॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
ततो दक्ष महत्सैन्यं पृथिवीजयनोद्यतम् ।
हनने क्षत्रियाणां तत्प्रवृत्तं कालचक्रवत् ॥ १ ॥
विरोचनादयो दैत्याः स्थिता यत्र यमोपमाः ।
युद्धं तैः सह कुर्वाणः कः स्थास्यति पुमान् भुवि ॥ २ ॥
दैत्याः पादप्रहारेण चूर्णयन्तोऽद्रिसञ्चयान् ।
शेषमस्तकमानम्य भारेणैव प्रचक्रिरे ॥ ३ ॥
[[६१]]
तान् मेघसदृशान् दृष्ट्वा पर्वताकारसंस्थितान् ।
अभवन् यमरूपान् ते क्षत्रिया गतजीविनः ॥ ४ ॥
केचित्पलायितास्तत्र केचिच्च शरणं ययुः ।
महावीरास्तु ते युद्धं कृत्वा स्वर्गं ययुर्मताः ॥ ५ ॥
ये मृतास्तत्सुतास्तैस्तु स्थापिताः करदायिनः ।
शरणागतराजानः स्थापिताः स्वपदे तथा ॥ ६ ॥
यच्च राजविहीनं तु दैत्यास्तत्राधिपाः कृताः ।
राजानः सर्वविषये बभूवुर्भागसंयुताः ॥ ७ ॥
देशे देशे तथा दैत्याः क्षत्रियाणां च सन्निधौ ।
स्थापिता भावबोधार्थमेवं सर्वत्र कारितम् ॥ ८ ॥
सद्वीपां वसुधां सर्वां जित्वा दैत्यो ननन्द ह ।
मत्सरोऽतिवशां पृथ्वीं तत्र दृष्ट्वा प्रजापते ॥ ९ ॥
पातालमगमद्दैत्यो दैत्यवृन्दसमन्वितः ।
मत्सरो नागसर्पाणां जयार्थं बलवांस्ततः ॥ १० ॥
नागोद्यानानि गत्वा ते बभञ्जुर्दितिनन्दनाः ।
तान् दृष्ट्वा नागराजा वै युद्धार्थं समुपाययुः ॥ ११ ॥
वासुकिस्तक्षकश्चैव कम्बलाश्वतरौ तथा ।
इत्याद्या बहवो नागा नागराजाः समाययुः ॥ १२ ॥
सन्नद्धाः क्रोधयुक्तास्ते महाभोगा महाबलाः ।
रथादिषु समारूढा नानावाहनगा बभुः ॥ १३ ॥
शस्त्रास्त्रनिचयैर्बाणैर्दैत्यान् जघ्नुर्महाबलान् ।
दैत्यास्तान् शस्त्रसङ्घातैः पातयामासुरोजसा ॥ १४ ॥
नागैर्महाबैलस्तत्र निहता दैत्यसञ्चयाः ।
भग्नदर्पाः पलायन्त दशदिक्षु सुविह्वलाः ॥ १५ ॥
दैत्यानां कदनं दृष्ट्वा विरोचनमुखाऽऽययुः ।
असुराः क्रोधसंयुक्ता नागांश्चामर्दयंस्तु ते ॥ १६ ॥
शस्त्रास्त्रैर्विविधैर्दैत्या मारयामासुरोजसा ।
केषाञ्चिन् मस्तका भग्नाः पादहस्तोदरं तथा ॥ १७ ॥
शोणितानां महानद्यः प्रास्रवन् वै दिशो दश ।
भग्नदर्पा भयान्नागाः पलायनमकुर्वत ॥ १८ ॥
केचित्तान् शरणं जग्मुर्दैत्यान् परमदारुणान् ।
हाहाकाररवैर्युक्ता नागास्त्राससमन्विताः ॥ १९ ॥
दैत्यानां पौरुषं दृष्ट्वा वासुकिप्रमुखाऽऽययुः ।
क्रोधेन परितप्तांस्तान् वारयामासुरोजसा ॥ २० ॥
तक्षकादिमहानागा विषं क्षुब्धाश्च तत्यजुः ।
विवरं तद्विषैः सर्वं व्याप्तं तत्र प्रजापते ॥ २१ ॥
महाविषभवा ज्वाला ददाहासुरपुङ्गवान् ।
