१५ गणेशप्रसन्नभावः

॥ श्रीगणेशाय नमः ॥

[[३७]]

सूत उवाच ।

शिवस्य वचनं श्रुत्वा भक्तिभावेन तोषितः ।
उवाच मधुरं वाक्यं विघ्नेशस्तं प्रहर्षयन् ॥ १ ॥

वक्रतुण्ड उवाच ।

शृणु शम्भो महाभाग मम मायाविमोहित ।
गणेशोऽहं पुनर्दृष्टस्तपसा भावितात्मना ॥ २ ॥

यः पुरा भवतो देव वरदाताऽभवं परः ।
उग्रेण तपसा तुष्टोऽकरवं ज्ञानसंयुतम् ॥ ३ ॥

ममैषा सततं माया प्रमोहयति मानवान् ।
तेन विस्मरणं प्राप्तं तवाऽपि न च संशयः ॥ ४ ॥

एवमुक्त्वा शिवं मायामोहजालं निराकरोत् ।
सर्वं च स्मरणं तेन पुनः प्राप्तं शिवस्य च ॥ ५ ॥

सर्वं स्मृत्वा शिवस्तत्र स्तोतुं समुपचक्रमे ।
तावदन्तर्हितं जातं रूपं गणपतेः शुभम् ॥ ६ ॥

पुनर्ध्यानेन शम्भुः स तमेवाचिन्तयन् स्थितः ।
नापश्यद् हृदि तद्रूपं तेनाकुल इवाऽभवत् ॥ ७ ॥

आययौ विष्णुरभ्याशे सर्वं त्वकथयच्छिवम् ।
अदृष्टं तादृशं रूपं कथयामास सोऽपि तम् ॥ ८ ॥

एवं पञ्चाप्यदृष्ट्वा तत् विस्मिता अभवन् परम् ।
एकत्र मिलिता जातास्तुष्टुवुस्तं गतस्मयाः ॥ ९ ॥

पञ्च देवा ऊचुः ।
नमस्ते वक्रतुण्डाय त्रिनेत्रं दधते नमः ।
चतुर्भुजाय देवाय पाशाङ्कुशधराय च ॥ १० ॥

लम्बोदर नमस्तुभ्यं नाभिशेषाय ते नमः ।
महते चैकदन्ताय शूर्पकर्णाय ते नमः ॥ ११ ॥

सिन्दूरारुणदेहाय रक्तवर्णधराय च ।
महाकायाय सूक्ष्माय गणेशाय नमो नमः ॥ १२ ॥

सिद्धिबुद्धियुतायैव विभूतिसहिताय च ।
चिन्तामणिधरायैव तथा चिन्तामणे नमः ॥ १३ ॥

अव्यक्ताय परेशाय परेषां च पराय ते ।
मनोवाणीविहीनाय विघ्नेशाय नमो नमः ॥ १४ ॥

नानामायाधरायैव मायिनां मोहकारिणे ।
हेरम्बाय नमस्तुभ्यं ब्रह्मणां पतये नमः ॥ १५ ॥

दर्शयस्व निजं रूपं भक्तेभ्यः प्रीतिदायकम् ।
सनाथा हि वयं तेन सर्वनाथाय ते नमः ॥ १६ ॥

स्तुवतां तु पुरः प्रादुरासीद्देवो गजाननः ।
तं दृष्ट्वा दण्डवत् सर्वे प्रणता भक्तिभावतः ॥ १७ ॥

तानुत्थाप्य स्वयं ढुण्ढिर्वचनं चेदमब्रवीत् ।
स्तोत्रेण भावितो देवाः प्रीतो वो नात्र संशयः ॥ १८ ॥

यः पठेत् स्तोत्रमेतद्वै स मे मान्यो भवेत् सुराः ।
वाञ्छितं पूरयिष्याम्यन्ते मे सायुज्यमाप्नुयात् ॥ १९ ॥

शृणुध्वं मे वचो रम्यं मा गर्वं कुरुत प्रियाः ।
भवन्तो मदधीनाश्च कलांशा नात्र संशयः ॥ २० ॥

क्रीडार्थं निर्मिताः सर्वे स्पर्धमानाः परस्परम् ।
किमर्थं मनसि भ्रान्ता जाताः पूर्णात्मका अपि ॥ २१ ॥

श्राव्यं ज्ञानं रहस्यं यन् मदीयं तेन भाविताः ।
सदा मोहविनिर्मुक्ता भवितारश्च मत्समाः ॥ २२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते गणेशप्रसन्नभावो नाम पञ्चदशोऽध्यायः ॥