२७ इन्द्रपराजयः

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

असुरा जयशोभाढ्या वरुणालयमागताः ।
दूतं सम्प्रेषयामासुर्वरुणस्य सभां प्रति ॥ १ ॥

वरुणस्य सभां गत्वा दूतो वचनमब्रवीत् ।
शृणु तोयेन्द्र वाक्यं मे प्रेषितो मत्सरेण यत् ॥ २ ॥

मम वै वशगो भूत्वा तिष्ठ स्थाने महाबल ।
नोचेत्सङ्ग्रामभूमौ त्वां वधिष्यामि सुरांस्तथा ॥ ३ ॥

दूतस्य वचनं श्रुत्वा वरुणः क्रोधमूर्छितः ।
सङ्ग्रामाय च सन्नद्धो बभूवातिभयानकः ॥ ४ ॥

मकरारूढ एवाऽसौ पाशाद्यस्त्रप्रधारकः ।
यादांसि देवरूपाणि गृहीत्वा बहिराययौ ॥ ५ ॥

दूतेन कथितः सर्वो वृत्तान्तो वरुणस्य तम् ।
श्रुत्वा मत्सरदैतेयो दैत्यैर्युद्धोद्यतोऽभवत् ॥ ६ ॥

देवानामसुराणां च सैन्ये परमदारुणे ।
परस्परं सुसन्नद्धे रणभूमौ प्रजग्मतुः ॥ ७ ॥

[[६३]]

देवानां सैन्यमत्युग्रं दृष्ट्वा खलु विरोचनः ।
महिषासुरनामा च शुम्भश्चैवान्धकासुरः ॥ ८ ॥

अन्ये ते बहवस्तत्र धावन्तो रणमूर्धनि ।
नादयन्तो दिशः सर्वे जघ्नुर्देवांश्च साहसात् ॥ ९ ॥

मिलिता देवदैत्यास्ते परस्परजयेप्सवः ।
शस्त्रास्त्रैर्वृक्षपाषाणैर्जघ्नुर्वीराननेकशः ॥ १० ॥

अभवत्तुमुलं युद्धं दैत्यदेवविनाशनम् ।
दिनत्रयं महाघोरं दैत्या भग्नास्ततोऽभवन् ॥ ११ ॥

जलशायिन एवं स्म देवा गर्जन्ति भैरवम् ।
मूर्छिता दैत्यभूपाश्च विरोचनमुखास्तथा ॥ १२ ॥

तान् काव्यः सावधानांश्च चकार स्वेन तेजसा ।
उत्थिताः सर्ववीरास्ते युयुधुस्त्वसुराः पुनः ॥ १३ ॥

क्रोधेन महता युक्ता जघ्नुर्देवान् महाबलान् ।
पुनश्च तुमुलं युद्धं बभूवातिभयानकम् ॥ १४ ॥

युद्धं चक्रुरहोरात्रं सुराः सर्वे जलौकसः ।
यादसां च गणाः सर्वे मृता भग्नाः प्रचूर्णिताः ॥ १५ ॥

सर्व देवगणास्तत्र वव्रजुः सर्वतोदिशम् ।
वरुणं च दधाराऽपि बलवान् स विरोचनः ॥ १६ ॥

धृतं वरुणमाश्रुत्य दुद्रुवुश्च जलौकसः ।
मृताः केचित् क्षताः केचिच्छरणं के च तान् ययुः ॥ १७ ॥

हर्षिता नादसंयुक्ता दैतेया जग्मुरादृताः ।
उत्तरे धननाथं ते जलमार्गत एव च ॥ १८ ॥

कुबेरेण स वृत्तान्त: श्रुतो वरुणलोकतः ।
पलायनं समालम्ब्य कैलासे शङ्करं ययौ ॥ १९ ॥

तं तथागतमाश्रुत्य दैत्या परमदारुणाः ।
अलकायां प्रवेशं ते चक्रुश्च जयशालिनः ॥ २० ॥

एवं जित्वा कुबेरं तं वरुणेन समन्विताः ।
धर्मराजं ययुः सर्वे दैतेया मृत्युरूपकम् ॥ २१ ॥

यमराजस्तु सन्नद्धः श्रुत्वा दूतमुखात् कथाम् ।
यमो रागैश्च रक्षोभिर्विविधैः परिवारितः ॥ २२ ॥

महिषारूढ एवाऽसौ दण्डहस्तो महाबलः ।
आययौ रणभूमिं च महामृत्युसमन्वितः ॥ २३ ॥

यमं समागतं दृष्ट्वा मृत्युरोगादिभिर्युतम् ।
दैतेयाः क्रोधसंयुक्ता युयुधुः सहसा बलात् ॥ २४ ॥

देवानां चैव दैत्यानां वीराश्च युयुधुर्भृशम् ।
परस्परं बोधयन्तो जघ्नुर्नानाप्रहारतः ॥ २५ ॥

महाद्भुतं पञ्चदिनं युद्धं दारुणरूपकम् ।
नाशकं देवदैत्यानां बभूवैवं प्रजापते ॥ २६ ॥

याम्यैश्च मर्दिता दैत्या मृताः केचित् क्षताः परे ।
वव्रजुः सर्वशस्तत्र मृत्युसन्त्रासतापिताः ॥ २७ ॥

