१९ अङ्गिरामुद्गलसंवादः

॥ श्रीगणेशाय नमः ॥

सूत उवाच ।

देवदूतवचः श्रुत्वा मुद्गलस्तमथाब्रवीत् ।
शृणु शौनक माहाम्यं मुनेस्तस्य सुयोगिनः ॥ १ ॥

मुद्गल उवाच ।

देवदूत मया सर्व त्वयोक्तं बुद्धिपूर्वकम् ।
श्रुतं पुनः प्रपृच्छामि तन् मे वद महामते ॥ २ ॥

दोषैस्त्रिभिविहीनं तं कं लोकं वद मे प्रभो ।
मनस्तापविहीनाश्च मोदन्ते यत्र मानवाः ॥ ३ ॥

सूत उवाच ।

मुद्गलस्य वचः श्रुत्वा देवदूत उवाच ह ।
लोकं च तमहं तुभ्यं कथयामि सविस्तरम् ॥ ४ ॥

देवदूत उवाच ।

निष्कामकर्मणा विप्र ब्रह्मलोकः प्रलभ्यते ।
वैकुण्ठः शिवलोकश्च सौरः शाक्तो जनेन च ॥ ५ ॥

तत्राऽपि दोषयुक्तत्वं वर्तते मुनिसत्तम ।
ब्रह्मभूयपदं यच्च दोषहीनं प्रचक्षते ॥ ६ ॥

देवदूतमुखादित्थं श्रुत्वा वै मुद्गलो मुनिः ।
तं पप्रच्छ पुनः साधुर्भक्तिनम्रात्मकन्धरः ॥ ७ ॥

[[४५]]

मुद्गल उवाच ।

कुत्र तल्लभ्यते स्वामिन् वद सर्वमशेषतः ।
उपकारपरोऽसि त्वं तेन पृच्छामि तत्त्वतः ॥ ८ ॥

देवदूत उवाच ।

कर्मभूमिरियं ब्रह्मन्नत्र वै लभ्यते जनैः ।
धर्मार्थकाममोक्षादि ब्रह्मभूयं न संशयः ॥ ९ ॥

श्रुत्वा तस्य वचो रम्यं मुद्गलस्तमुवाच ह ।
गच्छ दूत नमस्तुभ्यं स्वर्गं प्रति नयाम्यहम् ॥ १० ॥

हृदि सन्तापसंयुक्तं पुनः पातभयात्मकम् ।
स्वर्गं नेच्छामि भो विद्वन् ब्रह्म तत्साधयाम्यहम् ॥ ११ ॥

देवदूत उवाचेदं मुद्गलं मुनिसत्तमम् ।
भाग्यहीनोऽसि नूनं त्वं स्वर्गं नैवाभिनन्दसि ॥ १२ ॥

स्वर्गेच्छा कस्य नैवास्ति नरस्य वद मां मुने ।
उग्रैस्तपोभिर्दानैश्च यज्ञैः स्वर्गश्च लभ्यते ॥ १३ ॥

नानापुण्यादिकं कृत्वा सत्कर्मादिसुसाधनैः ।
इच्छन्ति मनुजाः स्वर्गं महासौख्यप्रदं परम् ॥ १४ ॥

स स्वर्गश्च त्वया प्राप्तस्तपसोग्रैः सुसाधनैः ।
नेच्छसि त्वं महामूढ ज्ञानहीनोऽसि मे मतम् ॥ १५ ॥

देवदूतं वदन्तं तं तदा पुनरिदं वचः ।
मुद्गलः स्नेहसंयुक्तः प्रत्युवाच हसन्निव ॥ १६ ॥

मुद्गल उवाच ।

किं मां मोहयसि प्राज्ञ देहोऽयं बन्धनात्मकः ।
देहसौख्यकरः स्वर्गो मुक्तिदो न बुधैः स्मृतः ॥ १७ ॥

तत्रापि हृदि सन्तापो वर्तते दूतसत्तम ।
तापत्रयसमायुक्तं विद्वान्नेच्छति कर्हिचित् ॥ १८ ॥

गच्छ त्वं च महाभाग बृहस्पतिपुरोगमम् ।
इन्द्रं प्रणामं कथय नाऽऽगतो मुनिरित्यपि ॥ १९ ॥

एवमुक्त्वा नमस्कृत्य देवदूतमहं प्रभो ।
अग्नेश्च गतवान् शालां गतो दूतो यथागतम् ॥ २० ॥

मयाऽपि स्वाश्रमे तत्र स्थितं मनसि धारितम् ।
विधिना ब्रह्मवेदेषु नानारूपं प्रकथ्यते ॥ २१ ॥

किं प्रमाणं भवेत्तेषां साधनीयं मया कथम् ।
पूर्णभावमविज्ञाय भ्रान्तोऽहं नात्र संशयः ॥ २२ ॥

