॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
गणेशवचनं श्रुत्वा भक्तिभावसमन्वितः ।
मुद्गलः प्रणिपत्यैनमूचिवान् हर्षपूरितः ॥ १ ॥
मुद्गल उवाच ।
किं मां लोभयसे ढुण्ढे वृणोमि च न किञ्चन ।
तव वाक्यानुरोधेन वृणोमि त्वं ददासि चेत् ॥ २ ॥
तव भक्तिं दृढां देहि सदाऽखण्डात्मिकां प्रभो ।
सम्पूर्णा भक्तिमिच्छामि गाणेशीं यत्रकुत्र च ॥ ३ ॥
मुद्गलस्य वचः श्रुत्वा विस्मितो गणराट् स्वयम् ।
अहो सम्पूर्णभावेन भक्तिमेकांवृणोषि यत् ॥ ४ ॥
गणेश उवाच ।
मदीया त्वचला भक्तिः सम्पूर्णा प्रभविष्यति ।
त्रैलोक्ये तव भाग्येन समं भाग्यं न विद्यते ॥ ५ ॥
भक्तिः सा नवधा विप्र चित्ते ते रसदायिका ।
दशमं नास्ति संस्थानं चित्तस्य रसधारणे ॥ ६ ॥
श्रवणं कीर्तनं चैव स्मरणं पादसेवनम् ।
अर्चनं वन्दन दास्यं सख्यं देहनिवेदनम् ॥ ७ ॥
नवचिह्नं प्रवक्ष्यामि भक्तिमाहात्म्यमुत्तमम् ।
तेनैव प्राप्यते भक्तिर्जनैर्मे नाऽत्र संशयः ॥ ८ ॥
श्रवणं मद्गुणानां च मननं तादृशं पुनः ।
तस्यानुकूलं कर्तव्यं जायतेऽनुभवस्ततः ॥ ९ ॥
[[५३]]
रसोत्पत्तिस्त्वनुभवे तत्र सर्वा प्रजायते ।
श्रवणं मे तया कार्यं गुणानां जन्तुना सदा ॥ १० ॥
प्रियं भवति नान्यच्च मदेकरसभावतः ।
तेनान्यश्रवणे प्रीतिर्यदा नोत्पद्यते क्वचित् ॥ ११ ॥
तदा सम्पूर्णतां प्राप्ता भक्तिर्मे श्रवणात्मिका ।
अहं वसामि तत्कर्णे सदा तद्भक्तिलालसः ॥ १२ ॥
मद्गुणानां सदा यस्य कीर्तनं रसदायकम् ।
नान्यकीर्तनभावेषु तस्य वै मनसो रसः ॥ १३ ॥
तदा भक्तिः सुसम्पूर्णा मदीया कीर्तनात्मिका ।
प्राप्ता तेन सदा तस्य जिह्वाग्रे प्रवसाम्यहम् ॥ १४ ॥
मदीयकार्यभावस्य विस्मृतिर्नैव जायते ।
समये सावधानो यो व्रतपूजादिमार्गतः ॥ १५ ॥
तेन स्मरणरूपा सा भक्तिः प्राप्ता महामुने ।
स्मृत्यां वसामि तस्याऽहं भक्तिभोगार्थमेव हि ॥ १६ ॥
मदीयपादपद्मं यत्सत्यमन्यदसत्यकम् ।
ज्ञात्वा देहश्रमे वै यो नालस्येन प्रवर्तते ॥ १७ ॥
मम पादाश्रयः पूर्णः सदा येन कृतो मुने ।
अन्यत्राऽलस्यभावेन मिथ्याभूते स्थितेन च ॥ १८ ॥
तस्य भक्तिः समुत्पन्ना पादसेवनरूपिका ।
तस्याऽलसविहीनेऽहं देहे स्थास्यामि निश्चलः ॥ १९ ॥
साङ्गोपाङ्गं प्रकर्तव्यं मदीयं कर्म भावतः ।
अन्यच्च यादृशं जातं तादृशं किल तद्भवेत् ॥ २० ॥
अर्चनात्मकभक्तिः सा सदा प्राप्ता नरेण वै ।
साङ्गोपाङ्गतया तत्र वसेयं भक्तिभावितः ॥ २१ ॥
न मत्समं भवेज्जातु वेदादिषु विचारतः ।
मयि श्रेष्ठत्वमापन्नं श्रेष्ठं मन्नमनं भवेत् ॥ २२ ॥
यदा वै मत्समं नास्ति चित्ते यस्य प्रतिष्ठितम् ।
तदा वदनजा भक्तिः प्राप्ता तेन न संशयः ॥ २३ ॥
तस्य श्रेष्ठत्वभावेऽहं सदा तिष्ठामि सर्वतः ।
भक्तिभोक्ता स्वयं भूत्वाऽन्यत्र श्रेष्ठत्वनाशकः ॥ २४ ॥
गणेशोपासनामार्गो यथा शास्त्रेषु दृश्यते ।
तं दृष्ट्वा तादृशं भूत्वा गाणपत्योऽभिमानतः ॥ २५ ॥
मां भजेत् यः स्वभावेन गाणेशाऽहङ्कृतेर्धरः ।
तेन दास्यं समापन्नं भक्तिभावेन भावितम् ॥ २६ ॥
गाणपत्यस्वभावेऽहं तं स्थास्यामि स्वभावतः ।
दास्यभक्तिविभोगार्थमेकनिष्ठाप्रकाशकः ॥ २७ ॥
