॥ श्रीगणेशाय नमः ॥
[[५५]]
दक्ष उवाच ।
धन्योऽसि योगिराजोऽसि भक्तराजेन्द्रता च ते ।
मदीयं भाग्ययोगेन सम्प्राप्तं दर्शनं प्रभो ॥ १ ॥
अष्टौ ये गणराजस्य ह्यवताराः प्रकीर्तिताः ।
तान् मे कथय योगीश विस्तरेण महामुने ॥ २ ॥
दैत्याः सन्निहितास्तैस्तु तेषां जन्मादिकं परम् ।
सकलं युद्धभागं मां कथयस्व विशेषतः ॥ ३ ॥
एतादृशा महादैत्या न श्रुताः कुत्रचित्प्रभो ।
विस्मापयति चेयं मां कथा पापापनोदिनी ॥ ४ ॥
मुद्गल उवाच ।
प्रजापते कथां दिव्यां तव भावनियन्त्रितः ।
कथयामि समासेन गणनाथप्रमोदिनीम् ॥ ५ ॥
प्रथमं वक्रतुण्डस्य चरित्रं शृणु पुण्यदम् ।
मत्सरासुरयुद्धं च गणेशेन महाद्भुतम् ॥ ६ ॥
इन्द्रस्येन्द्रपदप्राप्तिर्जाता यस्मिन् दिने परा ।
तस्मिन् दिने महोत्साहो वार्षिकः क्रियते मुने ॥ ७ ॥
कदाचिदमरावत्यां महोत्सवपरायणः ।
सुभद्रासनगोतिष्ठद्देवेन्द्रः सर्वपूजितः ॥ ८ ॥
तावद्देवाः सगन्धर्वा अप्सराभिः समागताः ।
नागा यक्षा मुनीन्द्राश्च राक्षसा देवयोषितः ॥ ९ ॥
आगतो भगवांस्तत्र सर्वभूतगणैर्वृतः ।
स्कन्दनन्दीश्वराद्यैश्च पार्वत्या सह शङ्करः ॥ १० ॥
लक्ष्म्या सह स्वयं विष्णुर्विष्वक्सेनादिभिर्गणैः ।
वेदादिभिर्वृतो ब्रह्मा प्रजापतिभिराययौ ॥ ११ ॥
सर्वग्रहै: समायुक्तो भानुस्तत्रागमत् स्वयम् ।
अग्निश्च धर्मराजश्व कुबेरो वरुणस्तथा ॥ १२ ॥
आदित्या मनवश्चैव वसवो रुद्रकास्तथा ।
साध्या विद्याधरा विश्वेदेवास्तत्राययुः प्रभो ॥ १३ ॥
अश्विनौ शेषनागश्च बहवस्तत्र चागताः ।
उपविष्टा मुदा युक्ता उत्सवे वै शतक्रतोः ॥ १४ ॥
तत्र नाना कथाश्चक्रुरानन्दपरिवर्धिनीः ।
मुनयो भावसंयुक्ताः पुरातनभवा मुने ॥ १५ ॥
नृत्यमप्सरसश्चक्रुर्गन्धर्वा ललितं जगुः ।
हाहाहूहूमुखा अन्ये तुम्बरुनारदस्तथा ॥ १६ ॥
वादयन्ति स्म वादित्रं तान् स्तुवन्ति स्म चारणाः ।
हृष्टा पुष्टा जनास्तत्र स्त्रियः परमहर्षिताः ॥ १७ ॥
तत्र रम्भा विचित्राणि नृत्यादीनि चकार ह ।
हावभावप्रयुक्तानि चेष्टितानि प्रजापते ॥ १८ ॥
कन्दुकक्रीडनोद्युक्ता सभायां यत्र तत्र सा ।
बभ्राम तां प्रपश्यन् सन्निन्द्रोऽभूत् कामपीडितः ॥ १९ ॥
मोहितो मञ्जुलरवैर्नृत्यादिकलया तथा ।
कर्तव्यं नैव सञ्जज्ञौ तन्मनाः स सुरेश्वरः ॥ २० ॥
शीघ्रमेव समाप्तं तमुत्सवं कृतवान् स्वयम् ।
सर्वे स्वस्वस्थलं जग्मुर्मानिता हर्षिता विभो ॥ २१ ॥
रम्भां निमन्त्र्य चेन्द्रश्च जगाम वनमेकलः ।
नानापरिमलैर्युक्ता यत्र वृक्षाः सुपुष्पिताः ॥ २२ ॥
नानाप्रस्रवयुक्तानि निर्मलानि जलानि च ।
सुवर्णपद्मशोभानि षट्पदैः शोभितानि च ॥ २३ ॥
इत्यादिकामपुष्टानि नानावस्तुयुतानि च ।
वनानि तत्र रेमे साविन्द्रः कामविमोहितः ॥ २४ ॥
रम्भयासक्तचित्तस्य वज्रिणः क्रीडतो भृशम् ।
न तृप्तिरभवत्तत्र घृतेन दहनस्य वा ॥ २५ ॥
