॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
श्रुतं सूत महाभाग कथितं परमाद्भुतम् ।
चरितं गणनाथस्य तेन तृप्ता वयं प्रभो ॥ १ ॥
शिवशक्तिमहावादं श्रुत्वा तृष्णा विवर्धते ।
पुनश्च वद सूत त्वं गणेशस्य विचेष्टितम् ॥ २ ॥
सूत उवाच ।
शृणु शौनक यत्नेन दक्षेणैवं महामुनिः ।
सत्कथामृतपानं च कृत्वा पृष्टः पुनश्च यत् ॥ ३ ॥
शक्तिशङ्करसंवादं ब्रह्मभूयपदप्रदम् ।
श्रुत्वा दक्षो महाभागः पप्रच्छ मुनिसत्तमः ॥ ४ ॥
[[४२]]
दक्ष उवाच ।
किञ्चित्पुरातनं पुण्यं फलितं मे महाद्भुतम् ।
पीतं मुद्गल ते वक्त्रात् कथामृतमिदं मया ॥ ५ ॥
धन्योऽसि कृतकृत्योऽसि गणेशे भक्तिमानसि ।
गणेशाच्च परं नास्ति ज्ञातं त्वद्वाक्यतो मया ॥ ६ ॥
वद मुद्गल माहात्म्यं पुनर्गणपतेः शुभम् ।
न तृप्तोहं महायोगिन् पीत्वा ब्रह्मामृतं महत् ॥ ७ ॥
शिवशैलसुतावादो महानन्दप्रदायकः ।
तत्राष्टौ गणराजस्य ह्यवताराः श्रुता मया ॥ ८ ॥
तेषां तच्चरितं चाऽपि माहात्म्यं तेऽपि यन् महत् ।
श्रोतुमिच्छामि योगीश दयां कृत्वा वदस्व मे ॥ ९ ॥
किमर्थं गणराजोऽयमवतारं करोति वै ।
ब्रह्मभूयमयो देवस्तद्वदस्व महामुने ॥ १० ॥
परोपकरणार्थाय त्वादृशा मुनिसत्तमाः ।
भ्रमन्ति धरणीं ब्रह्मन् पतितेभ्यः सुखप्रदाः ॥ ११ ॥
दर्शनस्पर्शनेनैव भाषणेन विशेषतः ।
पावयन्ति जनान् सर्वान् साधवः समदर्शिनः ॥ १२ ॥
सूत उवाच ।
श्रुत्वा दक्षवचो रम्यं प्रत्युवाच स मुद्गलः ।
प्रहृष्टो भावयुक्तस्य दक्षस्य च महात्मनः ॥ १३ ॥
मुद्गल उवाच ।
शृणु दक्ष महाभाग धन्योऽसि न च संशयः ।
येन त्वं गणनाथस्य कथां पृच्छसि मां प्रभो ॥ १४ ॥
पापिनां नास्तिकानां वै दाम्भिकानां कदाचन ।
सत्कथाऽमृतपानस्य चेच्छा नोत्पद्यते क्वचित् ॥ १५ ॥
द्वन्द्वभावविचारज्ञास्तथा सहनकारकाः ।
भूतेषु समभावाश्च संसारतरणे रताः ॥ १६ ॥
परोपकारकार्येषु मतिस्तेषां प्रवर्तते ।
एतादृशा महाभागा गणेशे सादराः प्रभो ॥ १७ ॥
कथां गणपतेर्नित्यं शृण्वन्ति च पठन्ति ते ।
श्रावयन्ति जनानन्यान् भक्तिभावसमन्विताः ॥ १८ ॥
अतस्त्वं सादरो भूत्वा शृणुषे पापनाशिनीम् ।
कृत्वा वर्धयसि प्रश्नं कथां गणपतेः शुभाम् ॥ १९ ॥
शृणु यच्च पुरावृत्तं मदीयं भावपूर्वकम् ।
तवाऽग्रे कथयिष्यामि संशयो येन नश्यति ॥ २० ॥
अवतारकथामग्रे ज्ञास्यसि त्वं यथार्थतः ।
गणराजपदं सर्वं प्राप्स्यसि त्वं च भक्तिमान् ॥ २१ ॥
अहं तपसि संविष्टः शिलोञ्छाजीवमाश्रितः ।