मित्रस्य सन्निधाने तु यथा गोप्यं न विद्यते ।
बाह्यान्तरं च मित्रस्य मित्रं जानाति सर्वतः ॥ २८ ॥
तथा बाह्यान्तरैर्हीनो दम्भहीनः स्वभावतः ।
भजते मां नरो यस्तु सख्यं प्राप्तं मदीयकम् ॥ २९ ॥
यत्र कुत्र स्थितेनैव यद्यन् मनमि सन्धृतम् ।
गणेश्वरण तज्ज्ञातं सर्वान्तर्यामिनाऽखिलम् ॥ ३० ॥
एतादृशविचारेण भययुक्तेन चेतसा ।
सर्वभावेन मां यस्तु भजतेऽनन्यचेतसा ॥ ३१ ॥
तस्य सख्ये सदाऽहं वै तिष्ठेयं भक्तिलोलुपः ।
बाह्यान्तरैकभावेषु मोहितस्तस्य चेष्टया ॥ ३२ ॥
पञ्चधा चित्तभूमिर्या तां त्यक्त्वाऽहं तया विना ।
गणेशोऽहं न सन्देहो येनात्मेति निवेदितः ॥ ३३ ॥
अहम्भावविहीनेऽहं भक्तिभावेन संस्थितः ।
नैव भिन्नो भविष्यामि तस्माज्जानीहि भो मुने ॥ ३४ ॥
[[५४]]
इत्येवं नवधा भक्तिं रसयुक्तां करोति यः ।
सहते क्षणमात्रं न चित्तं मद्रसहीनकम् ॥ ३५ ॥
तदा सम्पूर्णभक्तो मे जातो वै नात्र संशयः ।
अहं मोहेन संयुक्तस्तत्र तिष्ठामि सर्वदा ॥ ३६ ॥
न क्षणं तं परित्यक्तुं शक्तोऽहं भक्तियन्त्रितः ।
नवधा चित्तभावेन तं रक्षिष्यामि सर्वदा ॥ ३७ ॥
न च भक्तिसमो भावो मम प्रीतिकरः कदा ।
तेन बद्धो भविष्यामि हृदये तस्य धीमतः ॥ ३८ ॥
नवधा मां भजन्ते ये नरा नानाविधाः सदा ।
तेषां यत्राधिकत्वं च भक्तावेकस्वभावतः ॥ ३९ ॥
अधिका च रसोत्पत्तिर्यत्र भक्तौ समागता ।
तस्यां मुख्यत्वमापन्नं नवधा भवने सति ॥ ४० ॥
तत्र मुख्यस्वभावेन भक्तराजाश्च ये स्थिताः ।
तान् वदामि महाभाग शृणु तत्त्वमिदं महत् ॥ ४१ ॥
श्रवणे मद्गुणानां यदाधिक्यं खलु विद्यते ।
तत्र वै कार्तिकेयश्च भक्तराजः प्रकीर्तितः ॥ ४२ ॥
कीर्तने भक्तराजस्तु सूर्य आत्मा शरीरिणाम् ।
स्मरणे रामचन्द्रो वै भक्तराजः स्मृतो बुधैः ॥ ४३ ॥
पार्वती पादसेवायां भक्ताधीशा च संस्मृता ।
महाविष्णुः स्वयं राजा भजतामर्चने मम ॥ ४४ ॥
वन्दने भक्तराजेन्द्रः शङ्करः सर्वभावतः ।
दास्यं भक्ताधिपः प्रोक्तो रामो वै जमदग्निजः ॥ ४५ ॥
सख्ये चतुर्मुखः साक्षाद्भक्तानामधिपः स्मृतः ।
वैयासकिः शुको भूपो मयि त्वात्मनिवेदिनाम् ॥ ४६ ॥
एते भक्ताधिपाः प्रोक्ता अन्तरायविहीनकाः ।
मां भजन्ते महाभागा ब्रह्मभूतास्ततोऽप्यहो ॥ ४७ ॥
त्वं तेषां च सदा राजा कृतो मे नात्र संशयः ।
पूर्णभक्तिस्वभावेन मां भजिष्यसि यत्नतः ॥ ४८ ॥
नवधा भक्तिभावेषु तवाधिक्यं भविष्यति ।
पूर्णभक्तो मदीयस्त्वं भक्तेशेशः कृतो मया ॥ ४९ ॥
मद्भक्तो त्वत्समो नैवाभवन्न प्रभविष्यति ।
वर्तते न कदा विप्र त्वदधीनोऽहमञ्जसा ॥ ५० ॥
तवाङ्गवायुना स्पृष्टाः पूता वै दर्शनादिभिः ।
भविष्यति न सन्देहो ब्रह्मबुद्धियुतास्तथा ॥ ५१ ॥
सूत उवाच ।
एवमुक्त्वान्तर्दधेऽसौ गणेशो ब्रह्मनायकः ।
तदादि स मुनिः प्रोक्तः सर्वेषां वन्द्यतां गतः ॥ ५२ ॥
मुद्गलस्य चरित्रं यः शृणुयाद्वा पठेन्नरः ।
श्रावयेद्भावयुक्तेभ्यः स वै सर्वार्थसिद्धिभाक् ॥ ५३ ॥
इह भुक्त्वाऽखिलान् भोगानन्ते ब्रह्ममयो भवेत् ।
भक्तराजेन्द्रता तस्य विघ्नेशस्य भविष्यति ॥ ५४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते मुद्गलवरप्रदानं नाम द्वाविंशोऽध्यायः ॥