॥ श्रीगणेशाय नमः ॥
शिव उवाच ।
शृणु देवि प्रवक्ष्यामि यज्जातं चाद्भुतं ततः ।
गणेशमायामोहेन मोहितानां चरित्रकम् ॥ १ ॥
शिवस्य वचनं श्रुत्वा विष्णुब्रह्माणमब्रवीत् ।
वरं वृणु विरिञ्च त्वां शिवात्पुत्रो भवेति मे ॥ २ ॥
तव पुत्रः शिवो जातस्तेन मे पौत्रतां गतः ।
उभयोः सफलं पूर्णं वाञ्छितं जातमद्भुतम् ॥ ३ ॥
विष्णोर्वचनमाकर्ण्य विधिः शङ्करमब्रवीत् ।
मम पुत्रो भव त्वं वै वर एष वृतो मया ॥ ४ ॥
विष्णुनाऽपि तदेवोक्तं तथा वै शङ्करोऽब्रवीत् ।
तव भालाद्भविष्यामि रुद्रोऽहं त्वंशतो विधे ॥ ५ ॥
शिवस्य वचनं श्रुत्वा सन्तुष्टौ विधिमाधवौ ।
ऊचतुः शङ्करं तत्र स्नेहात्तं भावपूर्वकम् ॥ ६ ॥
विधिवच्छिव पश्य त्वमैश्वर्यं चावयोः पृथक् ।
तेन तुष्टौ महादेव भविष्यावो न संशयः ॥ ७ ॥
तयोर्यदैश्वरं भावं शिवोपि ज्ञानचक्षुषा ।
दृष्ट्वा नान्तं जगामाऽसौ तौ पुनः प्रत्युवाच ह ॥ ८ ॥
भवतोर्महिमानं चापारं पश्यामि शाश्वतम् ।
वयं त्रयः समाख्याता ईश्वराः सर्वतः पराः ॥ ९ ॥
एतस्मिन्नन्तरे तत्राऽजगाम स दिवाकरः ।
तेजोराशिः सदात्मा च पृच्छति स्म समाहितः ॥ १० ॥
किमर्थं स्मरणं देवा मदीयं कृतमादरात् ।
तन्मे कथयताद्य त्वागतोऽहं स्नेहतः परम् ॥ ११ ॥
भानोर्वचनमाकण्ये प्रहृष्टास्ते त्रयो भृशम् ।
ऊचुः प्रसन्नभावेनैश्वर्यं ते दर्शय प्रभो ॥ १२ ॥
तेषां श्रुत्वा गिरं सौम्यां दर्शयामास रूपकम् ।
तेजोमयमपारं यच्चराचरमयं महत् ॥ १३ ॥
सूर्यस्य तेजसा सर्वे निष्प्रभास्ते त्रयः कृताः ।
प्रणष्टदृष्टयो जाता न शेकुर्द्रष्टुमञ्जसा ॥ १४ ॥
ज्ञानदृष्ट्या च तं दृष्ट्वा चराचरतनुं प्रभुम् ।
अपाररूपं भास्वन्तं नतास्तं स्नेहभावतः ॥ १५ ॥
दर्शयित्वा तथात्मानं सौम्यरूपोर्यमाऽभवत् ।
तमूचुस्ते त्रयो देवा नान्तं ददृशिम प्रभो ॥ १६ ॥
अस्माकमपि पश्य त्वमैश्वर्यं स्नेहभावतः ।
तेषां तद्वचनं श्रुत्वा रविहृष्टो बभूव ह ॥ १७ ॥
ज्ञानदृष्ट्या रविस्तेषामैश्वर्यं दृष्टवान् परम् ।
उवाच प्रणतो भूत्वा विस्मितश्चेतसा भृशम् ॥ १८ ॥
भवन्तोऽपि महात्मानो नान्तं पश्यामि सर्वतः ।
युष्माकमैश्वरं भावमद्भुतं दृष्टवानहम् ॥ १९ ॥
[[३६]]
वयं सर्वेश्वराः सर्वे भगवन्तः सनातनाः ।
न्यूनाधिकं कलामात्रं विद्यते नैव निश्चितम् ॥ २० ॥
तस्मिन् क्षणे स्वयं शक्तिरागता मोहिनी परा ।
उवाच तान् प्रसन्ना मे किमर्थं स्मरणं कृतम् ॥ २१ ॥