दश पञ्च दिनेष्वेव द्वादश्यां मम पारणम् ॥ २२ ॥
द्रोणमात्रं चिनोम्यन्नमुपोषणसमन्वितः ।
तेनान्नेन यथान्यायं पञ्चयागानकृष्यहम् ॥ २३ ॥
एवं बहुगते काले तपसे मयि संस्थिते ।
देवाः सर्वे भयोद्विग्नाः किमयं साधयिष्यति ॥ २४ ॥
ऐद्रं पदं विधातुर्वा वैष्णवं शैवमेव च ।
किं वाञ्छति महाभागो मुनिस्तपसि संस्थितः ॥ २५ ॥
इति देवैः प्रेषितस्तु मुनिः सर्वार्थकोविदः ।
ममाश्रमे परीक्षार्थं दुर्वासाः कोपवान् ययौ ॥ २६ ॥
नग्न उन्मत्ततुल्यः सन्नागतः पारणे मम ।
मह्यं भिक्षां मुने देहि यया तृप्तो भवाम्यहम् ॥ २७ ॥
इत्यूचे तु मया दत्तमन्नं तस्मै महात्मने ।
न ज्ञातो मुनिमुख्योऽयं दुर्वासा आगतो गृहम् ॥ २८ ॥
तदन्नं सकलं भुक्त्वा द्रोणमात्रं महामुनिः ।
उच्छिष्टं लिप्तवान् देहे गतो विकलमानसः ॥ २९ ॥
[[१८]]
मानसे मे महानन्दः प्राप्तो दक्ष प्रजापते ।
धन्यं तपो मदीयं वै तृप्तः सर्वान्नभुक् जनः ॥ ३० ॥
उपोषणे समायुक्तोऽहं तत्र तपसि स्थितः ।
पुनः स द्वादशीघस्रे पारणार्थं समाययौ ॥ ३१ ॥
दुर्वाससं पुनर्यातं तादृशं वेषमास्थितम् ।
महता हर्षयुक्तेनाऽपूजयं च महामुनिम् ॥ ३२ ॥
सर्वान्नं भुक्तवान् सद्य एवं षड्वारमाययौ ।
मम भावपरीक्षार्थं तपःखण्डनकारकः ॥ ३३ ॥
पूर्वपुण्यप्रभावेण च्यावितो न मनागपि ।
त्रिमासोपोषितो भावयुक्तेन तपसाऽभवम् ॥ ३४ ॥
तपसा भावशुद्धेन परितुष्टो महामुनिः ।
स्वरूपं दर्शयामास योगरूपं महाद्भुतम् ॥ ३५ ॥
उवाच शुद्धिमापन्नो मुद्गल त्वं न संशयः ।
गच्छ स्वर्गं महाभाग अक्षयं भोक्तुमर्हसि ॥ ३६ ॥
स्वर्गलोका जिताः सर्वे त्वयाऽक्षय्यप्रकाशकाः ।
तपसा शुद्धभावेनाधुना तान् गच्छ मुद्गल ॥ ३७ ॥
इत्युक्त्वा मां स दुर्वासा गतः स्वाश्रममण्डले ।
तस्मिन्नेव क्षणे स्वर्गाद्विमानं तत्र चागतम् ॥ ३८ ॥
विमानात् पुरुषो दिव्यभूषणैर्भूषितः परः ।
उत्तीर्य मे सुसान्निध्यमागतः पूजितो मया ॥ ३९ ॥
उवाच मधुरं वाक्यं चलेति त्वं मयासह ।
स्वर्गादागतवन्तं वै विद्धि मुद्गल मां तथा ॥ ४० ॥
बृहस्पतिपुरोगः स देव इन्द्रः प्रतापवान् ।
त्वदर्थं संस्थितः स्वामिन् तेनाहं प्रेषितो मुने ॥ ४१ ॥
इदं विमानमारुह्य नानाभोगसमन्वितम् ।
मया सार्धं महाभाग चल स्वर्गं सुभोगदम् ॥ ४२ ॥
सूत उवाच ।
देवदूतवचो रम्यं श्रुत्वैवं मुद्गलो मुनिः ।
विनयावनतो भूत्वा तं पप्रच्छ मुदान्वितः ॥ ४३ ॥
मुद्गल उवाच ।
स्वर्गेषु सर्वलोकेषु के गुणाः सन्ति तान् वद ।