मृता दैत्या अनेके च गरलेन प्रपीडिताः ॥ २२ ॥
न स्थातुं शक्यते तत्र दैत्यैः सङ्ग्राममण्डले ।
शस्त्राणि तेषां सर्वाणि दग्धानि च तदा किल ॥ २३ ॥
गजाश्वरथपादातं मृतं दग्धं च सर्वशः ।
मूर्छिताः पतिता भूमौ विरोचनमुखास्ततः ॥ २४ ॥
नागा मोदं प्रचक्रुस्ते नादयन्तो दिशो दश ।
हर्षेण महता युक्ता नृत्यन्ति स्म स्थिताः परे ॥ २५ ॥
एतस्मिन्नन्तरे तत्र प्रतापी च विरोचनः ।
उत्थितः समरश्लाघी गतपीडो महाबलः ॥ २६ ॥
शुक्रेण तत्र दैतेया विद्यया निर्विषाः कृताः ।
उत्थिताः सर्वतः सर्वे अन्धकप्रमुखा बभुः ॥ २७ ॥
असुराः क्रोधसंयुक्ता गरुडास्त्रं च तत्यजुः ।
तस्मात्तु गरुडा जाता नागान् सर्वानभुञ्जत ॥ २८ ॥
तत्र वासुकिना तेन विषज्वाला प्रवर्तिता।
गरुडाश्च तया दग्धा गरुडास्त्रं तथाऽभवत् ॥ २९ ॥
[[६२]]
एतत् दृष्ट्वा महाश्चर्यं वासुकेः पौरुषं महत् ।
विरोचनादयः सर्वे गरुडा माययाऽभवन् ॥ ३० ॥
तैः सर्वैर्भक्षितं सैन्यं नागानां तद्दिशो दश ।
पलायन्त भयोद्विग्ना महानागाश्च भीरवः ॥ ३१ ॥
सर्पराट् तक्षकाद्या ये गरुडैः पीडिता भृशम् ।
मूर्छिताश्च मृतप्राया जाता युद्धे च दारुणे ॥ ३२ ॥
शेषेण सर्ववृत्तान्तो ज्ञातो ज्ञातिभयङ्करः ।
आययौ सामभावेन शरणं दैत्यसन्निधौ ॥ ३३ ॥
किमर्थं क्रोधसंयुक्ता दैत्या ब्रूत महाबलाः ।
भ्रातरस्त्वसुरा यूयं मदीया नात्र संशयः ॥ ३४ ॥
किमर्थं युद्धमारब्धं वक्तव्यं दितिनन्दनाः ।
पातालवासिनः सर्वे भवन्तो वयमेव च ॥ ३५ ॥
मुद्गल उवाच ।
शेषस्य वचनं श्रुत्वा प्रतापी च विरोचनः ।
उवाच तं वचो रम्यं तेजोयुक्तं स्वभावतः ॥ ३६ ॥
विरोचन उवाच ।
शेष शेष महाभाग मान्योऽसि च महामते ।
स्नेहेन वदसि प्राज्ञ सत्यं शृणु च मद्वचः ॥ ३७ ॥
अस्माकं मत्सरो राजा ब्रह्माण्डं वशमात्मनः ।
इच्छत्याशासनं तस्य ग्राह्यं युष्माभिरादृतैः ॥ ३८ ॥
नोचेन्नागासुराणां च विनाशः प्रभविष्यति ।
त्वं श्रेष्ठः सर्वभावेन सर्वेषां हितमाचर ॥ ३९ ॥
विरोचनवचः श्रुत्वा शेषः सर्वार्थकोविदः ।
प्रहसंस्तमुवाचेदं सामयुक्तं महामतिः ॥ ४० ॥
यदिच्छति महाभागो मत्सरस्तत् करोम्यहम् ।
इत्युक्त्वा दातुमुद्युक्तः करभारं च वार्षिकम् ॥ ४१ ॥
नानारत्नानि दत्त्वा वै साम चक्रेऽसुरैः सह ।
नागान् वासुकिमुख्यान् स गृहीत्वा स्वस्थलं ययौ ॥ ४२ ॥
असुरा हर्षिताः सर्वे जितनागा महाबलाः ।
पातालजयिनो भूत्वा वरुणं जेतुमाययुः ॥ ४३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते पातालविजयो नाम षड्विंशोऽध्यायः ॥