तत्राजगाम दुर्वासाः स्वेच्छया विचरन् मुनिः ।
तं दृष्ट्वा लज्जितो राजा देवानां विनयं श्रितः ॥ २६ ॥
[[५६]]
त्यक्त्वा रम्भां नमस्कृत्य तं मुनिं प्राञ्जलिः स्थितः ।
तादृशं तं परित्यज्य जगाम मुनिसत्तमः ॥ २७ ॥
अतिविह्वलगात्रत्वाच्चस्कन्द सुरशत्रुहा ।
रेतोऽभूत् पतितं भूमौ तस्माद्दैत्यसमुद्भवः ॥ २८ ॥
इन्द्रोऽपि स्वगृहं गत्वा रम्भां त्यक्त्वा चकार ह ।
सुराणामखिलं राज्यमात्मानं निन्दयन्मुहुः ॥ २९ ॥
अहो धिक् बत राज्यं मे सुराणां स्त्रीजितस्य च ।
असुराणामिवात्यन्तं मनो मे चञ्चलं भृशम् ॥ ३० ॥
पुंश्चल्या मोहितं नित्यं धिङ् मां साध्वभिनिन्दितम् ।
कुकुर्मकृत्यदोषाच्च भयमग्रे भविष्यति ॥ ३१ ॥
इत्येवमात्मनात्मानं निन्दयामास देवपः ।
स्वधरर्मे संस्थितो दक्ष वृत्रहा पुनरेव च ॥ ३२ ॥
इन्द्रवीर्याच्च कालेन भूम्यां जातो महासुरः ।
तं पृथ्वी पालयामास स्तनपानादिना भृशम् ॥ ३३ ॥
स तु संववृधे तत्र हिमाचल इवापरः ।
आजानुबाहुर्दीर्घाक्षो महावक्षा महाबलः ॥ ३४ ॥
रक्तवर्णः क्रूरकर्मा यथाग्निर्ज्वलितो बभौ ।
नाम तस्याऽकरोद्भूमिर्मत्सरेति स्वभावतः ॥ ३५ ॥
पञ्चवर्षवयोगस्य चोपवीतप्रदानकम् ।
ब्राह्मणैः कारयामास धरित्री स्नेहभावतः ॥ ३६ ॥
स तु वेदादिकं सर्वं शिक्षितुं गुरुसन्निधौ ।
स्थित आर्जवसंयुक्तो ग्राहकः श्रवणेन वै ॥ ३७ ॥
महाबुद्धिः स कालेनाल्पेन वेदादिपारगः ।
दुर्बुद्धेः कन्यकां रम्यां तामुवाह विलासिनीम् ॥ ३८ ॥
नाम्ना मदकराख्याता सर्वावयवशोभिनी ।
चतुरा सर्वकार्येषु विषयस्य विवर्धिनी ॥ ३९ ॥
एकस्मिन् दिवसे तस्य मतिर्जाता दुरात्मनः ।
विपुलं सुतपस्तप्त्वा जेयं ब्रह्माण्डमोजसा ॥ ४० ॥
स शुक्रमुपसङ्गम्य विद्यां पञ्चाक्षरीमगात् ।
तपसा च तया शम्भुं तोषयामास भक्तितः ॥ ४१ ॥
निर्जने वन एकान्ते पुष्पपल्लवशोभिते ।
कन्दमूलफलोपेते सुजले संस्थितोऽतपत् ॥ ४२ ॥
दिव्यवर्षसहस्रं स निराहारतया स्थितः ।
जपन् पञ्चाक्षरं मन्त्रं ध्यात्वा हृदि सदाशिवम् ॥ ४३ ॥
दीक्षां पाशुपतीं धृत्वा तोषयामास शङ्करम् ।
तस्य प्रतपसा देवाः क्षुभिताश्च समन्ततः ॥ ४४ ॥
न प्रकाशो रवेरासीन्नाग्निज्वाल भास्वरः ।
भूतान्याकुलतां तत्र प्राप्तानि तपसो बलात् ॥ ४५ ॥
देवाः सर्षिगणाः सर्वे शङ्करं शरणं ययुः ।
मत्सरस्य तपस्तप्तान् रक्ष नो जगदीश्वर ॥ ४६ ॥
शङ्करस्तैः समायुक्तः पार्वत्या स्वगणैः सह ।
तं देशमगमद् हृष्टो भक्तं ज्ञातुं महाद्भुतम् ॥ ४७ ॥
अस्थित्वचासमायुक्तं श्वासमात्रावशेषितम् ।
हीनाङ्गमावृतं तत्र वल्मीकेन समन्ततः ॥ ४८ ॥
महोग्रतपसा युक्तं देवाः सर्वे विसिस्मिरे ।
ऋषयोऽपि महाभागा दृष्ट्वा तं तापसं परम् ॥ ४९ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरतपोवर्णनं नाम त्रयोविंशतितमोऽध्यायः ॥