अतः संशयनाशार्थं गमिष्यामि महामुनिम् ।
योगिश्रेष्ठैरङ्गिरसं वन्द्यं वेदज्ञमुत्तमम् ॥ २३ ॥

शब्दब्रह्मणि निष्णातं परे ब्रह्मणि तन्मयम् ।
अस्माकं मूलपुरुषं साक्षाद् ब्रह्मशरीरकम् ॥ २४ ॥

इति निश्चितवांस्तत्र गतोऽहं मुनिसन्निधौ ।
आश्रमोऽस्य मया दृष्टः सर्वभूताभयप्रदः ॥ २५ ॥

नातपो न च शीतत्वं न क्रोधः कामसम्भवः ।
न मात्सर्यादिकं तत्र समकालयुतो बभौ ॥ २६ ॥

नावृष्टिर्नातिवृष्टिश्च ह्यकाले मरणं न च ।
न ग्रहादिकृता पीडा तत्र रक्षोभयं न च ॥ २७ ॥

सर्वशान्तिप्रदः पूर्णस्तापसानां हितावहः ।
विस्मितेन सुपुण्येन प्रविष्टो भाग्ययोगतः ॥ २८ ॥

तत्र नानामुनीनां च वत्साः परमशोभनाः ।
मया दृष्टा महाभाग वेदघोषनिनादिताः ॥ २९ ॥

अग्निहोत्रादिभिर्युक्ता नानापक्षिनिनादिताः ।
वृक्षवल्लीसमायुक्ता नानापुष्पफलाश्रिताः ॥ ३० ॥

नानासरोवराण्येव हंसकारण्डवैर्बभुः ।
नानापक्षिवृतान्येव सुधारूपजलानि वै ॥ ३१ ॥

सुनिर्मलपयांस्येव मकरादियुतानि च ।
कमलैः कुमुदैर्नानाशोभमानानि षट्पदैः ॥ ३२ ॥

सिंहव्याघ्रमृगा नागा गजा गावश्च मूषिकाः ।
निर्वैराः प्राणिनस्तत्र निवसन्ति प्रजापते ॥ ३३ ॥

[[१९]]

एवं दृष्ट्वा महाभाग आश्रमं हर्षसंयुतः ।
पश्यन् पुनश्च ह्यभवं विस्मितो निजचेतसि ॥ ३४ ॥

तं वै कुशासनस्थं च साक्षात् सूर्यमिवापरम् ।
तेजसा दीप्यमानं त्वपश्यमङ्गिरसं मुनिम् ॥ ३५ ॥

सिद्धैर्नानाविधैश्चैव योगिभिर्मुनिभिर्वृतम् ।
शिष्येभ्यो ब्रह्मविद्यां तां कथयन्तं यथार्थतः ॥ ३६ ॥

दण्डवत्तं प्रणम्यादौ भक्तिभावयुतोऽभवम् ।
प्राञ्जलिः प्रयतो भूत्वा संस्थितो मुनिसन्निधौ ॥ ३७ ॥

तव गोत्रभवं स्वामिन् मुद्गलं मुनिसत्तम ।
दर्शनार्थं समायातं विद्धि मां ब्रह्मदायक ॥ ३८ ॥

मदीयं वचनं श्रुत्वा प्रसन्नः प्राह मां मुनिः ।
वत्स त्वमागतस्तात तिष्ठाऽत्र मम सन्न्निधौ ॥ ३९ ॥

अविघ्नभावयुक्तेन तपस्तप्तं त्वया सुत ।
तेन मे दर्शनं प्राप्तं सत्पुत्रोऽसि न संशयः ॥ ४० ॥

मुनेर्वचनमाकर्ण्य प्राप्तोऽहं परमां मुदम् ।
तत्र स्थितोऽभवं दक्ष सन्निधौ तस्य धीमतः ॥ ४१ ॥

कस्मिंश्चिद् दिवसे तत्र लब्ध्वाऽवसरमुत्तमम् ।
पृष्टो मया महायोगी शृण्वत्सु च मुनिष्वपि ॥ ४२ ॥

ज्ञातुमिच्छामि भो स्वामिन् वद मां करुणानिधे ।
अस्माकं त्वं गतिः साक्षात् सर्वेषां चैव भक्तितः ॥ ४३ ॥

सूत उवाच ।

वचनं मुद्गलस्याऽपि श्रुत्वा तं पुनरब्रवीत् ।
अङ्गिरा भगवान् योगी प्रहसंस्तं प्रहर्षयन् ॥ ४४ ॥

अङ्गिरा उवाच ।

मह्यं पृच्छसि किं तात तद् ब्रूहि त्वं महाद्युते ।
भावतो मन्त्रकर्ता त्वं पुराणाचार्य एव च ॥ ४५ ॥

