॥ श्रीगणेशाय नमः ॥
शिव उवाच ।
गणेशगीतासारं ते श्रुत्वा पञ्च सुरेश्वराः ।
ऊचुस्तं विस्मिताः सर्वे प्रणम्य गणनायकम् ॥ १ ॥
पञ्च देवा ऊचुः ।
भगवन् भवता सर्वं कथितं तथ्यमेव च ।
तेन तृप्ता वयं स्वामिन् मोहशून्याः कृतास्त्वया ॥ २ ॥
तव दर्शनमात्रेण स्मरणं पूर्वकं कृतम् ।
गुणरूपा वयं ढुण्ढे कथं ब्रह्ममया वद ॥ ३ ॥
तेषां वचनमाकर्ण्य तानुवाच गजाननः ।
भक्तवत्सलभावेन तोषितोऽसौ महाप्रभुः ॥ ४ ॥
गणेश उवाच ।
स्वपदे जगति ब्रह्मरूपा वै जगदीश्वराः ।
भिन्नभावे गुणात्मानो भवन्तोऽपि मया कृताः ॥ ५ ॥
चतुर्विधेन भावेन क्रीडामि ननु तत्र च ।
क्रीडया पतितं बिम्बं तेन पञ्चविधोऽभवम् ॥ ६ ॥
बहलेषु विलासेषु तेषु भावेषु देवपाः ।
भवन्तो मदधीनाश्च संस्थिता नात्र संशयः ॥ ७ ॥
एषु भिन्नविहारेषु रजःसत्त्वतमोमयाः ।
मया ब्रह्मा हरिः शम्भुर्भिन्ना जाता हि मायया ॥ ८ ॥
अहङ्कारस्त्रिदेवानां सूर्यो मोहमयी तथा ।
शक्तिस्त्रिगुणसिध्यर्थमेते पञ्च मया कृताः ॥ ९ ॥
अहमत्र स्थितोऽंशेन वक्रतुण्ड इति स्मृतः ।
बिन्दुब्रह्ममयः साक्षाद्भिन्नभावप्रकाशकः ॥ १० ॥
तुरीयं मे मया रूपं कृतं यद् गुणपं सुराः ।
ज्ञातव्यं बुद्धिरूपं तद्दक्षिणाङ्गं प्रकथ्यते ॥ ११ ॥
पञ्चदेवविहाराख्यं वामाङ्गं सिद्धिरूपकम् ।
सिद्धिबुद्धियुतोऽहं वै बिन्दुमात्रात्मकोऽभवम् ॥ १२ ॥
भक्तानां विघ्नरूपा ये वक्रास्ते कथिताः सुरैः ।
तांस्तुण्डेन हनिष्यामि वक्रतुण्डस्ततः स्मृतः ॥ १३ ॥
मम माया मयाज्जीवाद्वक्रं ब्रह्ममुखं यतः ।
तेनाऽहं वक्रतुण्डस्तु लभ्य उन्मनसा भवेः ॥ १४ ॥
भवतां कार्यसिद्धयर्थं विहारार्थं तु मायया ।
बिन्दुरूपधरो भूत्वा स्थितोऽहं भावपूर्वकम् ॥ १५ ॥
यदि मे स्मरणं यूयं विस्मरिष्यथ वै तदा ।
मायामोहेन सम्भ्रान्ता भविष्यथ महेश्वराः ॥ १६ ॥
भवद्भिः सततं तस्मात् कर्तव्यं स्मरणं हृदि ।
आदौ पूज्यो भविष्यामि दैवे पित्र्ये च कर्मणि ॥ १७ ॥
तेन सिद्धियुताः सर्वे भविष्यन्ति न संशयः ।
इत्युक्त्वान्तर्दधे देवो गणेशो गणपालकः ॥ १८ ॥
[[४०]]
शिव उवाच ।
इति ते कथितो देवि ध्यानमार्गः पुरातनः ।
तं ध्यायामि हृदिस्थं मे गणेशं ब्रह्मनायकम् ॥ १९ ॥
अखिलं ब्रह्मणा सृष्टं चराचरमयं शिवे ।
नानावतारवान् विष्णुः स पाति गणपाज्ञया ॥ २० ॥
अहं संहारकारी च त्वं प्रमोदप्रदा शिवे ।
कर्मणां चालकः कालैर्भानुर्जातो न संशयः ॥ २१ ॥
हिमाचलसुता त्वं वै जाता तेन सुविस्मृतम् ।
त्वयाऽखिलं हृदिस्थं च ज्ञानं गणपबोधकम् ॥ २२ ॥
मया सुस्मारितं तुभ्यं स्मर सर्वं शुचिस्मिते ।
भवती च महामाया पश्य त्वं गणपं हृदि ॥ २३ ॥
अष्टौ तस्याऽवतारांश्च कथयामि समासतः ।
भजता तेन मार्गेण भवेद्योगो न दुर्लभः ॥ २४ ॥
प्रथमो वक्रतुण्डश्च त्वम्पदब्रह्म कथ्यते ।
द्वितीयं एकदन्तश्च तत्पदब्रह्मबोधकः ॥ २५ ॥
महोदरस्तृतीयस्तु ब्रह्मासि पदधारकम् ।
गजाननश्चतुर्थश्च साङ्ख्यरूपो महेश्वरि ॥ २६ ॥
लम्बोदर इति ख्यातो ह्येतद्ब्रह्म त्वयि स्थितम् ।
षष्ठो विकटनामा च सद्ब्रह्मात्मरविः परः ॥ २७ ॥
विघ्नराजः स्वयं विष्णुः सप्तमः समताङ्गतः ।
धूम्रवर्णोऽष्टमः शम्भुरव्यक्तो नेति कथ्यते ॥ २८ ॥
अष्टब्रह्मसु तत्पालाः कलारूपधराः स्मृताः ।
