॥ श्रीगणेशाय नमः ॥
[[३८]]
शिव उवाच ।
गणेशवचनं श्रुत्वा प्रणता भक्तिभावतः ।
पप्रच्छुस्तं पुनः शान्ता ज्ञानं ब्रूहि गजानन ॥ १ ॥
गणेश उवाच ।
देहश्चतुर्विधः प्रोक्तस्त्वं पदं ब्रह्मभेदतः ।
सोऽहं देही चतुर्धा तत्पदं ब्रह्म सदैक्यतः ॥ २ ॥
संयोग उभयोर्यश्चाऽसि पदं ब्रह्म कथ्यते ।
स्वत उत्थानकं देवा विकल्पकरणाद् द्विधा ॥ ३ ॥
सदा स्वसुखनिष्ठं यद्ब्रह्म साङ्ख्यं प्रकीर्तितम् ।
परतश्चोत्थानकं तत् क्रीडाहीनतया परम् ॥ ४ ॥
स्वतः परत उत्थानहीनं यद्ब्रह्म कथ्यते ।
स्वानन्दः सकलाभेदरूपः संयोगकारकः ॥ ५ ॥
तदेव पञ्चधा जातमीश्वरास्तन्निबोधत ।
स्वतश्च परतो ब्रह्मोत्थानं यद् द्विविधं स्मृतम् ॥ ६ ॥
ब्रह्मणो नाम तद्वेदे कथ्यते भिन्नभावतः ।
तयोरनुभवो यश्च योगिनां हृदि जायते ॥ ७ ॥
रूपं तदेव ज्ञातव्यमसद्वेदेषु कथ्यते ।
सा शक्तिरियमाख्याता ब्रह्मरूपा ह्यसन्मयी ॥ ८ ॥
तत्रामृतमयाधारः सूर्य आत्मा प्रकथ्यते ।
शक्तिसूर्यमयो विष्णुरानन्दो नन्दनात्तयोः ॥ ९ ॥
त्रिविधेषु तदाकारस्तत् क्रियाहीनरूपकः ।
शिवो नेति चतुर्थोऽयं त्रिनेति करणात्परः ॥ १० ॥
त्रिविधं मोहमात्रं यन्निर्मोहस्तु सदाशिवः ।
तेषामभेदे यद्ब्रह्म स्वानन्दः सर्वयोगतः ॥ ११ ॥
पञ्चानां ब्रह्मणां यच्च बिम्बं मायामयं स्मृतम् ।
ब्रह्मा स एव विज्ञेयः सर्वादिः सर्वभावनः ॥ १२ ॥
बिम्बेन सकलं सृष्टं तेनायं प्रपितामहः ।
असत् सत् समनेति स्वानन्दरूपा वयं स्मृताः ॥ १३ ॥
स्वानन्दाद्यत् परं ब्रह्मायोगाख्यं ब्रह्मणां भवेत् ।
केषामपि प्रवेशो न तत्र तस्याऽपि कुत्रचित् ॥ १४ ॥
मदीयं दर्शनं तत्रायोगे नो योगिनां भवेत् ।
स्वानन्दे दर्शनं प्राप्तं स्वसंवेद्यात्मकं च मे ॥ १५ ॥
स्वानन्दवासिनं तेन वेदेषु प्रवदन्ति माम् ।
चतुर्णां ब्रह्मणां भोगास्तं योगाभेदयोगतः ॥ १६ ॥
संयोगश्च ह्ययोगश्च तयोः परतरो मतः ।
पूर्णशान्तिप्रदो योगश्चित्तवृत्तिनिरोधतः ॥ १७ ॥
क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् ।
पञ्चभूमिमयं चित्तं तत्र चिन्तामणिः स्थितः ॥ १८ ॥
पञ्चभूमिनिरोधेन प्राप्यते योगिभिर्हृदि ।
शान्तिरूपात्मयोगेन ततः शान्तिर्मदात्मिका ॥ १९ ॥
एतद्योगात्मकं ज्ञानं गाणेशं कथितं मया ।
नित्यं युक्तं च योगेन नैव मोहं प्रगच्छथ ॥ २० ॥
चित्तरूपा स्वयं बुद्धिः सिद्धिर्मोहमयी स्मृता ।
नानाब्रह्मविभेदेन ताभ्यां क्रीडति तत्पतिः ॥ २१ ॥
त्यक्वा चिन्ताभिमानं च गणेशोहं समाधिना ।
भविष्यन्ति भवन्तोऽपि मद्रूपा मोहवर्जिताः ॥ २२ ॥
शिव उवाच ।
इत्युक्त्वा विररामाऽथ गणेशो भक्तवत्सलः ।
तेऽपि भेदं परित्यज्य शान्तिं प्राप्ताश्च तत्क्षणात् ॥ २३ ॥
एकविंशतिसुश्लोकैर्गणेशेन प्रकीर्तितम् ।
गीतासारं सुशान्तेभ्यः शान्तिदं योगसाधनैः ॥ २४ ॥
गणेशगीतासारं च यः पठिष्यति भावतः ।
श्रोष्यति श्रद्धधानश्चेद्ब्रह्मभूतसमो भवेत् ॥ २५ ॥
इह भुक्त्वाऽखिलान् भोगानन्ते योगमयो भवेत् ।
दर्शनात्तस्य लोकानां सर्वपापं लयं व्रजेत् ॥ २६ ॥
[[३९]]
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथम खण्डे वक्रतुण्डचरिते गणेशगीतासारकथनं नाम षोडशोऽध्यायः ॥