॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
वचः श्रुत्वा चाङ्गिरसो हृष्टरोमा स मुद्गलः ।
विनयावनतो भूत्वोवाच तं विस्मयन्निव ॥ १ ॥
मुद्गल उवाच ।
तस्यावतारमाहात्म्यं कथयस्व महामुने ।
तत्क्रमेण भजिष्यामि ब्रह्मभूयस्य सिद्धये ॥ २ ॥
अङ्गिरा उवाच ।
अनन्ता ह्यवताराश्च गणेशस्य महात्मनः ।
न शक्यन्ते च ते वक्तुं मया वर्षशतैरपि ॥ ३ ॥
सङ्क्षेपेण प्रवक्ष्यामि मुख्यानां मुख्यतां गतान् ।
अवतारांश्च तस्याष्टौ विख्यातान् ब्रह्मधारकान् ॥ ४ ॥
वक्रतुण्डावतारश्च देहानां ब्रह्मधारकः ।
मत्सरासुरहन्ता स सिंहवाहनगः स्मृतः ॥ ५ ॥
एकदन्तावतारो वै देहिनां ब्रह्मधारकः ।
मदासुरस्य हन्ता स आखुवाहनगः स्मृतः ॥ ६ ॥
महोदर इति ख्यातो ज्ञानब्रह्मप्रकाशकः ।
मोहासुरस्य शत्रुर्वै आखुवाहनगः स्मृतः ॥ ७ ॥
गजाननः स विज्ञेयः साङ्ख्येभ्यः सिद्धिदायकः ।
लोमासुरप्रहर्ता वै आखुगश्च प्रकीर्तितः ॥ ८ ॥
[[४८]]
लम्बोदरावतारो वै क्रोधासुरनिबर्हणः ।
शक्तिब्रह्माखुगः सद्यत्तस्य धारक उच्यते ॥ ९ ॥
विकटो नाम विख्यातः कामासुरविदाहकः ।
मयूरवाहनश्चाऽयं सौरब्रह्मधरः स्मृतः ॥ १० ॥
विघ्नराजावतारश्च शेषवाहन उच्यते ।
ममतासुरहन्ता स विष्णुब्रह्मेति वाचकः ॥ ११ ॥
धूम्रवर्णावतारश्चाभिमानासुरनाशकः ।
आखुवाहन एवाऽसौ शिवात्मा तु स उच्यते ॥ १२ ॥
एतेऽष्टौ ते मया प्रोक्ता गणेशांशा विनायकाः ।
एते भजनमात्रेण स्वस्वब्रह्मप्रदायकाः ॥ १३ ॥
स्वानन्दवासकारी यो गणेशानः प्रकथ्यते ।
स्वानन्दे योगिभिर्दृष्टो ब्रह्मण्येव न संशयः ॥ १४ ॥
तस्यावतारभूताश्चाऽष्टौ विघ्नहरणाः स्मृताः ।
स्वानन्दभजनेनैव लीनास्तत्र भवन्ति ते ॥ १५ ॥
माया तत्र स्वयं लीना भविष्यति सुपुत्रक ।
संयोगे मौनभावश्च समाधिः प्राप्यते जनैः ॥ १६ ॥
अयोगिगणराजस्य भजनेन विनश्यति ।
मायाभेदमयं ब्रह्म निवृत्तिः प्राप्यते परा ॥ १७ ॥
योगात्मकगणेशानो ब्रह्मणस्पतिवाचकः ।
तत्र शान्तिः समाख्याता योगरूपा जनैः कृता ॥ १८ ॥
नानाशान्तिप्रभेदश्च स्थाने स्थाने प्रकथ्यते ।
शान्तीनां शान्तिरूपा सा योगशान्तिः प्रकीर्तिता ॥ १९ ॥
योगस्य योगता दृष्टा सर्वब्रह्मसुपुत्रक ।
न योगात् परमं ब्रह्म ब्रह्मभूतेन लभ्यते ॥ २० ॥
एतदेव परं गुह्यं कथितं वत्स तेऽखिलम् ।
भज त्वं सर्वभावेन गणेशं ब्रह्मनायकम् ॥ २१ ॥
मया पूर्णं तपश्चीर्णं गणेशस्य महात्मनः ।