गणपा गणराजस्य ह्यवताराः प्रकीर्तिताः ॥ २९ ॥
स्वसंवेद्यमयं ब्रह्म तेन वै प्रधृताः प्रिये ।
सर्वेषां ब्रह्मणां देवि खेलकस्तेन स स्मृतः ॥ ३० ॥
अयोगस्यावतारश्च खेलनादि न विद्यते ।
स्वानन्दवासिनं विद्धि खेलकं सततं प्रिये ॥ ३१ ॥
पूर्णयोगो गणाधीशः स्वानन्दायोगवर्जितः ।
योगिनां तत्र शान्तिश्च ह्यभवद्योगसेवया ॥ ३२ ॥
इति सर्वं समाख्यातं यत्पृष्टं देवि शोभनम् ।
अनेन विधिना नित्यं गणेशं भज सर्वदा ॥ ३३ ॥
अस्माकं कुलदेवश्च गणेशो नात्र संशयः ।
पूज्यते स मया नित्यं चिन्तामणिविनायकः ॥ ३४ ॥
पञ्चानां चित्तवृत्तीनां प्रकाशकतया स्थितः ।
तेन चिन्तामणिर्नाम कथ्यते स गजाननः ॥ ३५ ॥
गजवक्त्रात्मिकां मूर्तिं पश्य देवि गृहे स्थिताम् ।
मणिरत्नमयीं साक्षात् पूजयामि सुभक्तितः ॥ ३६ ॥
मुद्गल उवाच ।
इत्युक्त्वा दर्शयामास ध्यानस्थानं सदाशिवः ।
एकान्ते वीक्ष्य वै देवी विस्मिता साऽभवत्परम् ॥ ३७ ॥
इत्युक्त्वा विररामाथ शङ्करः करुणानिधिः ।
तं पुनः प्रत्युवाचेदं महादेवी जगन्मयी ॥ ३८ ॥
शक्तिरुवाच ।
सर्वेषां मोहसन्दात्री तामसस्य सदाशिव ।
तव पत्नी कथं जाता ह्येकभागस्थितस्य वै ॥ ३९ ॥
अमुं मे संशयं देव छेत्तुमर्हसि साम्प्रतम् ।
त्वदन्यः संशयच्छेत्ता सर्वज्ञो नास्ति कुत्रचित् ॥ ४० ॥
पार्वतीवचनं श्रुत्वा शिवो हर्षसमन्वितः ।
उवाच मधुरं वाक्यं बोधयंस्तां सहेतुकम् ॥ ४१ ॥
शिव उवाच ।
शृणु देवि पुरा वृत्तं येन त्वं मत्प्रियाऽभवः ।
तत्तेऽहं कथयिष्यामि कथासारं सुखप्रदम् ॥ ४२ ॥
विवादः पञ्चदेवानां स्पर्धया समभूच्च यः ।
तत्रैश्वर्यं मया दृष्टं त्वदीयं महदद्भुतम् ॥ ४३ ॥
[[४१]]
पञ्चानां बोधको देवो गणेशोऽन्तर्दधे यदा ।
बोधयित्वा यथान्यायमस्मान् ब्रह्ममयः प्रभुः ॥ ४४ ॥
ततो मया तपस्तप्तं तव प्राप्तौ प्रिये महत् ।
भक्तिभावेन सन्तुष्टा त्वं जाता शतवर्षतः ॥ ४५ ॥
मत्समीपे समागम्य वृणुष्व वरमीप्सितम् ।
प्रसन्नाऽहं महादेव दास्येऽहमिति चाब्रवीः ॥ ४६ ॥
त्वां नत्वा स्तुतवान्नानाचेष्टितैस्त्वत्स्वरूपकैः ।
तेन तष्टिः परा जाता तवापि जगदीश्वरि ॥ ४७ ॥
मया प्रयाचितं देवि त्वं मे पत्नी भव प्रिये ।
एष एव वरो मह्यं दातव्यो जगदीश्चरि ॥ ४८ ॥
मदीयं वचनं श्रुत्वा सस्मिता भावपूर्वकम् ।
जाता त्वं मे वरं दत्त्वाऽन्तर्धानं च कृतं त्वया ॥ ४९ ॥
अतस्त्वं मे प्रिया जाता वरदानप्रभावतः ।
तव वामाङ्गसम्भूता लक्ष्मीनारायणप्रिया ॥ ५० ॥
दक्षिणाङ्गात् समुद्धता सावित्री ब्रह्मणः प्रिया ।
हृदयात्ते च सम्भूता सञ्ज्ञा पत्नी रवेरपि ॥ ५१ ॥
इति सर्वं समाख्यातं स्मर सर्वं शुचिस्मिते ।
साधय त्वं पुनर्योगं गाणेशं शान्तिदं परम् ॥ ५२ ॥
मुद्गल उवाच ।
शिवेन कथितं सर्वं श्रुत्वा देवी नगात्मजा ।
एकान्ते साधयामास योगं गणपतेः परम् ॥ ५३ ॥
पूर्वसंस्कारभावेन स्वल्पकालेन सा शिवा ।
शान्तिं प्राप्ता महाभागा प्रययौ शिवसन्निधौ ॥ ५४ ॥
मुदल उवाच ।
इति ते कथितं दक्ष चेष्टितं गणपस्य च ।
भज त्वं सर्वभावेन गणेशं ब्रह्मनायकम् ॥ ५५ ॥
तेन त्वं विघ्नहीनोऽपि भवितासि न संशयः ।
सर्वमान्यो महायोगी शोकहीनो जगद्गुरुः ॥ ५६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते शिवपार्वतीसंवादसमाप्तिर् नाम सप्तदशोऽध्यायः ॥