२५ मत्सरासुरसेनावर्णनम्

॥ श्रीगणेशाय नमः ॥

[[५९]]

मुद्गल उवाच ।

शृणु दक्ष महाभाग कथां पापप्रणाशिनीम् ।
वक्रतुण्डावतारस्य प्रयोजनविकाशिनीम् ॥ १ ॥

दैत्याः सम्भूय सर्वे ते गताः शुक्रं महामुनिम् ।
दण्डवत्तं प्रणेमुश्च मत्सरेण समन्विताः ॥ २ ॥

शुक्रस्तान् मानंयामास किमर्थं यूयमागताः ।
भवता कार्यसिद्धिर्या तां करिष्यामि यत्नतः ॥ ३ ॥

शुक्रस्य वचनं श्रुत्वा सुधारससमं मुने ।
हर्षिताः प्रणिपत्यैनमूचुः सर्वे हितावहम् ॥ ४ ॥

तव स्वामिन् प्रसादेन मत्सरः कुलधारकः ।
अस्माकं सर्वभागस्य फलरूपस्तथा कृतः ॥ ५ ॥

वरान् प्राप्य महाबाहुरस्माकं हितमाश्रितः ।
दैत्यानां दानवादीनां राजाऽयमिति निश्चितम् ॥ ६ ॥

तस्य राज्याभिषेकार्थं याहि त्वं सर्वमानद ।
अस्माकं धामसर्वस्वं त्वमेव मुनिसत्तम ॥ ७ ॥

दैत्यानां वचनं श्रुत्वा शुक्रोऽवादीत् तथेति च ।
अगमत् राज्यलाभार्थं मत्सरस्य दुरात्मनः ॥ ८ ॥

मिलितास्तत्र सर्वे ते दैत्यदानवराक्षसाः ।
हर्षेण महता युक्ता महोत्सवपरायणाः ॥ ९ ॥

तेषां मुख्यान् महाभागांस्तान् छृणुष्व प्रजापते ।
सङ्क्षेपेण प्रवक्ष्यामि प्राधान्येन महत्तमान् ॥ १० ॥

नमुचिः शम्बरः शुम्भो निशुम्भः कालभैरवः ।
विरोचनो विप्रचित्तिः प्रह्रादो महिषासुरः ॥ ११ ॥

अन्धकासुरनामा च रुरुदैत्यः प्रतापवान् ।
इत्याद्या बहवो दैत्या मिलितास्तस्य चोत्सवे ॥ १२ ॥

यथाविधि तथा तत्र ब्राह्मणैर्वेदपारगैः ।
ऋग्यजुःसाममन्त्रैश्चाभिषिक्तो मत्सरोऽभवत् ॥ १३ ॥

उशनाः सर्वकर्ताभूत्तेषां मध्ये प्रतापवान् ।
साक्षाद्योगी गणेशस्य महाभक्तो महामुनिः ॥ १४ ॥

दैत्यादीनां स राजाभून् मत्सरः परवीरहा ।
शुशुभेऽतीव तेजस्वी मध्याह्नार्क इव श्रिया ॥ १५ ॥

सर्वे स्वस्वगृहं जग्मुः सनाथाश्च वयं कृताः ।
शुक्रेणेति वदन्तस्ते हर्षयुक्ता प्रजापते ॥ १६ ॥

गते कियति काले च मत्सरः स मनो दधे ।
ब्रह्माण्डजयने दुष्टो जुहाव सकलासुरान् ॥ १७ ॥

आगतास्ते त्वराभाजः किं कार्यं वद मानद ।
तानुवाच जयाकाङ्क्षी त्रैलोक्यं वशमानये ॥ १८ ॥

तस्य तद् वचनं श्रुत्वा हृष्टाः सर्वे महाऽसुराः ।
नदन्तो मेघसन्नादैः कालानां कलनात्मकैः ॥ १९ ॥

शस्त्रास्त्राणि ह्यमोघानि धृत्वा वाहनगा बभुः ।
सन्नद्धाः सर्वभावेन चतुरङ्गबलान्विताः ॥ २० ॥

पदातयो ह्यसङ्ख्याता नानाशस्त्रधरास्तथा ।
पर्वतद्रुमपाषाणहस्ताः सन्निःसृताः प्रभो ॥ २१ ॥

सिन्दूरारुणभालाश्च मुक्तकेशा महाबलाः ।
उड्डीयोड्डीय धावन्तः शिक्षायुद्धकरास्ततः ॥ २२ ॥

