

[[६९]]

मत्सरासुरदैत्येशो युद्धं द्रष्टुं स्थितोऽभवत् ।
एवं नानाद्वन्द्वयुद्धं शतशोथ सहस्रशः ॥ २७ ॥

सङ्ख्यातुं नैव शक्यं तदपारत्वात् प्रजापते ।
शस्त्रास्त्रैरसुरा जघ्नुः सुरांस्तानपि ते सुराः ॥ २८ ॥

अग्निवाय्वादिकास्त्राणि तत्यजुः क्रोधसंयुताः ।
चकम्पे च त्रिभुवनं दारुणे संयुगे तदा ॥ २९ ॥

देवासुरप्रणाशश्च महांस्तत्र प्रवर्तितः ।
शोणितौघैः प्रवृत्तास्तु नद्यः परमदारुणाः ॥ ३० ॥

एवं सप्त दिवानक्तं गतं तेषां प्रयुध्यताम् ।
नासुरा न च देवास्ते विरामं चक्रुरञ्जसा ॥ ३१ ॥

ततश्च कुपिता देवा अत्यन्तं शङ्करादयः ।
दैत्यानामस्त्रसङ्घातानस्त्रैः संवार्य तान् पुनः ॥ ३२ ॥

ताडयामासुरव्यग्रा अस्त्रैर्नानाविधैः परम् ।
मूर्छितान् पतितांश्चक्रुर्मृतान् सञ्चूर्णितान् परान् ॥ ३३ ॥

ततो दश दिशो दैत्या वव्रजुर्भयसङ्कुलाः ।
त्रिशूलादि महाशस्त्रैस्तत्रापि तु सुरा बभुः ॥ ३४ ॥

सुन्दरप्रियकाद्याश्च मूर्च्छिता धरणीं गताः ।
मृतप्रायाः कृतास्तैस्ते विष्ण्वादिभिरथो मुने ॥ ३५ ॥

तद् दृष्ट्वा क्रोधसंयुक्तो मत्सरः स्वयमाययौ ।
कृत्वा नादं महाघोरं ब्रह्माण्ड कम्पयन्निव ॥ ३६ ॥

धनुश्चक्रे सनादं वै तेन संशयिताः सुराः ।
बाणवृष्टिं ससर्जासौ दारुणां शत्रुनाशिनीम् ॥ ३७ ॥

तस्य बाणैः सुराः सर्वे मर्दिता बलवत्तरम् ।
मृताः केचित् क्षताः केचिन् मूर्च्छिता पतिता मृधे ॥ ३८ ॥

पञ्चबाणैश्च सेनान्यं ताडयामास वक्षसि ।
पतितः स धरापृष्ठे मूर्च्छितो भृशविह्वलः ॥ ३९ ॥

अग्निं च सप्तभिर्बाणैर्नन्दिनं दशभिस्तथा ।
ताडयामास दैत्येन्द्रः पतितं रणमूर्धनि ॥ ४० ॥

दशभिर्वीरभद्रं स सवितारं ततोष्टभिः ।
चन्द्रं च सप्तभिर्बाणैः पातयामास दैत्यपः ॥ ४१ ॥

अनिलं नवभिश्चैव कालाग्निं रुद्रमष्टभिः ।
दशभिश्च महाकालीं ताडयामास मत्सरः ॥ ४२ ॥

पञ्चभिः पञ्चभिश्चैव गणपान् भृङ्गिमुख्यकान् ।
बाणैः स पातयामास प्रलयाग्निसमद्युतिः ॥ ४३ ॥

कुबेरं दशभिश्चैव ताडयामास वक्षसि ।
ब्रह्माणं शतबाणैश्च पातयामास भूतले ॥ ४४ ॥

एवं तस्याद्भुतं कर्म दृष्ट्वा विष्णुः समाययौ ।
बाणैः सहस्रसङ्ख्याकैर्ववर्षे घनवद् भृशम् ॥ ४५ ॥

दैत्यो बाणान्निवार्यैव तैः शरैः क्रोधसंयुतः ।
शतेन ताडयामास पतितः स धरातले ॥ ४६ ॥

ततश्च शङ्करः क्रुद्धस्त्रिशूलेनाहनद् भृशम् ।
त्रिशूलं निष्फलं तत्र पतितं धरणीतले ॥ ४७ ॥

पाशं दैत्यपतिः क्षिप्त्वा सहसा शङ्करं ततः ।
गृहीत्वा पशुवत् कण्ठे आनयामास सन्निधौ ॥ ४८ ॥

धृत्वा शम्भुं महाबाहुर्वदति स्म च तं मुने ।
अतुलं किं त्वया मेऽद्य दत्तं वद सदाशिव ॥ ४९ ॥

कर्मणा त्वं समर्थश्च तथाहं कर्मणा किल ।
जगदीश्वरतां प्राप्तो वृथाहङ्कारवानसि ॥ ५० ॥

[[७०]]

क्रमेण विष्णुमुख्याश्च देवान् धृत्वा महाबलः ।
कैलासशिखरे रम्ये रेमे दैत्यसमन्वितः ॥ ५१ ॥

सर्वपूज्यतमो भूत्वा दैत्यः परमहर्षितः ।
नानाकौतुकयुक्तश्च भोगांश्च बुभुजे परान् ॥ ५२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते शिवादिपराजयो नाम त्रिंशोऽध्यायः ॥