२१ गणेशस्तोत्रोत्तमवर्णनम्

॥ श्रीगणेशाय नमः ॥

शौनक उवाच ।

कथं स्तुतिः कृता तेन गणेशस्य महात्मनः ।
तां मे वद महाभाग सर्वज्ञोऽसि मतो बुधैः ॥ १ ॥

सूत उवाच ।

भवते कथयिष्यामि भावयुक्तेन चेतसा ।
स्तुतिं कृतां गणेशस्य मुद्गलेन च तां मुने ॥ २ ॥

मुद्गल उवाच ।

किं स्तौमि त्वां गणाध्यक्ष वेदैः स्तोतुं न शक्यते ।
ब्रह्मादिभिश्च योगीन्द्रैर्यथामति च वच्मि भोः ॥ ३ ॥

त्वद्दर्शनप्रभावेण शक्तोऽस्मि न च संशयः ।
त्वदनुग्रहतः सर्वे स्तोतुं शक्ता भवन्ति वै ॥ ४ ॥

नमस्ते गणेशाय सर्वादिभूम्ने परेषां परेशाय वेदातिगाय ।
परं मायिने मायिनां मोहदात्रे ह्यगण्याय गण्याय ते वै नमस्ते ॥ ५ ॥

पुराणादिशास्त्रैः सदा संस्तुताय शिवाद्यैः सुरेन्द्रैर्नमस्ते स्तुताय ।
अनाद्यन्तमध्यादिभेदैर्विहीनाय नानामयायास्तु सर्वेश्वराय ॥ ६ ॥

नमो लक्षवेदाष्टयोनिप्रचारतदाकाररूपाय योगेन योगिन् ।
नमो ह्यन्नभूताय सर्वाकराय कलानन्तरूपाय पुष्टिप्रदाय ॥ ७ ॥

नमो भूमिरूपाय नानाप्रभेदधरायाथ धाराय नित्याय तेऽस्तु ।
जलाधिस्वरूपाय तृप्तिप्रदाय तदाकारहीनाय साराय धाम्ने ॥ ८ ॥

नमस्तेजसां द्योतरूपाय ढुण्ढे प्रकाशाय भोक्त्रे च सर्वस्थिताय ।
नमो वायुरूपाय ते चालकाय प्रचारस्वरूपाय भिन्नाय तस्मात् ॥ ९ ॥

नमः स्वस्वरूपाय दीप्ताय पूर्णप्रकाशाय भूतादिकब्रह्मदात्रे ।
नमः स्थूलभोगस्वरूपाय जाग्रन्मयाय प्रभो राजसायाथ तेऽस्तु ॥ १० ॥

[[५०]]

नमः स्वप्नमायामयायापि सूक्ष्मस्वरूपाय सर्वान्तरे संस्थिताय ।
नमः कारणायोभयब्रह्मदाय समायापि सौषुप्तभोगिन्नमस्ते ॥ ११ ॥

नमश्चेतनाधाररूपाय तेऽस्तु प्रयत्नप्रदाय त्रिभोगप्रदाय ।
गुणेशाय चैतन्यधाराय तेऽस्तु नमो नादरूपाय कालाय चात्मन् ॥ १२ ॥

नमो बिन्दुरूपाय वक्राननाय नमो देहमायाविहाराय तुभ्यम् ।
नमश्चित्स्वरूपाय सोऽहं प्रदाय निराकारदेहिस्वरूपाय तेऽस्तु ॥ १३ ॥

सदा ह्येकदन्ताय जन्मातिगाय परायाथ शून्याय दैत्यान्तकाय ।
मदादेश्च शत्रो महाखुध्वजाय नमोऽनादिसिद्धाय मायाधराय ॥ १४ ॥

नमो ज्ञानरूपाय नानाविहारप्रदायाथ पूर्णाय सर्वत्रगाय ।
नमो मायिमायादिभेदाकराय सदा बोधरूपाय ते वै महात्मन् ॥ १५ ॥

नमः साङ्ख्यरूपाय वै देहिनां वै पराय स्वसम्भोगहीनाय देव ।
सदा केवलब्रह्मभूताय तेऽस्तु नमो ज्ञानहीनाय मेधामयाय ॥ १६ ॥

नमः स्वस्वरूपाय चानन्ददाय समाधिस्वरूपाय मौनात्मकाय ।
स्वसंवेद्ययोगेन लभ्याय तेऽस्तु विनात्मप्रबोधाय सर्वाधिपाय ॥ १७ ॥

नमः पञ्चपञ्चादिमायाकराय चतुर्धा चतुर्धा विभिन्नाय धर्मिन् ।
असद्रूपकायाऽथ शक्त्यात्मकाय नमोऽभेदभेदादिनानात्मकाय ॥ १८ ॥

