॥ श्रीगणेशाय नमः ॥
[[२८]]
मुद्गल उवाच ।
देवाश्च शरणं केचित् कश्यपादीन् समाययुः ।
विह्वला भयभीतास्ते शशंसुर्दैत्यचेष्टितम् ॥ १ ॥
देवा ऊचुः ।
मत्सरेण प्रदुष्टेन जिता देवाः सवासवाः ।
इन्द्रो धृतो महाभाग वयं शरणमागताः ॥ २ ॥
रक्ष त्वं मुनिशार्दूल त्वं पिता भयविह्वलान् ।
जीवनाशसमाद् दुःखादिन्द्रं मोचय मत्सरात् ॥ ३ ॥
देवानां वचनं श्रुत्वा वसिष्ठादिसमन्वितः ।
ब्रह्माणं प्रययौ देवैः कश्यपो वंशवृद्धये ॥ ४ ॥
सत्यलोके समासीनं गत्वा दृष्ट्वा ननाम च ।
स्तुत्वा तं विविधैर्वाक्यैः प्राञ्जलिः प्रत्युवाच ह ॥ ५ ॥
कश्यप उवाच ।
मत्सरेण धृतः स्वामिन्निन्द्रो देववरैः सह ।
देवस्थानपतिर्जातो दैत्यः परमदारुणः ॥ ६ ॥
देवा दैत्याः पदे स्वे स्वे यथायोग्ये वसन्ति वै ।
तथा कुरु जगन्नाथ त्वं धाता च गतिर्हि नः ॥ ७ ॥
कश्यपस्य वचः श्रुत्वा देवांश्चर्षीनथाऽब्रवीत् ।
पितामहः प्रजानाथ हृदयेन विदूयता ॥ ८ ॥
ब्रह्मोवाच ।
शृणुध्वं मुनयो देवाः शिवप्राप्तवरोऽसुरः ।
अजेयः सर्वभूतानां देवादीनां विशेषतः ॥ ९ ॥
न शक्तोऽहं कदा कर्तुं यथायोग्यं स्वभावतः ।
गच्छामि शरणं विष्णुं भवद्भिः सह पालकम् ॥ १० ॥
वैकुण्ठमगमद् ब्रह्मा देवैश्च मुनिभिः सह ।
गत्वा विष्णुं नमस्कृत्य स्तुत्वोवाच प्रजापतिः ॥ ११ ॥
मत्सरेण धृतो युद्धे इन्द्रो देववरः प्रभो ।
किं स्थितोऽसि महाविष्णो त्वं पालक इति श्रुतः ॥ १२ ॥
ब्रह्मणो वचनं श्रुत्वा विष्णुस्तं प्रत्युवाच ह ।
न शक्यते मया धातर्वशं कर्तुं महासुरम् ॥ १३ ॥
शिवस्य वरदानेन मत्तोऽसौ दैत्यपुङ्गवः ।
तस्माच्च शरणं यामः शङ्करं नात्र संशयः ॥ १४ ॥
ब्रह्मादिभिः स्वयं विष्णुः कैलासमगमत्किल ।
शङ्करं प्रणिपत्याऽह सर्वैर्मुनिगणैः सह ॥ १५ ॥
विष्णुरुवाच ।
नमस्ते भगवन् शम्भो नमस्ते शूलपाणये ।
नमस्ते जगतां नाथ सर्वसाक्षिन्नमोस्तु ते ॥ १६ ॥
नमो नमो महादेव स्रष्ट्रे राजसरूपिणे ।
पात्रे विष्णुस्वरूपाय हन्त्रे रुद्रस्वरूपिणे ॥ १७ ॥
पञ्चवक्त्रधरायैव योगिने योगदायिने ।
निर्गुणाय निरूपाय ब्रह्मभूताय ते नमः ॥ १८ ॥
मत्सरेण महादेव पीडितास्ते सुरर्षयः ।
धृत इन्द्रः सुराधीशो मर्दयित्वा सुरान् परम् ॥ १९ ॥
भयभीता वयं तेन शरणं त्वामुपागताः ।
रक्ष नो देवदेवेश त्वं श्रेष्ठो देवपालक ॥ २० ॥
विष्णोर्वचनमाकर्ण्य शिवश्चिन्तातुरः स्वयम् ।
उवाच तान् देवमुनीन् विष्णुमुख्यान् महेश्वरः ॥ २१ ॥
शिव उवाच ।
तपसोग्रेण देवेश मया दैत्यो विवर्धितः ।
वरैर्महादुर्लभैश्च किं करोमि जनार्दन ॥ २२ ॥
दैत्यो नाशयितुं विष्णो न शक्यः स कदाचन ।
विचारं कुरु देवेश त्वं बुद्धियुत एव हि ॥ २३ ॥
शिवस्य वचनं श्रुत्वा विष्णुः परमकम्पितः ।
उवाच दुःखयुक्तेन हृदयेन सुरेश्वरम् ॥ २४ ॥
विष्णुरुवाच ।
कर्ता त्वमन्यथा कर्ता ह्यकर्ता नात्र संशयः ।
विपरीतं त्वयोक्तं चेद्वयं किं करवामहे ॥ २५ ॥
तव वै सन्निधौ देव वसामश्च सदाशिव ।
वयं दैत्यवशा नैव चराम इति मे मतिः ॥ २६ ॥
[[६६]]
वैकुण्ठादिपदं त्यक्त्वा तव सन्निधिमागताः ।
अधुना मत्सरो दैत्य आगमिष्यति तत्र सः ॥ २७ ॥
वैकुण्ठं सत्यलोकं च गृहीत्वा सुखमेष्यति ।
तव स्थानं न कैलासं भक्तत्वाद्वै ग्रहीष्यति ॥ २८ ॥
विष्णोश्च वचनं श्रुत्वा शिवो निःश्वाससंयुतः ।
स्थितस्तत्रैव दक्ष त्वं शृणु मत्सरचेष्टितम् ॥ २९ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरचेष्टितकथनं नाम अष्टाविंशोऽध्यायः ॥