॥ श्रीगणेशाय नमः ॥
शिव उवाच ।
शृणु देवि कथां पुण्यां गणेशप्रीतिवर्धिनीम् ।
यज्जातमादिकाले वै तत्तेऽहं कथयामि च ॥ १ ॥
विष्णोर्वचनमाकर्ण्य गर्वयुक्तं प्रभावतः ।
भगवांस्तमुवाचेदं वेदकर्ता पितामहः ॥ २ ॥
ब्रह्मोवाच ।
विष्णो त्वं यदि मां पाता सर्वेशश्च महान् प्रभुः ।
पश्योदरगतो भूत्वा प्रभावं मे जगद्गुरो ॥ ३ ॥
ब्रह्मणो गिरमाकर्ण्य प्रविष्टोऽसौ जनार्दनः ।
योगमायाबलेनैव योगीशो जठरे विधेः ॥ ४ ॥
ब्रह्माण्डरचनां तत्र दृष्ट्वा नानाविधां पराम् ।
नाभिपद्मयुतं विष्णुं ददर्श पुरुषोत्तमः ॥ ५ ॥
विस्मितो हृदि मोहेन किमद्भुतमिदं महत् ।
पश्यन्नान्तं जगामाऽसौ निःसृतो देहमध्यतः ॥ ६ ॥
निःसृतः प्रणिपत्याऽऽदौ तं विधिं त्ववदत्प्रभुः ।
ब्रह्मन्नान्तं प्रजानामि त्वदीयं वै न संशयः ॥ ७ ॥
त्वदीयजठरेऽहं वै स्थितस्तेन भवान् गुरुः ।
सर्वेशो नात्र सन्देहः स्रष्टा त्वं स्वप्रभावतः ॥ ८ ॥
त्वमेव भगवन् पश्य मदीये जठरे परम् ।
प्रभावं पूर्णभावेन मदीयं कीदृशं प्रभो ॥ ९ ॥
नारायणवचः श्रुत्वा ब्रह्मा विस्मितमानसः ।
योगस्यैव प्रभावेण गतस्तत्र यथारुचि ॥ १० ॥
विष्णोश्च जठरे ब्रह्मा ब्रह्माण्डं लोकसङ्कुलम् ।
ब्रह्माणमपरं तत्र स्थितं पश्यन् विमोहितः ॥ ११ ॥
ब्रह्मा नान्तं जगामाऽसौ पश्यन् पश्यन् महात्मनः ।
बहिर्गन्तुं मनश्चक्रे विष्णुना मार्ग आवृतः ॥ १२ ॥
द्वाराणि योगभावेन पिहितानि स्वमायया ।
भ्रमन् भ्रमन् स्वयं ब्रह्मा प्राप नो मार्गमुत्तमम् ॥ १३ ॥
तत्र योगबलेनाऽपि ब्रह्मा वै पद्मनालतः ।
निर्भिद्य सहसा द्वारं ययौ तेन बहिर्विधिः ॥ १४ ॥
बहिरागत्य विष्णु तं क्रोधेन स जगाद ह ।
वशमानीय मां किं त्वं स्वच्छन्दो भवसि प्रभो ॥ १५ ॥
अहं स्वेन प्रभावेण निःसृतो योगमायया ।
द्वाराणि पिहितान्येव किमर्थं वद माधव ॥ १६ ॥
वचनं प्राह देवस्य श्रुत्वा विष्णुमहायशाः ।
प्रहस्य तमुवाचेत्थं स्नेहयुक्तं समाहितः ॥ १७ ॥
विष्णुरुवाच ।
वशीकर्तुं विधे त्वाहमिच्छामि न जगद्गुरो ।
द्वाराणि पिहितान्येव मया क्रीडार्थमादरात् ॥ १८ ॥
परस्परं तु लीलार्थं कृतं यत्प्रपितामह ।
प्रभावं ज्ञातुकामस्य त्वपराधं क्षमस्व मे ॥ १९ ॥
इति प्रसादितो ब्रह्मा प्रसन्नः प्राह तं पुनः ।
क्रीडार्थं यत्त्वया विष्णो कृतं ज्ञातं न वै मया ॥ २० ॥
अहं क्रोधसमायुक्तः सञ्जातोऽज्ञानतः प्रभो ।
अप्रियं भाषणं विष्णो यत् क्षमस्व कृतं मया ॥ २१ ॥
तवान्तं नैव जानामि जठरेऽहं समास्थितः ।
त्वं श्रेष्ठो मे गुरुः साक्षान्नात्र संशयवान् हरे ॥ २२ ॥
भवानहमतः प्राज्ञौ श्रेष्ठौ सर्वेश्वरौ परौ ।
शम्भुः शक्तिश्च सूर्यश्च गर्वयुक्ता बभूविरे ॥ २३ ॥
तेषां प्रमाणं तज् ज्ञेयमिति सस्मरतुः प्रभू ।
तयोः स्मरणमात्रेण संययुस्तत्र ते त्रयः ॥ २४ ॥
प्रथमं प्राप्तवांस्तत्र शङ्करः शूलधृक् प्रभुः ।
उक्तवांस्तौ किमर्थं मे स्मरणं वदतं कृतम् ॥ २५ ॥
[[२४]]
तत्रोचतुर्हरिर्ब्रह्मा शृणु शङ्कर मे वचः ।
तवैश्वर्यं कियन्मानं दर्शयस्व सदाशिव ॥ २६ ॥