नमः सत्स्वरूपाय सूर्यात्मकाय सदात्मप्रबोधाय मायाधराय ।
अखण्डामृतायाद्वितीयाय तेऽस्तु सदा कालकालाय मोक्षप्रदाय ॥ १९ ॥

नमो विष्णुरूपाय चानन्ददाय समाय स्वमायोभयस्रष्ट्र एव ।
अनन्ताय भेदादिहीनाय भूम्ने सदा भेदरूपाय सर्वात्मकाय ॥ २० ॥

नमः शम्भुरूपाय नेतिप्रदाय सदा मोहहीनाय च त्र्यम्बकाय ।
त्रिधा मायया भासितुर्यस्वरूपपरब्रह्मरूपाय ते धूम्रवर्ण ॥ २१ ॥

चतुर्णामभेदाय संयोगकारिन् स्वसंवेद्यभावेन विघ्नाधिपाय ।
स्वभक्तस्य पक्षे सदा संस्थिताय गणाधीश हन्त्रे महादैत्यकानाम् ॥ २२ ॥

नमः कर्मरूपाय कर्मादिकर्त्रे जनानां स्वकर्मादिना भोगदात्रे ।
नमो ज्ञानरूपाय निःसङ्गदाय सदा कर्महीनाय ते केवलाय ॥ २३ ॥

नमस्ते समानप्रदायोभयाय समायाऽथ योगेन चानन्ददाय ।
नमः साहजब्रह्मभूयप्रदाय त्रिधाम्ने त्रिहीनाय सन्तोषदाय ॥ २४ ॥

चतुर्धा स्थितीनां सदा पालकाय निजात्मस्वरूपाय संयोगकारिन् ।
अपाराय नाना चतुर्णां समूहेष्वधीशाय हेरम्ब तुभ्यं नमस्ते ॥ २५ ॥

अयोगाय मायाविहीनाय तुभ्यं नमस्ते निरानन्दरूपाय नित्यम् ।
निवृत्तिस्वरूपाय भिन्नाय तेऽस्तु नमो योगरूपासमाधिस्थिताय ॥ २६ ॥

नमो योगशान्तिस्वरूपाय शान्तिप्रदात्रे गणेशाय योगाय तुभ्यम् ।
सदा ब्रह्मणां ब्रह्मदात्रेऽखिलेश गणानां पते ज्येष्ठराजाय तेऽस्तु ॥ २७ ॥

[[५१]]

नमो ब्रह्मणे सृष्टिकर्त्रे सदा वै रजोधारिणे वेदशास्त्रादिकर्त्रे ।
सदा सृष्टिहीनाय साम्याय धाम्ने नमो मायिने मध्यवृत्तिस्थिताय ॥ २८ ॥

नमः सत्वरूपाय विष्णुप्रभेदाज्जगत्पालकायाथ मायाधराय ।
नमः सत्त्वहीनाय सर्वातिगाय कवीनां पते विघ्नहन्त्रे नमस्ते ॥ २९ ॥

नमस्तामसायाऽथ संहारकर्त्रे त्रिनेत्रप्रदीपाय शक्तेर्धराय ।
सदा कालरूपाय कैलासदाय तमोहीनरूपाय लम्बोदराय ॥ ३० ॥

नमः कर्मणां मूलबीजाय तेऽस्तु नमो भानुरूपाय तेजोमयाय ।
त्रिकालादिबोधाय सूर्याय भूम्ने प्रकाशैर्विहीनाय हेरम्ब तेऽस्तु ॥ ३१ ॥

नमः शक्तिरूपाय मोहप्रदाय क्रियाधारभूताय नानाभ्रमाय ।
अनन्तस्वरूपाधिलीलाधराय नमः शक्तिहीनाय सिद्धीश तुभ्यम् ॥ ३२ ॥

नमश्चन्द्ररूपाय पुष्टिप्रदाय कलाभिस्त्रिलोकस्थभूतादिकेभ्यः ।
सुधाधारकायाऽथ नक्षत्रकादिप्रकाशाय ते ह्यन्नहीनाय ढुण्ढे ॥ ३३ ॥

नमः कामरूपाय कामारये ते नमस्ते गजाकारतुण्डाय तुभ्यम् ।
हरीन्द्रादिदेवैः सदा संस्तुताय शुकाद्यैर्महद्भिश्च वन्द्याय तेऽस्तु ॥ ३४ ॥

अनित्याय नित्याय देवेश देव सकामाय निष्कामभावप्रदाय ।
सदा सर्वपूज्याय सर्वाधिपाय जलेशेन्द्रशेषादिभिः संस्तुताय ॥ ३५ ॥