शस्त्रयुद्धे मल्लयुद्धे गदायुद्धे विशारदाः ।
अस्त्रयुद्धविचारज्ञा निःसृताः प्रासधारकाः ॥ २३ ॥

धूलिव्रजेन तेषां तु भास्करो निष्प्रभः कृतः ।
अग्रे दैत्यस्य सेनाया भूषणानि यथा बभुः ॥ २४ ॥

तथा हस्तिसहस्राणां सहस्राणि ययुः पुरः ।
धातुभी रञ्जितान्येव नानाचित्रैर्महामुने ॥ २५ ॥

सिन्दूरारुणभालानि लसत्कुम्भधराणि च ।
घण्टासान्द्रनिनादैश्च नादितानि त्वितस्ततः ॥ २६ ॥

[[६०]]

महावीराश्रितान्येव कुन्तलाद्यस्त्रकैस्तथा ।
पूर्णानि चञ्चलाश्चैव पर्वता इव शोभिताः ॥ २७ ॥

गिरीणां चैव दन्ताग्रैर्भेदकानि प्रजापते ।
शुण्डाभिर्वृक्षजालानां छेदकानि महान्ति च ॥ २८ ॥

मदेनासिक्तभालानि भ्रमरैर्गुञ्जितानि च ।
रणे शत्रुसहस्राणां नाशकाराणि सर्वशः ॥ २९ ॥

निःसृतानि पुरेभ्यश्च सेनाशोभाकराणि च ।
दैत्यैः सुदारुणैस्तानि स्वाश्रितानि समन्ततः ॥ ३० ॥

ततोऽश्वानां महासेना निःसृता बलवत्तराः ।
चञ्चला वायुवेगाश्च तत्राऽश्वाः पूर्णभूषिताः ॥ ३१ ॥

चामरैर्वीजिताश्चैव मनोवेगा महाबलाः ।
उड्डीयोड्डीय धावन्त आकाशे वायवो यथा ॥ ३२ ॥

खुराघातैर्विस्फुलिङ्गान् प्रस्रंवत इतस्ततः ।
नानाशस्त्रधरास्तत्र दैत्या रेजुर्यथा घनाः ॥ ३३ ॥

कालस्य भयदाः सर्वे नानायुद्धविशारदाः ।
अपाराश्च समारूढा दारुणाः पापनिश्चयाः ॥ ३४ ॥

तत्र केचिन्महादैत्याः खरारोहा विनिःसृताः ।
अजयानाधिरूढाश्च गोवाहनविराजिताः ॥ ३५ ॥

महिषारूढकाश्चान्ये व्याघ्रारूढा महाबलाः ।
सिंहशार्दूलवाहाश्च खगवाहास्तथापरे ॥ ३६ ॥

इत्यादिचित्ररूपेषु वाहनेषु विराजिताः ।
निःसृता असुराः सर्वे यममत्तुमिवोद्यताः ॥ ३७ ॥

ततो रथसमारूढा रथिनो निःसृताः प्रभो ।
अपाराश्च महाक्रोधारुणनेत्रा भयङ्कराः ॥ ३८ ॥

रथाश्वालङ्कृतास्तत्र मणिमुक्तादिभिः परैः ।
नानाशस्त्रास्त्रभारैश्च पूरिता मेघघोषिणः ॥ ३९ ॥

ध्वजैरलङ्कृताः पूर्णा अश्वैर्जवनशालिभिः ।
संयुताश्चतुरैः सूतैर्महावीरैः समाश्रिताः ॥ ४० ॥

रथाः खरयुताः केचिद् वृकैर्वै वाहिताः परे ।
सिंहैर्गोभिर्गजैर्ऋक्षैर्नानापशुभिराबभुः ॥ ४१ ॥

तत्र वज्रसमाङ्गैश्च खरैः शतमितैर्युतम् ।
अलङ्कृतं रथं दैत्यो मत्सरः स समारुहत् ॥ ४२ ॥

तस्याऽग्रे तत्सुतौ शूरावश्वारूढौ प्रजग्मतुः ।
विरोचनादयो दैत्याः समन्ताज्जग्मुराजिषु ॥ ४३ ॥

पृथिव्यां तस्य सैन्यं तत् समुद्र इव सम्बभौ ।
महारथमहावीरयुद्धभूषणभूषितम् ॥ ४४ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरसेनावर्णनं नाम पञ्चविंशोऽध्यायः ॥