तयोर्वचनमाकर्ण्य गर्वयुक्तः सदाशिवः ।
उवाच क्रोधसंयुक्तो वचनं विस्मयन्निव ॥ २७ ॥
शिव उवाच ।
अहं हर्ता च सर्वेषां युवयोर्नात्र संशयः ।
मत्तः परं न किञ्चिद्वै ज्ञातव्यं सर्वभावतः ॥ २८ ॥
इत्युक्त्वा स स्वयं शम्भुर्दर्शयामास तौ वपुः ।
ज्योतीरूपं महालिङ्गं परं सर्वत्र संस्थितम् ॥ २९ ॥
तत्तौ दृष्ट्वा महाश्चर्यं विस्मितौ विधिमाधवौ ।
अध ऊर्ध्वं पुरः पश्चाद्वामदक्षिणसन्ततम् ॥ ३० ॥
तत्र ब्रह्मा स्वयं विष्णुमुवाच मधुरं वचः ।
अधस्त्वं गच्छ देवेश ऊर्ध्वं गच्छामि भावतः ॥ ३१ ॥
शिवस्यान्तं प्रपश्यावः कीदृशोऽयं महेश्वरः ।
अतस्त्वं त्वरितो भूत्वा कुरु शीघ्रमिदं वचः ॥ ३२ ॥
इत्युक्तो ब्रह्मणा विष्णुस्तं प्रत्यूचे प्रभावतः ।
ब्रह्मन्मह्यं वरं देहि पश्चाद्गन्तुं समुत्सहे ॥ ३३ ॥
भ्रान्तो ब्रह्माऽभवत्तत्र वरं ब्रूहीति सोऽब्रवीत् ।
दास्यामि नात्र सन्देहः प्रीतस्त्वं वरयाशु च ॥ ३४ ॥
विष्णुरुवाच ।
त्वं मे पुत्रो भव ब्रह्मन्नेष एव वरो मतः ।
तस्य तद्वचनं श्रुत्वा विस्मितो विधिरब्रवीत् ॥ ३५ ॥
वञ्चितोऽहं त्वया नूनं सम्भ्रमेऽस्मिन् समुत्थिते ।
दत्तो वरो यतस्तेन तव पुत्रो भवाम्यहम् ॥ ३६ ॥
सृष्टिकाले च सम्प्राप्ते त्वन्नाभिकमलात् स्वयम् ।
देहं सृजामि योगेन पद्मजोऽहं तवात्मजः ॥ ३७ ॥
इत्युक्तः स हरिस्तत्र तं प्रणम्य तथेति च ।
प्रविष्टोधः शिवस्यापि द्रष्टुं पारं महात्मनः ॥ ३८ ॥
ब्रह्माऽपि त्वरितो भूत्वोर्ध्वं ययौ पारलिप्सया ।
न तत्र पारमीशस्य प्राप्तवान् स पितामहः ॥ ३९ ॥
विष्णुश्च शङ्करस्याधो न पारं दृष्टवान् ततः ।
बहुकालेन तो तत्राऽऽगतौ तौ खिन्नमानसौ ॥ ४० ॥
परस्परविचारेण शङ्करं स्तोतुमुद्यतौ ।
बद्धाञ्जलिपुटावेतौ स्तोत्रं चक्रतुरुत्तमम् ॥ ४१ ॥
ब्रह्मविष्णू ऊचतुः ।
नमस्ते शङ्करायैव नमस्ते शूलपाणये ।
रुद्राय कालरूपाय त्र्यम्बकाय नमो नमः ॥ ४२ ॥
उमापते नमस्तुभ्यं वृषभेश्वरवाहन ।
आदिदेवाय देवाय महादेवाय ते नमः ॥ ४३ ॥
प्रसीद भगवन् शम्भो नान्तं पश्यावहे विभो ।
किंरूपं किंस्वभावं त्वां न जानीवः कथञ्चन ॥ ४४ ॥
दर्शय स्वात्मरूपं भो महेश्वर नमोऽस्तु ते ।
येन ते भजनं देव जनाः कुर्वन्ति निर्भयाः ॥ ४५ ॥
तयोर्वचनमाकर्ण्य शम्भुः प्राकट्यमास्थितः ।
ततस्तं तौ ददृशतुर्हरिश्च भगवान् विधिः ॥ ४६ ॥
वामभागे स्थितं विष्णुं दक्षिणाङ्गे पितामहम् ।
विश्वं चराचरं सर्वं लिङ्गे तत्रास्य संस्थितम् ॥ ४७ ॥
अपारमहिमानं तं दृष्ट्वा नेमतुरादरात् ।
उपसंहर रूपं तत्त्वमेव परमेश्वरः ॥ ४८ ॥
तयोर्वचनमाकर्ण्य हृष्टः सन् शङ्करः प्रभुः ।
भगवान् पूर्वरूपेण सन्तस्थौ वृषभध्वजः ॥ ४९ ॥
उवाच तौ महादेवो वृणुतं वरमीप्सितम् ।
दास्यामि भवतोभावात् स्तोत्रसन्तुष्टमानसः ॥ ५० ॥
[[१४]]
य एतत्पठति स्तोत्रं स कामान् लभतेऽखिलान् ।
मत्प्रियः सोऽपि भवति मल्लोकेऽन्ते प्रगच्छति ॥ ५१ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते पञ्चदेवविवादो नाम त्रयोदशोऽध्यायः ॥