॥ श्रीगणेशाय नमः ॥
[[५७]]
मुद्गल उवाच ।
मत्सरासुरमुग्रं तं तापसं शाम्भवं प्रभो ।
बोधयामास तं शम्भुर्दानवेन्द्रं महाबलम् ॥ १ ॥
शङ्कर उवाच ।
भो भो मत्सर चोत्तिष्ठ वरान् वरय सुव्रत ।
तवोग्रतपसा भक्त्त्या सन्तुष्टोऽहं ददामि तान् ॥ २ ॥
अहो धैर्यमहो धैर्यं धन्यं ते तापसोत्तम ।
देहभावमतिक्रम्य स्थितोऽसि दृढभक्तितः ॥ ३ ॥
क्लेशं त्यज तपो जातं सिद्धिं प्राप्तां तपोभुवम् ।
पश्येच्छसि तथा यं यं तं तं दास्यामि दुर्लभम् ॥ ४ ॥
शिवस्य वचनं श्रुत्वा प्रबुद्धो मत्सरासुरः ।
उन्मील्य लोचनेऽपश्यच्छङ्करं पुरतः स्थितम् ॥ ५ ॥
शिवदर्शनमात्रेण सत्तावानभवत्किल ।
उत्थाय तं नमस्कृत्य विनम्रः प्रेमविह्वलः ॥ ६ ॥
उवाच तं महाबुद्धिः शिवं कल्याणकारकम् ।
भक्तानां कल्पवृक्षं च पार्वतीसहितं प्रभुम् ॥ ७ ॥
मत्सरासुर उवाच ।
धन्यो वंशो मदीयोऽद्य जन्म सम्पत्तिशास्त्रजम् ।
ज्ञानं मे जनको माता तपो धन्यं महत्प्रभो ॥ ८ ॥
मुनयो यं न जानन्ति योगिनो ध्यानशालिनः ।
वेदाः स्मृतिसमायुक्तास्तं पश्यामि सदाशिवम् ॥ ९ ॥
एवमुक्त्वा नमस्कृत्य पूजयामास हर्षतः ।
ऋषिदेवयुतं शम्भु भक्तिभावसमन्वितः ॥ १० ॥
यथाविधि स सम्पूज्य शङ्करं दण्डवत् क्षितौ ।
प्रणिपत्य समुत्थाय प्राञ्जलिः स्तोत्रमाकरोत् ॥ ११ ॥
मत्सरासुर उवाच ।
नमस्ते त्रिदशेशाय शङ्कराय शिवाय च ।
निर्गुणाय गुणानां चेशाय सर्वगुणाय ते ॥ १२ ॥
अपाराय महादेव पिनाकधर ते नमः ।
नमो नमो महेशाय सर्वाधिपतये नमः ॥ १३ ॥
उमाकान्त नमस्तुभ्यं भक्तसंरक्षकाय च ।
भक्तिप्रियाय देवाय सर्पहाराय ते नमः ॥ १४ ॥
वृषध्वजाय नन्दीशवाहनाय त्रिशूलिने ।
भस्माङ्गरागधाराय व्याघ्राम्बरधराय ते ॥ १५ ॥
भालचन्द्र नमस्तुभ्यं पञ्चवक्त्राय शम्भवे ।
दशबाहुधरायैव त्रिनेत्राय कपालिने ॥ १६ ॥
जटाजूटधरायैव नमो गङ्गाधराय ते ।
गिरिशाय नमस्तुभ्यं गजचर्मधराय ते ॥ १७ ॥
सदा ब्रह्ममयायैव नमो ब्रह्मप्रदायिने ।
निराधाराय नित्याय सुयोगिपतये नमः ॥ १८ ॥
अपारगुणधाराय रुद्राय तु नमो नमः ।
किं स्तौमि त्वां महादेव यत्र वेदा विकुण्ठिताः ॥ १९ ॥
इति स्तुत्वा महेशानं मत्सरः प्रणनाम तम् ।
उत्थितं तं शिवः प्राह वरं वरय सुव्रत ॥ २० ॥
इदं त्वया कृतं स्तोत्रं मम प्रीतिविवर्धनम् ।
पठते शृण्वते सर्वकामदं प्रभविष्यति ॥ २१ ॥
विद्यामायुः सुखं राज्यं पुत्रपौत्रादिकं च यत् ।
भुक्तिं मुक्तिं प्रदास्यामि स्तोत्रेण स्तुवतेऽसुर ॥ २२ ॥
श्रुत्वा शिववचो रम्यं प्रहृष्टो मत्सरोऽब्रवीत् ।
विनयावनतो भूत्वा शिवं भक्तवरप्रदम् ॥ २३ ॥
मत्सर उवाच ।
यदि देवेश तुष्टोऽसि यदि दास्यसि मे वरान् ।
तदाऽभयं ते सर्वत्र भक्तिं देहि सदाशिव ॥ २४ ॥
पञ्चभूतात्मकं सर्वं त्रिगुणैः सुविराजितम् ।
तस्मान्मे मरणं शम्भो न कदाचिद्भवेदिह ॥ २५ ॥
[[५८]]
