॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
इन्द्रं धृत्वा महादैत्यो मत्सरो हर्षसंयुतः ।
ऐरावतसमारूढो ययौ ताममरावतीम् ॥ १ ॥
विरोचनमुखैर्वीरैः संवृतो दैत्यपुङ्गवः ।
शुशुभे तत्र तेजस्वी प्रभावेण बलेन च ॥ २ ॥
इन्द्रासने समासीनं तं ययुश्चाप्सरोगणाः ।
गंर्धवाश्चारणाश्चैव भयभीताः समन्ततः ॥ ३ ॥
सिषेविरे महाभागं मत्सरं त्वमितौजसम् ।
सर्वभावेन तं हृष्टं चक्रुः सर्वे स्वविद्यया ॥ ४ ॥
देवोद्यानेषु सर्वेषु विचचार महासुरः ।
कुशलो देवभोगेषु भोगांश्च बुभुजे परान् ॥ ५ ॥
देवस्थानानि सर्वाणि विभज्य प्रददौ स्वयम् ।
दैत्येभ्यो मुख्यमुख्येभ्यो बलेन सहितो मुने ॥ ६ ॥
दत्तानि यानि स्थानानि स्थितास्तेषु महासुराः ।
नानारूपान् देवभोगान् बुभुजुस्तत्र संस्थिताः ॥ ७ ॥
मत्सरं सेवमानास्ते ह्यतिदर्पेण संवृताः ।
एकस्मिन् दिवसे भौम इन्द्रासनसमाश्रितः ।
मत्सरो हर्षयुक्तः सन् दैत्यान् प्रोवाच गर्वितः ॥ ८ ॥
मत्सरासुर उवाच ।
भो भो विरोचनाद्याश्च शृणुध्वं च वचोऽसुराः ।
ब्रह्मादयो महाभागाः कथमत्रैव नागताः ॥ ९ ॥
नमस्यन्ति न देवेशा मां यदा मत्सरान्विताः ।
सर्वं मदं तदा तेषां हरिष्यामि न संशयः ॥ १० ॥
मत्सरस्य वचः सर्वे तुष्टुवुर्दैत्यदानवाः ।
दूतं सम्प्रेषयामास मत्सरः क्रोधसंयुतः ॥ ११ ॥
गच्छ दूत त्रयाणां त्वं ब्रह्मादीनां पदेषु वै ।
देवेशान् वद वाक्यं मे सावधानेन चेतसा ॥ १२ ॥
दर्शनार्थं मत्सरस्य यान्तु देवा मया सह ।
नोचेन्मत्सरदैतेयस्ताडयिष्यति निश्चितम् ॥ १३ ॥
मत्सरस्य वचः श्रुत्वा गतो दूतो बलान्वितः ।
अन्धको नाम दैत्येन्द्रो महावेगसमन्वितः ॥ १४ ॥
सत्यलोके स धातारं न ददर्श महाबलः ।
शून्यां तां नगरीं वीक्ष्य गतो वैकुण्ठमादरात् ॥ १५ ॥
तत्रापि तादृशं दृष्ट्वा गतः कैलासमेव सः ।
तत्रानन्दयुतान् सर्वान् देवांश्चर्षीन् ददर्श च ॥ १६ ॥
सभामध्यगतो दैत्यः शिवचारैः प्रवेशितः ।
आसनस्थेन शर्वेण आसने विनिवेशितः ॥ १७ ॥
कैलासविभवं दृष्ट्वा विस्मितो मानसेऽभवत् ।
सदानन्दमयं धन्यं मन्यमानः स्वचेतसि ॥ १८ ॥
पृच्छन्तं शङ्करं दैत्य उवाच बलगर्वितः ।
तृणीकृत्य महेशानं सर्वान् देवांस्तदान्धकः ॥ १९ ॥
[[६७]]
अन्धक उवाच ।
मत्सरासुरवाक्यं च शृणुध्वं सुरसत्तमाः ।
जित्वेन्द्र देवनाथं च जातोऽहं जगदीश्वरः ॥ २० ॥
अतो मद्दर्शनार्थं च भवन्तोऽपि सहानुगाः ।
ब्रह्मा विष्णुश्च रुद्रश्च आगच्छन्तु मदन्तिकम् ॥ २१ ॥