मह्यं दत्तो वरस्तेन वाञ्छितो भक्तितोषतः ॥ २२ ॥
तव वंशे च गाणेशा भविष्यन्ति विशेषतः ।
तत्रापि मुद्गलोऽत्यन्तं गाणपत्यो भविष्यति ॥ २३ ॥
न मुगलसमो भक्तो गणेशस्य प्रदृश्यते ।
न भूतो न भविष्यन् वा भक्तराजः स एकराट् ॥ २४ ॥
मुद्गलस्य प्रणामेन स्पर्शभाषणदर्शनैः ।
वायुस्पर्शादिभिर्भावैरुद्धरिष्यन्ति जन्तवः ॥ २५ ॥
मह्यमेवं वरं दत्वा गणेशोऽतर्दधे सुत ।
स त्वं मुद्गलनामासि मम वंशस्य भूषणम् ॥ २६ ॥
धन्यो वंशो मदीयोद्य गाणपत्यश्च यत्र वै ।
समुत्पन्ना महाभागा जन्तूनां नारकाः स्मृताः ॥ २७ ॥
त्वं साक्षान् मूर्तिमांस्तेषु गाणपत्यः प्रतापवान् ।
समुत्पन्नो महायोगी भविष्यसि न संशयः ॥ २८ ॥
मुद्गलं चैवमुक्त्वातमङ्गिरा उपदिष्टवान् ।
एकाक्षरमहामन्त्रं गणेशस्य यथाविधि ॥ २९ ॥
गच्छ पुत्र त्वमद्यैव तपसे वनमुत्तमम् ।
आराधय गणेशं स दर्शनं ते प्रदास्यति ॥ ३० ॥
प्रणम्याऽसौ चाङ्गिरसं मुद्गलः प्रययौ वनम् ।
एकनिष्ठतया तेपे तपः पूर्ण महाद्भुतम् ॥ ३१ ॥
एकाक्षरविधानेन साङ्गेन परितुष्टवान् ।
गणेशोऽब्दसहस्रेण दिव्येन च समागतः ॥ ३२ ॥
आखुवाहश्चतुर्बाहुः सिद्धिबुद्धिसमन्वितः ।
प्रमोदामोदकाद्यैश्च संवृतो भक्तवत्सलः ॥ ३३ ॥
नानाभूषणशोभाढयो गजवक्त्रो महोदरः ।
एकदन्तस्त्रिनेत्रश्च चतुरायुधभूषितः ॥ ३४ ॥
[[४९]]
चिन्तामणिमणिं बिभ्रद् हृदये द्युतिजालकम् ।
महाभक्तमुवाचेत्थं हर्षयन् सर्वभावतः ॥ ३५ ॥
श्रीगणेश उवाच ।
वरं वृणु महाभाग मुद्गल स्वेप्सितं हृदि ।
दास्यामि परमप्रीत एकाक्षरविधानतः ॥ ३६ ॥
सूत उवाच ।
गणेशवचनं श्रुत्वा मुद्गलः प्रणनाम तम् ।
बद्धाञ्जलिपुटो भूत्वा पूजयामास भक्तितः ॥ ३७ ॥
पूजयित्वा यथान्यायं प्रहृष्टहृदयो मुनिः ।
पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रो बभूव ह ॥ ३८ ॥
सगद्गदमुवाचाऽथ तं प्रणम्य पुनः पुनः ।
महता भक्तिभावेन तथा चाङ्गिरसो मुनिः ॥ ३९ ॥
मुद्गल उवाच ।
धन्यो वंशो मदीयोऽद्य धन्यं जन्म वयोऽपि च ।
विद्या ज्ञानं तपस्तीर्थ धन्यं त्वदर्शनात् प्रभो ॥ ४० ॥
इयं धन्याऽद्य पृथ्वी च वृक्षाः पुष्पफलान्विताः ।
पशुपक्षिलताद्या ये आगतोऽत्र महाप्रभुः ॥ ४१ ॥
इत्युक्त्वा तं प्रतुष्टाव गणेशं सर्वसिद्धिदम् ।
स्तोत्रेण स्वात्मनिष्ठः सन् भक्त्या परमया युतः ॥ ४२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते गणेशमुद्गलसमागमो नाम विंशोऽध्यायः ॥