दोषाः के तत्र तिष्ठन्ति श्रुत्वा यामि त्वरान्वितः ॥ ४४ ॥
सूत उवाच ।
मुद्गलस्य वचः श्रुत्वा देवदूतस्तमब्रवीत् ।
विनयेन च सन्तुष्टो यथातथ्यं विभागशः ॥ ४५ ॥
देवदूत उवाच ।
कर्मभूमिरियं ब्रह्मन् भोगभूमिस्तु सा मता ।
स्वर्गरूपा नरादीनां कर्मभोगप्रदायिनी ॥ ४६ ॥
नानासुखप्रदं तत्र गुणं वक्तुं न शक्यते ।
ईप्सितं लभते सर्वं सदा यौवनसंस्थितिः ॥ ४७ ॥
क्लमः स्वेदादिकं तत्र नैव शीतोष्णता तथा ।
अप्सरोभिर्विहाराश्च कामरूपा गतिर्भवेत् ॥ ४८ ॥
स्वकर्मतुल्यभोगाश्च भोक्तव्याः सर्वभावतः ।
ये ये भोगा देहिनां च ते ते तत्र समास्थिताः ॥ ४९ ॥
भोगभूमिः समाख्याता स्वर्गरूपा महामुने ।
वद तत्र च किं न्यूनं यतः पृच्छसि मां प्रभो ॥ ५० ॥
त्वया नानाविधं कर्म तपसा साधितं मुने ।
स्वर्गलोकाः कृताः सर्वेऽक्षयास्तान् भोक्तुमर्हसि ॥ ५१ ॥
तत्र स्वर्गे त्रयो दोषास्तान् शृणुष्व महामुने ।
इह कर्म कृतं लोकैर्भोक्तव्यं शुभरूपकम् ॥ ५२ ॥
तत्र कर्म कृतं लोकैः तदेव फलहीनकम् ।
तेन लोको हि दुःख्यस्ति तदन्ते किं भवेदिति ॥ ५३ ॥
[[४४]]
एतादृशं मया कर्म पुण्यरूपं कृतं महत् ।
एतावन्तं च कालं मे स्वर्गवासो भविष्यति ॥ ५४ ॥
एकं दोषं महान्तं च जानीहि मुनिसत्तम ।
द्वितीयं शृणु दोषं त्वं कथयामि सविस्तरम् ॥ ५५ ॥
नाना स्वर्गषु मित्राणि नाना प्रीतिविवर्धनाः ।
देवास्तत्र महाभाग सह तैर्मोदते स्वयम् ॥ ५६ ॥
सत्कर्म तस्य तेनैव भुक्तं स्वर्गे यथायथम् ।
पश्चात् पतनकाल तु तमधः पातयन्ति ते ॥ ५७ ॥
क्षणमेकं न तं कोऽपि स्नेहं पश्यति लोकपः ।
पतनस्य भयं चित्ते दोषोऽयं पातरूपकः ॥ ५८ ॥
तृतीयं दोषरूपं यच्छृणु त्वं भावपूर्वकम् ।
तद्वदिष्यामि ते प्रीत्या येन ज्ञानं भवेत्परम् ॥ ५९ ॥
सत्कर्मकारिणस्त्वन्ये महाभोगकरा मुने ।
सन्ति स्वर्गेषु चानेके तान् दृष्ट्वा तपति स्वयम् ॥ ६० ॥
धिङ् मां न्यूनविहारेण तिष्ठामि स्वल्पपुण्यतः ।
महापुण्यकरा अन्ये अधिकं विहरन्त्युत ॥ ६१ ॥
सदा हृदि तपत्येवं स्वर्गभूमिस्वभावतः ।
हृदि तापात्मको दोषस्तृतीयः कथितो मया ॥ ६२ ॥
अनन्तगुणसंयुक्तं स्वर्गं जानीहि तापस ।
दोषैस्त्रिभिः समायुक्तं महापुण्यप्रभावतः ॥ ६३ ॥
धन्यस्त्वं मुनिशार्दूल तत् स्वर्गे विजिते त्वया ।
भुङ्क्ष्व भोगान् मनोज्ञान् वै चल शीघ्रं मया सह ॥ ६४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते मुद्गलदेवदूतसंवादो नामाष्टादशोऽध्यायः ॥