तस्माद्भवद्भिरद्यैव मया सह सुरेश्वराः ।
आगन्तव्यं मत्सरस्य दर्शनार्थं तु सत्वरम् ॥ २२ ॥
अन्धकस्य वचः श्रुत्वा शिवः क्रोधसमन्वितः ।
उवाच तं महादैत्यं मुखादग्निं समुद्गिरन् ॥ २३ ॥
शिव उवाच ।
किं मां वदसि पापिष्ठ तृणीकृत्य च यत् वचः ।
मद्वरस्य प्रभावेण मत्सरो विजयी ध्रुवम् ॥ २४ ॥
यदाऽहं क्रोधसंयुक्तस्तदा भस्ममयं खलम् ।
करिष्यामि न सन्देहः सासुरं मत्सरं खलु ॥ २५ ॥
मत्सराज्ञावशोऽहं रे किं प्रजातोऽसुराधम ।
मत्वा त्वां मूढ दूतेति मोचयामि न संशयः ॥ २६ ॥
गच्छ तं मत्सरं दैत्यं वद वाणीं मयेरिताम् ।
नोचेत्त्वां भस्मसात् कुर्यां कुपितोऽहं खलोत्तम ॥ २७ ॥
शिवस्य वचनं श्रुत्वा मत्सरं त्वन्धको ययौ ।
कथयामास वृत्तान्तं सर्वदैत्ययुताय च ॥ २८ ॥
विभवं वर्णयामास कैलासस्य यथायथम् ।
ब्रह्माण्डे न समं किञ्चित् कैलासस्य महासुराः ॥ २९ ॥
अन्धकस्य वचः क्रूरं श्रुत्वा दैत्याः महाबलाः ।
विरोचनमुखाः सर्वे मत्सरं क्रूरमब्रुवन् ॥ ३० ॥
किं स्थितोऽसि महाबाहो जेष्यामस्त्वत्प्रसादतः ।
देवत्रयं न सन्देह आज्ञां देह्यसुरेश्वर ॥ ३१ ॥
दैत्यानां वचनंश्रुत्वा तेजोयुक्तं स मत्सरः ।
उवाच क्रोधसंयुक्तस्तान् दैत्यान् हर्षयन्निव ॥ ३२ ॥
मत्सर उवाच ।
मया तपःप्रभावेण प्राप्तं तेजो महाद्भुतम् ।
तत्र शम्भुर्वृथा मानी स्वात्मानं मन्यतेऽर्थदम् ॥ ३३ ॥
तपोहीनाय राज्यं वै ब्रह्माण्डस्य ददाति चेत् ।
तदायं जगदीशो वै मन्यते नान्यथा मया ॥ ३४ ॥
अतः शम्भुं विजेष्यामस्तपस्तेजः समन्वितः ।
दर्पं तस्य हरिष्यामि वृथा ब्रह्मेति मानिनम् ॥ ३५ ॥
वेदान्ते ब्रह्मवेदेषु कथितं निर्विकपल्कम् ।
तदेव सर्वमान्यं वै जगदीशतया बभौ ॥ ३६ ॥
सकामकर्मणा सर्वं प्राप्यते मनुजस्तथा ।
ब्रह्मार्पणतया कर्म कृतं चेन्मुक्तिराप्यते ॥ ३७ ॥
अखिलं कर्मणा सृष्टं पालितं च प्रहीयते ।
तत्र किं तैस्त्रिभिर्देवैः क्रियते कर्मजैः खलु ॥ ३८ ॥
कर्मणाऽहं सृजाम्येव पालयामि हरामि च ।
कर्माधीनं जगत्सर्वं सदेवासुरमानुषम् ॥ ३९ ॥
एवमुक्त्वा महादैत्यो विरोचनमुखैर्वृतः ।
आययौ शङ्करस्थानमावेशेन समन्वितः ॥ ४० ॥
नानाशस्त्रास्त्रधाराभिर्हतास्तत्र बहिः स्थिताः ।
शिवचाराश्च तैः सर्वे पलायन्त च पीडिताः ॥ ४१ ॥
छिन्नभिन्नाङ्गदेहाश्च ययुः शङ्करसन्निधौ ।
ऊचुः समागतो दैत्यैः सर्वैः साकं स मत्सरः ॥ ४२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते शिवमत्सरासुरसमागमो नाम एकोनत्रिंशोऽध्यायः ॥