तामूचुस्ते च चत्वारो देवाः स्नेहेन भाविताः ।
दर्शयस्व महादेवि ऐश्वर्यं कीदृशं तव ॥ २२ ॥
इत्युक्ता सा स्वरूपं तद्दर्शयामास सुन्दरम् ।
चराचरमयं पूर्णं स्थूलसूक्ष्मादिभिर्युतम् ॥ २३ ॥
दृष्ट्वा रूपं तदीयं वै भ्रान्तास्ते शरणं ययुः ।
नान्तं ददृशिमार्ये ते रूपस्य महतः किल ॥ २४ ॥
सौम्यरूपा तदा जाता तामूचुः पश्य भावतः ।
अस्माकं देवि चैश्वर्यं कीदृशा वयमेव च ॥ २५ ॥
तेषां वचनमाकर्ण्य ज्ञानदृष्ट्या स्म पश्यति ।
नान्तं जगाम तेषां वै नता सा तान्विशेषतः ॥ २६ ॥
उवाच स्नेहभावेन नान्तं पश्यामि कुत्रचित् ।
भवन्तोऽपि महात्मान ईश्वराः पूर्णभावतः ॥ २७ ॥
वयं पञ्च समा नाथा नान्तरं दृश्यते क्वचित् ।
कः समर्थो भवेद्देवो निश्चयो नैव दृश्यते ॥ २८ ॥
गणेशमायया भ्रान्ता अवदंस्ते परस्परम् ।
प्रभुरेकश्च सर्वत्र वेदे वै पठ्यते बुधैः ॥ २९ ॥
प्रभवः पञ्च कुत्रापि नोक्ताः शास्त्रेषु सम्मताः ।
अतः कोपि प्रभुर्भाव्यः स च वै कुत्र वर्तते ॥ ३० ॥
एवं विवादे सम्प्राप्ते विस्मृतं ज्ञानमाद्यकम् ।
गाणेशं चित्तचाञ्चल्यादूर्ध्वं जग्मुः प्रभावतः ॥ ३१ ॥
न किञ्चिद्ददृशुस्तत्राधो भागे प्रययुस्ततः ।
एवं दश दिशो भ्रान्ताः पश्यन्तस्ते परस्परम् ॥ ३२ ॥
न किञ्चिद्ददृशुस्तत्र स्थिता एकत्र ते पुनः ।
योगमार्गेण चित्ते स्वे ध्यानं चक्रुः क्रमेण च ॥ ३३ ॥
ब्रह्माऽभेदस्वरूपं ते रेमिरे योगभावतः ।
एकीभूता इवात्मानः शान्तिं प्राप्ताः स्वभावतः ॥ ३४ ॥
ततस्तान् दर्शयामास योगिध्येयमनुत्तमम् ।
स्वरूपं गणराजस्तु हृदये संस्थितं परम् ॥ ३५ ॥
चतुर्भुजं त्रिनेत्रं तच्छुण्डादण्डविराजितम् ।
एकदन्तं शूर्पकर्णं वक्रतुण्ड महोदरम् ॥ ३६ ॥
रक्तवर्णं महाकायं सिन्दूरालिप्तमेव च ।
नाभिशेषं किरीटादिनानाभूषणशोभितम् ॥ ३७ ॥
सिद्धिबुद्धियुतं पूर्णं विभूतिभिरूपासितम् ।
चिन्तामणिं मणिं चैव दधत्तु हृदये शुभम् ॥ ३८ ॥
प्रसन्नवदनं भक्तानुग्रहाणां प्रकारकम् ।
हृदि दृष्टाऽभवन्नेव विस्मितास्ते सुराः प्रिये ॥ ३९ ॥
तमादौ शङ्करस्यैव हृदि प्रकटतां गतः ।
तं पप्रच्छ स्वयं शभुः को भवान् वद मे प्रभो ॥ ४० ॥
शान्तियोगेन सम्प्राप्तः किं न ब्रह्मपतिः परः ।
कथयस्व महाभाग त्वां न जानामि तत्त्वतः ॥ ४१ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते गणेशप्रादुर्भावो नाम चतुर्दशोऽध्यायः ॥