आरोग्यादिसमायुक्तमैश्वर्यं देहि शाश्वतम् ।
ब्रह्माण्डस्य च राज्यं मे देहि देहि सदाशिव ॥ २६ ॥
मुद्गल उवाच ।
तस्यैतद्वचन श्रुत्वा शिवो विस्मितमानसः ।
देवाः सर्षिगणाः सर्वे विस्मिताः प्राभवन् तदा ॥ २७ ॥
किमुक्तं मत्सरेणैवं का गतिर्वा भविष्यति ।
तपसोग्रेण सन्तुष्टः शिवस्तं प्रत्युवाच ह ॥ २८ ॥
शिव उवाच ।
यत्त्वया प्रार्थितं दैत्य तत्सर्वं ते भविष्यति ।
उग्रेण तपसा तुभ्यं मया दत्तं सुदुर्लभम् ॥ २९ ॥
मुद्गल उवाच ।
वरान् सुदुर्लभान् प्राप्य मत्सरो गृहमागमत् ।
हर्षितो हर्षयन् सर्वान् सुहृदो मातरं स्त्रियम् ॥ ३० ॥
आह्लादेन सदा तत्र स्थितो मान्यैः स मानितः ।
नानाभोगान् प्रभुञ्जानः सुहृद्भयः सुखदायकः ॥ ३१ ॥
पुत्रौ मदकरायां द्वौ जनयामास मत्सरः ।
अतिकान्तियुतौ तुल्यौ पित्रा वीर्येण तेजसा ॥ ३२ ॥
सुन्दरप्रिय इत्येवं नाम ज्येष्ठस्य सोऽकरोत् ।
विषयप्रियनामाभूत्कनिष्ठः प्रीतिदः परः ॥ ३३ ॥
एकस्मिन् दिवसे दैत्यः श्वशुरस्य गृहं गतः ।
तत्र नानाविधा दैत्या मिलितास्तमबोधयन् ॥ ३४ ॥
दैत्या ऊचुः ।
किं स्थितोऽसि महातेजस्त्वद्दास्यवशगा वयम् ।
जेष्यामः सर्वदेवादींस्त्वत्साहाय्येन मत्सर ॥ ३५ ॥
त्वत्समो नैव वीरोऽस्ति ब्रह्माण्डे कुत्रचित्प्रभो ।
वरदान बलाढ्यस्त्वं निर्भयोऽसि महासुर ॥ ३६ ॥
आज्ञां दहि गमिष्यामो जेतुं देवान्न संशयः ।
शस्त्रास्त्रैस्तान्विनिर्भिद्य भवाम स्वर्गभोगिनः ॥ ३७ ॥
मुद्गल उवाच ।
दैत्यानां वचनं श्रुत्वा मत्सरस्तानुवाच ह ।
भवद्भिः कथितं सर्वं हितकारकमुत्तमम् ॥ ३८ ॥
ममापि हृदये नित्यमेवं वसति दानवाः ।
किं करोमि च मे माता निवारयति मां सदा ॥ ३९ ॥
इन्द्रस्ते स पिता पुत्र देवाः पूज्याः सवासवाः ।
अतो धर्मेण वर्तस्व येनेहपरलोकभाक् ॥ ४० ॥
मत्सरस्य वचः श्रुत्वा दैत्यास्ते त्वब्रुवन् वचः ।
अखिलं धर्मकरणं बाधादं भावपूर्वकम् ॥ ४१ ॥
दैत्या ऊचुः ।
शृणु मत्सर वृत्तान्तं पुराभूतं स्वधर्मजम् ।
अस्माकमेव मान्यं यत्तव संशयनाशकम् ॥ ४२ ॥
जलन्धरः समुत्पन्नः शिववीर्यान्महाबलः ।
तेन शम्भुर्जितः सङ्ख्ये देवाः सर्वे च निर्जिताः ॥ ४३ ॥
पार्वतीं दारभावार्थं ग्रहीतुं तूद्यतोऽभवत् ।
दैत्या एतादृशा जाता बहवो मत्सरासुर ॥ ४४ ॥
यत्र मान्याः सन्ति देवास्तत्र दैत्याः प्रदूषिताः ।
दैत्या मान्यास्तदा देवा दूषिताः प्रभवन्ति वै ॥ ४५ ॥
देवेन्द्राः शत्रवः सन्ति दैत्यानां सततं प्रभो ।
अतस्त्यक्त्वा स्वसन्देहं जय देवान् महाबल ॥ ४६ ॥
त्यज तां मातरं पृथ्वीं मुनिदेवसहायिनीम् ।
वसात्र त्वं महाभाग अस्माभिः सहितः सदा ॥ ४७ ॥
तेषां वचनमाकर्ण्य मत्सरोऽहितकारकम् ।
तथैव कृतवांस्तत्र त्यक्त्वा पृथ्वीमुवास ह ॥ ४८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरसमागमो नाम चतुर्विंशतितमोऽध्यायः ॥