नमः काश्यपायाऽथ वै कापिलाय वरेण्यस्य पुत्राय पाराशराय ।
नमः शम्भुपुत्राय पार्श्वात्मजाय नमो भक्तिभोक्त्रे गणाधीश तेऽस्तु ॥ ३६ ॥

नमो माधवस्त्रीसुतायाऽथ तुभ्यं नमः सर्वमात्रे नमः सर्वपित्रे ।
नमः सर्वपुत्राय सर्वात्मकाय नमः सर्वसर्वाय नानामयाय ॥ ३७ ॥

नमः पाशधारिन् नमो दन्तधारिन् सृणिं बिभृते वै सदानन्ददायिन् ।
नमः पुत्रपौत्रादि राज्यप्रदात्रे नमो भुक्तिमुक्तिप्रदायाऽथ तुभ्यम् ॥ ३८ ॥

नमोऽनन्तशक्ते गुणानामधीश मयूरेश योगेश मायेश तुभ्यम् ।
नमोऽव्यक्तसुव्यक्तरूपाय दन्तिन् गजाकारसाकारमोहाय तेऽस्तु ॥ ३९ ॥

नमो ह्येकरूपाय नानाप्रभेदादये विघ्नपालाय शुण्डाधराय ।
अनाथाय नाथाय देवादिकानां निवासाय सर्वात्मनां ते नमो वै ॥ ४० ॥

नमस्त्वम्पदाकारदेहाय तुभ्यं नमस्तत्पदाकारतुण्डाय तेऽस्तु ।
तयोरेकभावाऽसिरूपप्रयुक्तशरीराय साक्षात् सुधाम्ने नमस्ते ॥ ४१ ॥

नमो वामभागेन सिद्धिस्वरूपाधृतामोहमायाजनानां जनित्री ।
सदा बुद्धिरूपा धृता दक्षिणाङ्गे न पुंस्त्रीस्वरूपाऽसिरूपाय तेऽस्तु ॥ ४२ ॥

नमो भ्रामरी त्वम्पदाधारशक्तिः सदा तत्पदा कामदात्री ह्यभेदा ।
तयोरेकभावे स्वसंवेद्यनाम्नि पुरे मस्तके वासकारिंश्च तासाम् ॥ ४३ ॥

अखण्डामृतं यत्र तोयं सुताम्रं समुद्रे स्थितं चेक्षुसञ्ज्ञे नमस्ते ।
निराधाररूपे च पानेन तस्य न पुंस्त्रीप्रदायाऽत्र खेलंश्च तेऽस्तु ॥ ४४ ॥

जनानां सदा त्र्यक्षरं शृण्वतां च गणेशेति चानन्ददायिन्नमस्ते ।
सकृज्जल्पतां जन्ममृत्यू न तेषामपारप्रधाम्ने च ढुण्ढीश्वराय ॥ ४५ ॥

[[५२]]

तवोपासका ब्रह्मभूता न चित्रं जनेभ्यश्च संस्पर्शनैर्ब्रह्मदा वै ।
सुरेन्द्रादिपूज्या गणेशस्वरूपा भवेयुर्नमस्ते नमस्ते गणेश ॥ ४६ ॥

सूत उवाच ।

इति स्तुत्वा गणेशानं मुद्गलो मौनधारकः ।
पादौ धृत्वा गणेशस्य पतितो दण्डवत् क्षितौ ॥ ४७ ॥

समुत्थाप्य स्वभक्तं तं सस्वजे परमादरात् ।
गजाननः प्रसन्नात्मा तमुवाच महामुनिम् ॥ ४८ ॥

गणेश उवाच ।

त्वया स्तोत्रं कृतं यच्च मदीयं मम सन्निधौ ।
स्तोत्रोत्तमं प्रविख्यातं भविष्यति न संशयः ॥ ४९ ॥

स्तोत्रोत्तमेन मां स्तौति तस्मै मुक्तिं सभुक्तिकाम् ।
ददामि दृढभक्तिं च मदीयां नात्र संशयः ॥ ५० ॥

न सङ्कटं न रोगं च प्राप्नोति स नरोत्तमः ।
पुत्रपौत्रादिकं सर्वं धनं धान्यं ददामि वै ॥ ५१ ॥

मारणोच्चाटनादीनि नश्यन्ति पठनेन च ।
एकविंशतिवारं च तथा तावद्दिनावधि ॥ ५२ ॥

कारागृहादिजाः पीडा नश्यन्ति पठनेन च ।
मनसेप्सितमाप्नोति नरो मे परमप्रियः ॥ ५३ ॥

त्वं तु मत्तो वरान् ब्रूहि दास्येऽहं भक्तियन्त्रितः ।
त्वत्समो नास्ति भावज्ञो वशे तेऽहं सदा स्थितः ॥ ५४ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते गणेशस्तोत्रोत्तमवर्णने एकविंशतितमोऽध्यायः ॥