मुद्गल उवाच ।

कथितं ब्रह्मवेदेषु नानाभावसमन्वितम् ।
किं प्रमाणं वेदितव्यं ब्रह्मभूयेप्सुभिः प्रभो ॥ ४६ ॥

अङ्गिरा उवाच ।

शृणु पुत्र प्रवक्ष्यामि वेदान्तैयन्त्प्रभाषितम् ।
क्रमेण ब्रह्मलाभार्थं नानाब्रह्मनिरूपणम् ॥ ४७ ॥

अन्नं ब्रह्मेति यत्प्रोक्तं तत्रोपाधिः समागतः ।
अन्नरूपो महातेजा अन्नकोशमयं ततः ॥ ४८ ॥

प्राणो ब्रह्मेति यत्प्रोक्तं प्राणकोशप्रकाशकम् ।
मनो ब्रह्मेति जानीहि मनःकोशमयं तथा ॥ ४९ ॥

विज्ञानं ब्रह्म चोक्तं विज्ञानकोशप्रधारकम् ।
आनन्दो ब्रह्म समतानन्दकोशप्रभासकम् ॥ ५० ॥

चैतन्यं ब्रह्म यत्प्रोक्तं महाकारणधारकम् ।
बिन्दुब्रह्म यदुक्तं तज्ज्ञानदेहमयं मुने ॥ ५१ ॥

चिद्ब्रह्मेति समाख्यातं सोऽहं मात्रात्मकं मतम् ।
बोधो ब्रह्मेति वेदेषु स्वत उत्थानवेदकम् ॥ ५२ ॥

साङ्ख्यं ब्रह्मेति यत्प्रोक्तं विदेहाधारकं सुत ।
कर्मज्ञाने तु वेदे च कथिते ते तदात्मके ॥ ५३ ॥

समं ब्रह्मेति जानीहि कथितं नन्दनात्मकम् ।
अव्यक्तं सहजं ब्रह्म ज्ञातव्यं नेतिरूपकम् ॥ ५४ ॥

शक्तिब्रह्मेति वेदेषु ह्यसद्रूपप्रकाशकम् ।
सूर्यो ब्रह्मेति यत्प्रोक्तमात्मरूपं प्रकीर्तितम् ॥ ५५ ॥

विष्णुर्ब्रह्मेति यत्प्रोक्तमुभयात्मकधारकम् ।
शिवो ब्रह्मेति शास्त्रेषु निर्मोहस्य प्रकाशकम् ॥ ५६ ॥

स्वानन्दो ब्रह्मवेदे च संयोगमयमुत्तमम् ।
निर्वृत्तिर्ब्रह्मशास्त्रेषु ह्ययोगाधारकं परम् ॥ ५७ ॥

एवं नानाप्रकारैश्च वेदादौ च प्रकथ्यते ।
मुनिभिर्ब्रह्मवादज्ञैः सर्वं तथ्यं प्रमाणतः ॥ ५८ ॥

बृंहत्यथो बृंहयति यद्ब्रह्म श्रुतिवाक्यतः ।
तदेव ब्रह्मभूतत्वं ज्ञातव्यं मुनिभिः सदा ॥ ५९ ॥

अनाद्यात्मचिदाद्यैर्यद्युक्तं ब्रह्म प्रकथ्यते ।
तदेवोपाधियुक्तं वै योगिभिः सुविचारितम् ॥ ६० ॥

ब्रह्मेति ब्रह्म विज्ञेयं तच्च योगेन लभ्यते ।
तदर्थं मथनं सर्वं कर्मज्ञानादिकस्य च ॥ ६१ ॥

तदेव ब्रह्म प्रत्यक्षं ब्रह्मणस्पतिवाचकम् ।
ब्रह्मणां ब्रह्म विख्यातं वेदस्मृतिसुभाषितम् ॥ ६२ ॥

बृंहत्यथो बृंहयति गणशब्दः प्रकीर्तितः ।
समूहे गणधातुश्च कविभिः कथितो भवेत् ॥ ६३ ॥

बाह्यान्तरादिकानां च समूहो गण उच्यते ।
तत्राऽभेदेन योगेन प्राप्यते योगिभिः परः ॥ ६४ ॥

अन्नानां बहवो भेदा बाह्यान्तरविभावतः ।
तदेव गणवाच्यं च ज्ञातव्यं विवुधैः सदा ॥ ६५ ॥

इत्यादयो गणास्तस्यानन्ता ब्रह्मप्रवाचकाः ।
तेषां स्वामी गणेशानः स एव ब्रह्मणस्पतिः ॥ ६६ ॥

तं भजस्व महाभाग ब्रह्मभूयं यदीच्छसि ।
तस्यावतारदेहा यं ज्ञानादिब्रह्मसञ्ज्ञिताः ॥ ६७ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते अङ्गिरामुद्गलसंवादो नामैकोनविंशतितमोऽध्यायः ॥