एतस्मिन्नन्तरे तत्र विषयप्रिय आगतः ।
मत्सरासुरपुत्रस्तु युयुधे मृत्युना सह ॥ २८ ॥

मत्सरप्रेरणात् शीघ्रं नराणां हृद्यताडयत् ।
तेनास्त्रेण च शस्त्रेण रोगाः परमपीडिताः ॥ २९ ॥

याम्यास्ते मृत्युरूपा वै पलायनमकुर्वत ।
यमेन बहुधा शस्त्रैर्योधयामास दारुणम् ।
महिषं मूर्छितं कृत्वा पातयामास वै यमम् ॥ ३० ॥

उत्थितो धर्मराजश्व कालदण्डेन वेगतः ।
अताडयद्दैत्यपुत्रं तं गर्जन्विषयप्रियम् ॥ ३१ ॥

कालदण्डस्तु तं दृष्ट्वा पतितो धरणीतले ।
आगत्य सहसा तेन प्रतापेन धृतो यमः ॥ ३२ ॥

तस्यैतच्च महत्कर्म दैत्यपुत्रस्य दैत्यपाः ।
तुष्टुवुः परमप्रीता धन्यं धन्यं तमब्रुवन् ॥ ३३ ॥

[[६४]]

यमं धृत्वा च दैतेया आययुश्चामरावतीम् ।
इन्द्रोऽपि देवसङ्घैश्च सन्नद्धो वैरभावतः ॥ ३४ ॥

अग्निर्वायुः प्रसन्नद्धावागतौ बलसंयुतौ ।
देवाः सर्वे महाभागाः स्वस्वलोकात् समाययुः ॥ ३५ ॥

विश्वेदेवाश्च साध्याश्च रुद्रा वसव एव च ।
गन्धर्वाश्चैव यक्षाश्च विद्याधरसमायुताः ॥ ३६ ॥

ग्रहाश्चन्द्रश्च सूर्यश्च आदित्या बलवत्तराः ।
सन्नद्धाः सर्वदेवास्ते वज्रिणं जग्मुरादृताः ॥ ३७ ॥

सर्वदेवगणैरिन्द्रो रणभूमिं समाययौ ।
ऐरावतसमारूढो वज्रपाणिर्महाबल: ॥ ३८ ॥

देवसैन्यं सुसन्नद्धमागतं स्वबलान्वितम् ।
दृष्ट्वा दैत्यगणाः सर्वे जघ्नुः शस्त्रप्रहारतः ॥ ३९ ॥

देवा जघ्नुश्च तान् शस्त्रैर्महाक्रोधसमन्विताः ।
एवं परस्परं तत्र तुमुलं युद्धमप्यऽभूत् ॥ ४० ॥

मृता दैत्यास्तथा देवस्ताडिताः शस्त्रघाततः ।
दैत्यैर्हताश्च देवास्ते छिन्ना भिन्नाः सुमूर्छिताः ॥ ४१ ॥

एवं परस्परं युद्धं देवदैत्यविनाशनम् ।
सप्तरात्रमभूत्तीव्रं ततो दैत्याः पलायिताः ॥ ४२ ॥

विरोचनादयः सर्वे मूर्छिता धरणीतले ।
जयवन्तः सुरेन्द्रास्ते वदन्तः स्म प्रहर्षिताः ॥ ४३ ॥

एतद् दृष्ट्वा महाश्चर्यं सुन्दरप्रिय आगतः ।
ज्येष्ठपुत्रो मत्सरस्य युयुधे सर्वदैवतैः ॥ ४४ ॥

शस्त्रास्त्रैर्मल्लयुद्धैस्तन् मर्दितं तेन सर्वशः ।
देवसैन्यं दिक्षु तत्र पलायत भयातुरम् ॥ ४५ ॥

शोणितप्रस्रवास्तत्र नद्यो जाताः प्रजापते ।
इन्द्रोऽपि युयुधे तेन दैत्यपुत्रेण धीमता ॥ ४६ ॥

वज्रेण निहतस्तत्रेन्द्रेण दैत्यो महाबलः ।
न चचाल तदाश्चार्यमिन्द्रचेतसि सङ्गतम् ॥ ४७ ॥

दैत्यपुत्रः समागत्य स्वङ्गेनैरावतं गजम् ।
मूर्छितं कारयामास वज्रिणं च पदाग्रहीत् ॥ ४८ ॥

मर्दयित्वा सुरेशानं स्ववशं च चकार ह ।
धृत्वा पुरन्दरं सोऽपि स्वस्थानमगमन्मुदा ॥ ४९ ॥

दैत्यैः सम्पूजितस्तत्र महाबलपराक्रमः ।
सुन्दरप्रियपुत्रोऽभून् मत्सरस्य प्रहर्षितः ॥ ५० ॥

देवाः केचिद् धृतास्तत्र केचिद्वै मूर्छिताः कुताः ।
केचित् पलायिता दक्ष भग्नाः केऽपि विचूर्णिताः ॥ ५१ ॥

एवं स सकलान् देवान् वशांश्चक्रे महाबलः ।
मत्सरासुर एवाऽयं स्वर्गाधीशो बभूव ह ॥ ५२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरविजय इन्द्रपराजयो नाम सप्तविंशतितमोऽध्यायः ॥